मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 185, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १५५
'क्व तद्वक्त्रं क्व तदधरमधु कायताक्ष्याः कटाक्षः ।'
इत्यादि । एवं गजाश्वादावपि ज्ञेयम् । तस्मा-
त्स्थितमेतत्-विकारित्वाद्भोग्यत्वाच्च देहस्याचै-
तन्यम्, आचैतन्याच्च पारार्थ्यमिति ॥
पुनरपि परमतमाशङ्कते
यस्मिन्सति च सत्त्वाद्वा
यस्मिन्सति यस्य भावो यद्भावे चाभा-
वस्तत् तत्कार्यं शीतमिव हिमस्य । सति च
शुक्रशोणितात्मकदेहारम्भकभूतविशेषपरिणामे
सत्त्वादसति च प्रध्वस्ते तस्मिन्नसत्त्वाच्चैतन्यं
भूतविशेषपरिणामकृतमिति वा यद्यवेषि ॥
तदेतदनुपपन्नं यस्मात्
न सत्यपि शवे चितिः ॥ ५ ॥
यत्सद्भाव एव यस्य भावस्तत्तस्य कार्य-
मिति नियमोऽत्रावश्यं प्रतिज्ञातव्योऽन्यथा
तद्भावेऽपि भवतस्तत्कार्यत्वायोगात् यथा-
ग्निसद्भाव एव संभवन्धूमोऽग्निकार्यः । एवं च
शरीरारम्भकभूतसद्भाव एव भावः, तद्भावे
चाभाव एव चैतन्यस्य यदि स्यात्, तद्देह-