मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 193, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १६३
अथेति पशुपदार्थादनन्तरमविद्या अज्ञान-
मञ्जनमाणवः पाश आदौ येषां ते कर्ममाया-
रोधशक्त्याख्याः पाशाः, अधुना इदानीं, लेशतः
संक्षेपतः, कथ्यन्ते येषामपगमे पशुत्वान्मुक्त्वा
अणव आत्मानो जगतः पतयो भवन्ति । तत्र
शिववदन्यानधीनस्वातन्त्र्याभिव्यक्तिर्मुक्तात्मनां
पतित्वं, विद्येश्वराद्यधिकारभाजां तु पञ्चविध-
कृत्यकारित्वम् ॥ १ ॥
अथ मुक्तेः प्राक् कुतोऽवसीयते पाशितत्व-
मणोरिति चेत् ज्ञानक्रिययोः सर्वार्थताव्याहतेः ।
अन्यथा हि
पाशाभावे पारतन्त्र्यं
वक्तव्यं किंनिबन्धनम् ।
स्वाभाविकं चेन्मुक्तेषु
मुक्तशब्दो निवर्तते ॥ २ ॥
पाशरहितस्य हि पुंसो न बद्धत्वं, अबद्धस्य
च किंकृतं पारतन्त्र्यं, यदनिच्छतोऽप्यस्यानिष्ट-
प्राप्तिरिष्टव्याघातश्च भवति । अथ मन्यसे
नास्य तत्पारतन्त्र्यं पाशकृतमपितु स्वाभाविक-