मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( षष्ठः पटलः )
अथ विश्वनिमित्तस्य
प्राप्तं लक्षणमात्मनः ।
तदीशौक्तौ गतप्रायं
तथाप्युद्देश उच्यते ॥ १ ॥
अथेदानीं पाश्चात्यपटलान्तसूचिताभिधान-
स्यात्मनो लक्षणमुच्यत इति पाटलिकप्रा-
करणिकौ संबन्धौ ज्ञेयौ । सौत्रादयस्तु प्राग्व-
दुन्नेयाः प्रतिपटलमुच्यमाना अतिपौनरुक्त्य-
मावहन्ति । विश्वस्य जगतो निमित्तं प्रवर्तन-
हेतुरात्मा तद्भोगसाधनाय तनुकरणभुवना-
दीनामुत्पत्तेः । तस्यात्मनो लक्षणमीश्वरोक्त्यन-
न्तरमवसरप्राप्तं कथ्यते । तच्च यद्यपि
'तेन स्वभावसिद्धेन भवितव्यं जगत्कृता ।' (१।२।४)
इत्यत्र ईश्वरसिद्ध्यनुषङ्गेण
१५० मृगेन्द्रतन्त्रे । [ १६
‘चैतन्यं दृक्क्रियारूपं तदस्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥’ (१।२।५)
इत्यादिनोक्तप्रायं कथितकल्पं, तथाप्युद्देशः
सोपपत्तिकतत्स्वरूपसंक्षेप उच्यते ॥ १ ॥
कार्यं क्षित्यादि कर्तेश-
स्तत्कर्तुर्नोपयुज्यते ।
न स्वार्थमप्यचिद्भावा-
न्नानर्थ्यं कर्तृगौरवात् ॥ २ ॥
कार्यत्वं तावत्क्षित्यादेरेव संनिवेशादिम-
त्त्वेन प्राक् कथितम् । तस्य च कर्ता प्रागुक्ता-
भिर्युक्तिभिरीशः सिद्धः । तच्च कार्यं तदुपयोगि
वा स्यात् स्वोपयोगि अनुपयोगि अन्योपयोगि
वेति चत्वारः पक्षाः। तत्र न तावदीश्वरोपयोगि,
नहि पृथिव्यादिभिस्तस्य स्वात्मन्यर्थक्रिया
काचित् क्रियते नित्यपरिपूर्णस्वरूपत्वात् । न
च तत् क्षित्यादि कार्यं क्षित्याद्यर्थमेव क्रियते
तेषामाचैतन्यात् करणीयस्याभावात् । चेतनस्य
हि धर्मादिचतुर्वर्गप्रेप्सोः करणीयं संभवति,
न घटादेः । न चैतत्त्कार्यमनर्थकं कर्तृगौरवात् ।
विद्यापाद: नाद, बिन्दु, मन्त्र-वीर्य एवं भुवन-अध्वा (अध्याय ९-१३)
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १५१
सामान्येनापि कर्त्रा यत्कार्यं क्रियते, तन्नानर्थकं
भवति, किं पुनः परमेश्वरव्यापारितैर्जगत्कर्तृ-
भिर्ब्रह्मादिभिः । तत्कार्यकरणे च न प्रयोजनं
प्राक् प्रदर्शितम् ॥ २ ॥
पारिशेष्यात्परार्थं तत्
तत् क्षित्यादि कार्यम् ॥
कश्चात्र पर इत्याह
क्षेत्रज्ञः स परस्तयोः ।
कर्तृकार्ययोः परोऽन्यः प्रस्तुताभिधानः
क्षेत्रज्ञो यश्चात्मेत्यर्थः ॥
अत्र चार्वाकच्छायया आत्मनिरासायेदमा-
शङ्क्यते
परो देहस्तदर्थत्वा-
त्परार्थाः क्ष्मादयो ननु ॥ ३ ॥
ननूपलभ्यमानप्रयोजनानां क्षित्यादीनां प-
रार्थत्वमस्तु, स त्वत्र परः काय एव यस्यारम्भ-
काश्चोपयोगिनश्च पृथिव्यप्तेजोवायवः। तस्मान्न
