मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 187, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १५७
स्थाविशेषभेदेन च देहारम्भकभूतपरिणाम-
कृततत्तद्वैशिष्ट्याजीवदवस्थायां यच्चैतन्यमस्ति,
तत्तथाविधभूतपरिणामकृततत्तद्घटपटशकटा-
द्यनेकार्थप्रकाशकानि सक्रमाणि हि विज्ञा-
नानि पूर्वपूर्वनिरोधे सत्युत्तरोत्तराणि परिणा-
मवैशिष्ट्यादेव भवन्ति, नान्यत इति न देहा-
दन्यच्चैतन्यमिति चोद्यम् ॥
अत्र परिहारः
न स्मृतिस्तदा ।
तदेति प्रत्यर्थं सक्रमसंवेदनविशेषस्य परि-
णामित्वाभ्युपगमे सति स्मृतिर्नावकल्पते ।
परिणामविशेषाणां क्रमभाविनां भिन्नत्वात् ।
असंविदितस्यान्यविदितस्य चान्येनास्मरणात् ।
नह्यननुभूतं देवदत्तानुभूतं वा चैत्रादिना स्मर्तुं
शक्यम् ॥
एवं मा भूत् स्मृतिः किं नश्छिन्नमिति
चेत्, तदप्ययुक्तमित्याह
नाप्येवं सुप्रतीतत्वा-
त्स्मर्ता कायेतरोऽस्त्यतः ॥ ६ ॥