मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 180, कुल 448 में से
संदर्भ में पढ़ें१५० मृगेन्द्रतन्त्रे । [ १६
‘चैतन्यं दृक्क्रियारूपं तदस्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥’ (१।२।५)
इत्यादिनोक्तप्रायं कथितकल्पं, तथाप्युद्देशः
सोपपत्तिकतत्स्वरूपसंक्षेप उच्यते ॥ १ ॥
कार्यं क्षित्यादि कर्तेश-
स्तत्कर्तुर्नोपयुज्यते ।
न स्वार्थमप्यचिद्भावा-
न्नानर्थ्यं कर्तृगौरवात् ॥ २ ॥
कार्यत्वं तावत्क्षित्यादेरेव संनिवेशादिम-
त्त्वेन प्राक् कथितम् । तस्य च कर्ता प्रागुक्ता-
भिर्युक्तिभिरीशः सिद्धः । तच्च कार्यं तदुपयोगि
वा स्यात् स्वोपयोगि अनुपयोगि अन्योपयोगि
वेति चत्वारः पक्षाः। तत्र न तावदीश्वरोपयोगि,
नहि पृथिव्यादिभिस्तस्य स्वात्मन्यर्थक्रिया
काचित् क्रियते नित्यपरिपूर्णस्वरूपत्वात् । न
च तत् क्षित्यादि कार्यं क्षित्याद्यर्थमेव क्रियते
तेषामाचैतन्यात् करणीयस्याभावात् । चेतनस्य
हि धर्मादिचतुर्वर्गप्रेप्सोः करणीयं संभवति,
न घटादेः । न चैतत्त्कार्यमनर्थकं कर्तृगौरवात् ।