क्षित्यादीनां परार्थत्वेनात्मनामनुमानम् ॥ ३ ॥
१५२ मृगेन्द्रतन्त्रे । [ १६
अत्रोत्तरं
कायोऽप्यचित्त्वादान्यार्थ्यं
सुतरां प्रतिपद्यते ।
देहोऽपि परार्थ एव आचैतन्यात् पृथि-
व्यादिवदिति तस्याप्यान्यार्थ्यं पारार्थ्यं सुत-
रामुपपद्यते । ततश्च देहस्य क्षित्यादीनां च
परार्थत्वात्पर आत्मैवात्र युक्त्युपपन्नः ॥
ननु देहादन्यत्र यदि चैतन्यं स्यात्, स्यादेत-
देवम् । पृथ्व्यादिचतुर्भूतविकारके प्राणादि का-
रणीभूते गर्भादौ संविदुद्भवः किण्वादिद्रव्य-
विकारे मदशक्त्युत्पत्तिवत् । तथाहि कृशोऽहं
स्थूलोऽहमिति शरीर एवाहंप्रत्ययो दृष्टः, न
च तद्व्यतिरिक्त आत्मा उपलभ्यते देहेऽस्त्या-
त्मा इत्यस्य अश्वे विषाणमित्यादिवत् प्रत्य-
क्षनिराकृतत्वात् । अथ परार्थाश्चक्षुरादयः सं-
घातत्वात् शयनाद्यङ्गवदित्यादिना करणादीनां
कर्तृप्रयोज्यत्वादिना वा अनुमानेनात्मा प्रसा-
ध्यते, न तद्युक्तं तस्यात्मापलापिनश्चार्वाका-
न्प्रत्यसिद्धेः । नह्येषां प्रत्यक्षादन्यत्किंचित्प्रमाणं,
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १५३
सिद्धावपिवा अनुमीयमानस्यात्मनो देवदत्ता-
दिवत्परत्वं प्रसज्यते । यत्किल स्वयं प्रकाशते,
स एवात्मा, तत्प्रकाश्यस्तु पर इति विवि-
क्ततया आत्मपरभावस्य प्रकाशमानस्यैव संक-
रोऽनवस्थानं च स्यात् । तदुक्तं
‘आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः ।
पर आत्मा तदानीं स्यात्स परो यस्तु मीयते ॥’
इति । तथा
‘प्रकाशते संविदेका तदन्यत्तु प्रकाश्यते ।
प्रकाश्यं च भवेत्कर्म तच्च कर्त्रा विना कथम् ॥’
इति । तस्मान्नानुमानेन देहव्यतिरिक्त आत्मा
उपलभ्यते, अपितु चैतन्यविशिष्टः काय एव
वस्तुसन्नित्याशङ्क्याह
चेतनश्चेत्
अथ मन्यसे काय एव चेतनात्मकः ।
तथाहि यस्मिन्नुपचिते यस्योपचयः यदपचये
च अपचयः, तत्तदात्मकं, यथा वह्न्युपचयाप-
चययोरुपचयापचयावनुगच्छेदौष्ण्यम् । यौवन-
स्थाविरभोजनलङ्घनादिहेतुकौ च देहसंबन्धि-
२०
१५४ मृगेन्द्रतन्त्रे । [ १६
नावुपचयापचयावनुकुर्वद्विज्ञानं देहात्मकमेव,
अतो देह एव चेतन इति पूर्वः पक्षः ॥
अथैतत्प्रतिक्षेपः
न भोग्यत्वा-
द्विकारित्वाच्च जातुचित् ॥ ४ ॥
भोग्या विकारिणो दृष्टा-
श्चिद्धिहीनाः पटादयः ।
सोऽप्येवं देहश्चेतनः कदाचिन्न भवति
भोग्यत्वाद्विकारित्वाच्च । ये ये केचन विका-
रिणः परिणामिनो भोग्याश्च, ते ते ह्यचेतना
दृष्टाः यथा पटादयः । स देहोऽप्येवंविधः, त-
स्मान्न चेतनः । नन्वङ्गनादिभिर्भोग्यत्वमनै-
कान्तिकं भोग्यत्वेऽपि तत्राचैतन्याभावात् ।
नानैकान्तिकं तदीयस्य देहस्यैव भोग्यत्वात् ।
यद्येवं, निर्जीवस्य देहस्य कथं नोपभोगः । भ-
वत्येव तदवस्थोचित उपभोगः क्रव्यादादेः,
न पुनः कान्तादेः कामिन्याद्यवस्थाया येनाव-
स्थान्तरापत्तेर्विकारित्वेन बीभत्सरसहेतुत्वात् ।
तदुक्तिरत्रैव
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १५५
'क्व तद्वक्त्रं क्व तदधरमधु कायताक्ष्याः कटाक्षः ।'
इत्यादि । एवं गजाश्वादावपि ज्ञेयम् । तस्मा-
त्स्थितमेतत्-विकारित्वाद्भोग्यत्वाच्च देहस्याचै-
तन्यम्, आचैतन्याच्च पारार्थ्यमिति ॥
पुनरपि परमतमाशङ्कते
यस्मिन्सति च सत्त्वाद्वा
यस्मिन्सति यस्य भावो यद्भावे चाभा-
वस्तत् तत्कार्यं शीतमिव हिमस्य । सति च
शुक्रशोणितात्मकदेहारम्भकभूतविशेषपरिणामे
सत्त्वादसति च प्रध्वस्ते तस्मिन्नसत्त्वाच्चैतन्यं
भूतविशेषपरिणामकृतमिति वा यद्यवेषि ॥
तदेतदनुपपन्नं यस्मात्
न सत्यपि शवे चितिः ॥ ५ ॥
यत्सद्भाव एव यस्य भावस्तत्तस्य कार्य-
मिति नियमोऽत्रावश्यं प्रतिज्ञातव्योऽन्यथा
तद्भावेऽपि भवतस्तत्कार्यत्वायोगात् यथा-
ग्निसद्भाव एव संभवन्धूमोऽग्निकार्यः । एवं च
शरीरारम्भकभूतसद्भाव एव भावः, तद्भावे
चाभाव एव चैतन्यस्य यदि स्यात्, तद्देह-
१५६ मृगेन्द्रतन्त्रे । [ १।६
संबन्धितया प्रतीयेत । यावता शरीरसद्भावे-
ऽपि गर्भादावुत्तरकालं च चेतनापगमो दृष्टः ।
तन्न सति सत्त्वं देहारम्भकचैतन्यसाधकम् ।
ननु मृतशरीरेऽपि प्राणाद्यात्मकस्य वायोरू-
ष्मरूपस्य च तेजसोऽपगमान्न जीवावस्थाया-
मिव शरीरारम्भकभूतसद्भावस्तस्मादत्राचेतन-
त्वम्, यच्च तत् सति सत्त्वमनैकान्तिकीकर्तु-
मशक्तम् । मैवम् । गतासवोऽपि हि केचन
चलत्सन्धयः सोष्माणश्च कियन्तं कालमुपल-
भ्यन्ते । तेषां च जीवदवस्थावद्देहारम्भकभूत-
सद्भावेऽपि न चैतन्यसंभवः, गर्भावस्थायां
च सकलसामग्रीसद्भावेऽपि कदाचिच्चैतन्यासं-
भवः । तस्मात्सति सत्त्वमनैकान्तिकमेव ॥ ५ ॥
ननु जीवदवस्थायां परिणामवैशिष्ट्याच्चै-
तन्यसंभवस्तथाविधपरिणामाभावात् गतासु-
देहे तदभाव इति पुनरपि चार्वाकभूमिकयै-
वाशङ्क्यते
परिणामस्य वैशिष्ट्या-
दस्ति चेत्
कौमारयौवनाद्यवस्थाभेदाद्वान्तरतत्तद्व-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १५७
स्थाविशेषभेदेन च देहारम्भकभूतपरिणाम-
कृततत्तद्वैशिष्ट्याजीवदवस्थायां यच्चैतन्यमस्ति,
तत्तथाविधभूतपरिणामकृततत्तद्घटपटशकटा-
द्यनेकार्थप्रकाशकानि सक्रमाणि हि विज्ञा-
नानि पूर्वपूर्वनिरोधे सत्युत्तरोत्तराणि परिणा-
मवैशिष्ट्यादेव भवन्ति, नान्यत इति न देहा-
दन्यच्चैतन्यमिति चोद्यम् ॥
अत्र परिहारः
न स्मृतिस्तदा ।
तदेति प्रत्यर्थं सक्रमसंवेदनविशेषस्य परि-
णामित्वाभ्युपगमे सति स्मृतिर्नावकल्पते ।
परिणामविशेषाणां क्रमभाविनां भिन्नत्वात् ।
असंविदितस्यान्यविदितस्य चान्येनास्मरणात् ।
नह्यननुभूतं देवदत्तानुभूतं वा चैत्रादिना स्मर्तुं
शक्यम् ॥
एवं मा भूत् स्मृतिः किं नश्छिन्नमिति
चेत्, तदप्ययुक्तमित्याह
नाप्येवं सुप्रतीतत्वा-
त्स्मर्ता कायेतरोऽस्त्यतः ॥ ६ ॥
सकललोकप्रसिद्धस्मृत्यपह्नवस्तावन्न शक्यः,
स्मृतिश्चैवमुपपद्यते देहस्यासकृत्परिणामित्वेऽपि
एकस्वभावस्तदन्यस्तदर्थसंनिधौ तत्तज्ज्ञानस्या-
न्य एवानुभविता, स एवानुसंधाता स्यादिति ।
अत इत्यस्मात्स्मृत्यन्यथानुपपत्तिलक्षणादपि हे-
तोर्देहादन्यः स्मर्त्तास्तीति । नच वाच्यं कि-
मेभिः परानुमानासहिष्णोर्व्यर्थैर्हेत्वादिभिरि-
ति, यतश्चार्वाकस्यानिच्छोरपि दुर्गतस्य दौर्ग-
त्यमिव बलादेवानुमानं ख्यातिमनुबध्नाति ।
तथाहि तेन प्रत्यक्षैकप्रमाणवादिनापि चतु-
र्महाभूतव्यतिरिक्ततत्त्वान्तरानभ्युपगमे मृत्पा-
षाणादिस्थावरलक्षणा पृथिवी, जलादिश्च सरः-
सरित्समुद्रादिर्नादृष्टस्य गुणभेदेन सर्वं प्रत्य-
क्षेणावगाहितुं शक्यं तस्य प्रतिनियतव्यक्ति-
हेतुत्वेनाशेषजगदन्तर्गतपदार्थविषयान्वयग्रह-
णाक्षमत्वात् । अपिच यत्र काठिन्यं, सा पृ-
थिवी स्थलोपलपर्वतादिवत्, पृथिवीत्वाभावे
काठिन्यस्याभावश्चाबादाविव, यच्च द्रवस्वरूपं,
तज्जलं तैलघृतक्षीरादेरप्युदकत्वादित्याद्यन्वय-
ग्रहणमनुमानाङ्गं कल्पनीयम् । धर्मिणि च
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १५९
देहे पक्षीकृते तद्गतस्य काठिन्यादेः पृथिव्या-
दिधर्मत्वनिश्चयात् पृथिव्यादिभूतचतुष्टयारब्ध-
त्वमपि नानुमानं विनावगन्तुं शक्यम् । किंच
प्रत्यक्षमेव प्रमाणं नानुमानमिति प्रमाणा-
प्रमाणचिन्ता नास्य प्रत्यक्षनिश्चेया । यथाह
धर्मकीर्तिः
'प्रमाणेतरसामान्यस्थितेरन्यवियोगतः ।
प्रमाणान्तरसद्भाव......................॥'
इति न परं प्रत्यसिद्धत्वमनुमानस्य । तत्प्र-
त्यायनार्थं चेह परिशेषानुमानं प्रकरणारम्भे
दर्शितं, नतु स्वसंवेदनसिद्धत्वेनापरोक्षस्यात्मनः
साधनाय तत्र प्रमाणान्तरस्यानुपयोगात् ।
यदाहुः
'अनुभूतौ प्रमाणानां परिनिष्ठा समाप्यते ।
स्वतस्तयैव या ज्ञप्तिः किं तत्रान्यैः प्रमान्तरैः ॥'
इति । गतमेतत् । यत्तु
'परिणामस्य वैशिष्ट्यादस्ति चेन्न स्मृतिस्तदा ।'
इत्यखण्डनमेव श्लोकार्धं, तदेतच्छिवावस्थायां
सूक्ष्मतरसंवेदनसम्भवेऽपि परिणामस्य वैशि-
ष्ट्यादिति स्मृत्यभावप्रतिपादकत्वेन परमता-
१६० मृगेन्द्रतन्त्रे । [ ११६
शङ्कया व्याख्याय समाधीयते यदुत 'नाप्येवं
सुप्रतीतत्वात्' नह्येवं क्वचित्प्रसिद्धं यद्गतासोः
सूक्ष्मतरसंवेदनमस्ति, स्मृतिस्तु नास्तीत्यपितु
सुप्रतीतमेतत् यन्निर्जीवे वपुषि काष्ठादाविव
संविन्नास्त्येवेति, तस्माद्देहादन्यः स्मर्त्तास्तीत्येव-
मपि व्याख्यायमाने न कश्चिद्दोषः ॥ ६ ॥
एवं पशुपदार्थं प्रसाध्य तद्विशेषान्वक्तुमाह
नाव्यापको न क्षणिको
नैको नापि जडात्मकः ।
नाकर्ता भिन्नचिद्योगी
पाशान्ते शिवताश्रुतेः ॥ ७ ॥
स चात्मा नाव्यापकः, नापि क्षणिकः देश-
कालाभ्यामनवच्छिन्नत्वात् । तदाहुः
'अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः ।
तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यते ॥'
इति । नचासावेकः
'एको वशी सर्वभूतान्तरात्मा ।' (क० ५।१२)
इति प्रतिपन्नानां ब्रह्मविदामिव जन्ममरण-
करणादिप्रतिनियमदर्शनस्य पुरुषबहुत्वज्ञाप-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १६१
कस्यापह्रोतुमशक्यत्वात् । नच नैयायिकवैशे-
षिकाणामिव जडः । नापि सांख्यानामिवा-
कर्ता । नच केषांचिदिवागन्तुना चिता युक्तः ।
कुतः इत्याह 'पाशान्ते शिवताश्रुतेः' पाशानाम-
विद्यादीनामन्ते तत्प्रतिबन्धकत्वव्यपगमे यतो-
ऽस्यात्मनः शिवत्वव्यक्तिः श्रूयते । तथाचोक्तं
'अथात्ममलमायाख्यकर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ॥'
इति । नच तच्छिवत्वमव्यापकत्वादिधर्मयुक्तं
ज्ञातृत्वकर्तृत्वरहितं वा
'नित्यं कालानवच्छेदाद्वैतत्यान्न प्रदेशगम् ।' (१।३।२)
इत्यादिना प्रत्युत तद्विलक्षणत्वस्योपपादित-
त्वात् । नच व्यापकत्वनित्यत्वादेर्मुक्तावेवो-
दयात्संसार्यावस्थायामभाव इति मन्तव्यम-
सदुत्पत्त्यसंभवस्योपपादयिष्यमाणत्वादिति ॥
इति श्रीभट्टविद्याकण्ठसूनुभट्टनारायणविरचितायां
मृगेन्द्रवृत्तौ पशुपदार्थनिर्णय-
प्रकरणं षष्ठम् ॥ ६ ॥
२१
)-> wait, is that(१।२।७)`?
- Yes,
(१।२।७). - L14:
इत्यादिभिर्वाक्यैरनुसन्धेयः । - L15:
अथाविद्यादयः पाशाः - L16:
कथ्यन्ते लेशतोऽधुना । - L17:
येषामपाये पतयो - L18:
भवन्ति जगतोऽणवः ॥ १ ॥
- Format Constraints:
- "Prefix each line with line marker like , ."
- "Output line markers for every line."
- "Do NOT output LaTeX math syntax."
- "pure, clean Markdown in original language"
Everything looks solid and precise.अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( सप्तमः पटलः )
‘........................शिवः ।
पूर्वन्व्यत्यासितस्याणोः पाशजालमपोहति ॥’ (१।२।१)
इति मूलसूत्रोपात्ता
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १६३
अथेति पशुपदार्थादनन्तरमविद्या अज्ञान-
मञ्जनमाणवः पाश आदौ येषां ते कर्ममाया-
रोधशक्त्याख्याः पाशाः, अधुना इदानीं, लेशतः
संक्षेपतः, कथ्यन्ते येषामपगमे पशुत्वान्मुक्त्वा
अणव आत्मानो जगतः पतयो भवन्ति । तत्र
शिववदन्यानधीनस्वातन्त्र्याभिव्यक्तिर्मुक्तात्मनां
पतित्वं, विद्येश्वराद्यधिकारभाजां तु पञ्चविध-
कृत्यकारित्वम् ॥ १ ॥
अथ मुक्तेः प्राक् कुतोऽवसीयते पाशितत्व-
मणोरिति चेत् ज्ञानक्रिययोः सर्वार्थताव्याहतेः ।
अन्यथा हि
पाशाभावे पारतन्त्र्यं
वक्तव्यं किंनिबन्धनम् ।
स्वाभाविकं चेन्मुक्तेषु
मुक्तशब्दो निवर्तते ॥ २ ॥
पाशरहितस्य हि पुंसो न बद्धत्वं, अबद्धस्य
च किंकृतं पारतन्त्र्यं, यदनिच्छतोऽप्यस्यानिष्ट-
प्राप्तिरिष्टव्याघातश्च भवति । अथ मन्यसे
नास्य तत्पारतन्त्र्यं पाशकृतमपितु स्वाभाविक-
१६४ मृगेन्द्रतन्त्रे । [ १७
मिति, तर्हि मुक्ताणुषु मुक्तशब्दस्य निवृत्तिः ।
व्यपगतपाशे हि मुक्तशब्दो लोके प्रसिद्धः ॥
एतदेव घटयन्नाह
बन्धशून्यस्य वशिता
दृष्टा बद्धस्य वश्यता ।
एतावती ते बद्धत्व-
मुक्तत्वे बद्धमुक्तयोः ॥ ३ ॥
इयदेव तद्बद्धस्य बद्धत्वं—यत्पाशितत्वे सत्य-
पाशितवश्यता स्वतन्त्रपरमेश्वरायत्तत्वमित्यर्थः ।
मुक्तस्य चैतावदेव तन्मुक्तत्वं—यद्बद्धत्वापगमा-
त्तद्वशित्वं स्वातन्त्र्याभिव्यक्तिः । तथा हि लोकेऽपि
बन्धरहितो वशी, बद्धश्च वश्य इत्युच्यते ॥३॥
किमत इत्याह
तत्पारतन्त्र्यं बद्धत्वं
तत्तस्माद्धेतोर्यदेतदात्मन इष्टप्राप्त्यादौ पार-
तन्त्र्यं, तद्
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १६५
तस्मिन्नित्ये चिदादिवत् ।
मुक्तिसाधनसंदोहो
व्यर्थोऽलमनया धिया ॥ ४ ॥
तस्मिन्नात्मनः पारतन्त्र्ये, नित्येऽभ्युपगम्य-
माने कदाचिदपि तदनुच्छेदान्मुक्तिसाधन-
कलापः परैरपीष्टो ज्ञानयोगादिरनर्थकः स्वात-
न्त्र्याभिव्यक्त्यभावात् सदैवात्मनो बद्धतयाव-
स्थितेरित्यलमनया धिया निवार्यतामीदृशी सं-
सारानुच्छित्तिहेतुर्मतिरिति भावः । तस्मात्स्थि-
तमेतत्पाशकृतं पारतन्त्र्यं, पाशाश्चाञ्जनादयः ॥
स किलात्मा
नित्यव्यापकचिच्छक्ति-
निधिरप्यर्थसिद्धये ।
पाशवं शाम्भवं वापि
नान्विष्यत्यन्यथा बलम् ॥ ५ ॥
यदि ह्यणुरनाद्यविद्योपरुद्धचिच्छक्तिर्न भवेत्,
तदानीं नित्यव्यापकचिच्छक्त्यास्पदत्वे सत्यपि
कथं भवावस्थायां भोगलक्षणस्यार्थस्य निष्प-
१६६ मृगेन्द्रतन्त्रे । [ १७
त्तये पशोरिदं पाशवं पशूचितं कलाद्युत्तेजनं
स्वसामर्थ्यस्यान्विष्यत्यपेक्षते, मुक्तिनिमित्तं च
कथं शाम्भवं बलमन्वेषते, नान्यथा बलं
प्रतीक्षते पाशानभ्युपगमे सति स्वभावत
एवामलचित्स्वरूपत्वात्तदन्वेषणस्यानर्थक्यात् ।
यतश्चावस्थाद्वयेऽप्ययं पाशवं वा पारमेश्वरं
वा बलोत्तेजनमपेक्षते, तस्मात् किमप्यस्यास्ति
ज्ञानक्रियासंनिरोधकं यत्कृतः स्वातन्त्र्या-
घातः ॥ ५ ॥
तदावरणमस्याणोः
पञ्चस्रोतसि शाङ्करे ।
पर्यायैर्बहुभिर्गीत-
मदृष्टं पशुभिः सदा ॥ ६ ॥
अस्यात्मनस्तदावरणमञ्जनं पञ्चस्रोतसि शैवे
शास्त्रे वक्ष्यमाणैर्नामभिरभिहितम्। तत्तु पशुभिः
पशुशास्त्रप्रणेतृभिः कदाचिदपि न बुद्धम् ॥ ६ ॥
अथ कैर्नामभिस्तच्छास्त्रेषूक्तमित्याह
पशुत्वपशुनीहार-
मृत्युमूर्च्छामलाञ्जनैः ।
श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । १६७
अविद्यावृतिरुग्ग्लानि-
पापमूलक्षपादिभिः ॥ ७ ॥
नच तदेकैकस्मिन्नात्मनि भिन्नमपित्वेकम-
नेकचिदावारकशक्तियुक्तमित्याह
तदेकं सर्वभूताना-
मनादि निबिडं महत् ।
प्रत्यात्मस्थस्वकालान्ता-
पायिशक्तिसमूहवत् ॥ ८ ॥
तदावरणं चतुर्दशविधस्यापि भूतसर्गस्यै-
कमेव । कस्मादित्यत्रैव विशेषणद्वारेण हेतुमाह
अनादीति, यस्माद्वक्ष्यमाणयोपपत्या तत् सर्व-
भूतानामनादि न मायीयबन्धनवदागन्तुकम्,
अत एवैकम् । अनेकत्वे हि तस्याचेतनत्वात्
कारणान्तरपूर्वकत्वेनानादित्वानुपपत्तिः । नच
कारणान्तरपूर्वकत्वेऽपि कलादिवत् पारम्पर्येण
बन्धकत्वादनादित्वं भविष्यतीति वाच्यं, य-
थोक्तं श्रीमत्किरणे
'यथानादिर्मलस्तस्य कर्माप्येवमनादिकम् ।
यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥
· १६८ मृगेन्द्रतन्त्रे । [ १७
तस्मादनादिकं कर्म मायाप्येवं भवेत्तथा ।'
इति, तद्विरहिणः शिवस्येव पुनर्बन्धासंभवात् ।
तत्सद्भावे वा न मलरहितत्वमिति वक्ष्यामः ।
निबिडं घनमभेद्यमित्यर्थः । व्यापकानामात्म-
नामावारकत्वात् महत् । प्रत्यात्मस्थेन स्वस्वपरि-
णामकालापसारिणा शक्तिव्रातेन युक्तम् । तथा
चोक्तं तत्त्वत्रयनिर्णये
'मलशक्तयो विभिन्नाः प्रत्यात्मं चैव तद्गुणावरिकाः' (११)
इति ॥ ८ ॥
तच्चाञ्जनं
तदनादिस्थमर्वाग्वा
तद्धेतुस्तदतोऽन्यथा ।
रुणद्धि मुक्तानेवं चे-
न्मोक्षे यत्नस्ततो मृषा ॥ ९ ॥
तत्तेषामात्मनामनादौ काले स्थितमना-
दिस्थं न त्वादिमत्त्वेन स्थितम् । अत्रैव युक्ति-
माह अर्वाग्वेति, यदि ह्यादिमत्त्वेनात्मसु स्थितं
तदभ्युपगम्यते, तदा तद्योगे हेतुः 'वाच्यः' इ-
त्यध्याहारः। तदतोऽन्यथेति यदि तु तदञ्जनम-