मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
इस ग्रन्थ के बारे में
मालविकाग्निमित्र महाकवि कालिदास का पाँच अङ्कों का नाटक है, जिसे प्रायः उनकी पहली नाट्य-रचना माना जाता है। इसके नायक विदिशा के शुंगवंशी राजा अग्निमित्र हैं, जो रानी धारिणी की सेविका के रूप में रह रही मालविका पर मोहित हो जाते हैं। नाट्याचार्य गणदास और हरदत्त की प्रतिस्पर्धा, मालविका का नृत्य-प्रदर्शन, विदूषक गौतम की युक्तियाँ, अशोक-दोहद का प्रसंग, रानी इरावती का मान, और अन्त में मालविका के राजकुमारी होने का रहस्य खुलना इसकी कथा के मुख्य अंश हैं। अन्तिम अङ्क में सिन्धु-तट पर यवनों पर कुमार वसुमित्र की विजय और पुष्यमित्र के अश्वमेध का उल्लेख इसे ऐतिहासिक दृष्टि से भी रोचक बनाता है।
प्रस्तावना में कालिदास का प्रसिद्ध श्लोक आता है कि कोई वस्तु केवल पुरानी होने से अच्छी नहीं होती और न कोई काव्य नया होने से निन्दनीय; सज्जन परखकर ग्रहण करते हैं।
यह स्कैन निर्णयसागर प्रेस, बम्बई से १९२४ में प्रकाशित छठे संस्करण का है। इसमें नाटक के साथ काटयवेम (कुमारगिरि राजा के आश्रित) की संस्कृत व्याख्या दी गई है। मूल सम्पादक काशीनाथ पाण्डुरङ्ग परब थे और इस संस्करण का संशोधन वासुदेव लक्ष्मण शास्त्री पणशीकर ने किया। प्राकृत संवादों के साथ उनकी संस्कृत छाया भी मिलती है।
प्रस्तावना एवं नाटक-प्रवेश
THE
MÂLAVIKÂGNIMITRA
OF
KÂLIDÂSA.
With the Commentary of Kâtayavema.
EDITED BY
KÂS'INÂTH PÂṆḌURANG PARAB.
Sixth Edition.
REVISED BY
WÂSUDEV LAXMAṆ S'ÂSTRÎ PAṆS'ÎKAR.
PUBLISHED
BY
PÂNDURANG JÂWAJÎ,
PROPRIETOR OF THE "NIRNAYA-SAGAR" PRESS,
BOMBAY.
1924.
Price 12 Annas.
[ All rights reserved by the publisher. ]
Published by Pandurang Jawaji at the 'Nirnaya-sagar' Press,
23, Kolbhat Lane, Bombay.
Printed by Ramchandra Yesu Shedge, at the 'Nirnaya-sagar' Press,
23, Kolbhat Lane, Bombay.
॥ श्रीः ॥
महाकविश्रीकालिदासविरचितं
मालविकाग्निमित्रम् ।
श्रीकाटयवेमभूपविरचितेन कुमारगिरिराजीयेन
व्याख्यानेन समेतम् ।
काशीनाथ पाण्डुरङ्ग परब इत्यनेन
संशोधितम् ।
तस्येदं षष्ठं संस्करणम् ।
पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
संस्कृतम् ।
तच्च
शाके १८४६ संवत्सरे
मुम्बापुर्यां
पाण्डुरङ्ग जावजी,
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये प्रकाशितम् !
मूल्यं १२ आणका ।
अथ
मालविकाग्निमित्रम् ।
प्रथमोऽङ्कः ।
एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः
कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् ।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः
सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ १ ॥
वेदादीनां विशुद्धानां विद्यानां जन्महेतवे ।
पार्वतीपरतन्त्राय परस्मै वस्तुने नमः ॥
भाग्यं नाम समग्रमीदृशमतिस्नेहैकपात्रं यतो
वीरं काटयवेमसमुद्धतरिपुध्वंसे नियुज्य स्वयम् ।
नित्यं नन्दति नर्तनैरभिनवैः कान्तैर्वसन्तोत्सवैः
संतानाभ्युदयैः कुमारगिरिभूपालो नृपालोत्तमः ॥
अत्र कविः कालिदासः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थमिष्टदेवता-
स्मरणपूर्वकमाशिषं प्रयुङ्क्ते—एकैश्वर्य इत्यादि । स ईशः परमेश्वरः सन्मार्गालो-
कनाय । सन् प्रशस्तो मार्गः पन्था मोक्षमार्गस्तस्यालोकनाय दर्शनाय वो युष्माकं
तामसीं तमःसंबन्धिनीं वृत्तिं प्रवृत्तिं व्यपनयत्वपाकरोत्विति संबन्धः । कथंभूत
ईशः । यः प्रणतबहुफले । बहूनि फलानि यस्मात्तत्तथोक्तम् । प्रणतानां प्रणामं
कृतवताम् । भक्तानामित्यर्थः । तेषां बहुफलं तस्मिन् । एकैश्वर्ये । ईश्वरस्य भाव
ऐश्वर्यम् । एकं मुख्यम् । अनन्यसाधारणमित्यर्थः । तच्च तदैश्वर्यं च । तस्मिन्स्थि-
तोऽपि । अणिमाद्यैश्वर्ययुक्तोऽपीत्यर्थः। स्वयमात्मना कृत्तिवासाः कृत्तिश्चर्म वासो
वसनं यस्य स तथोक्तः। यः कान्तासंमिश्रदेहोऽपि कान्तया स्त्रिया संमिश्रः संमि-
लितो देहः शरीरं यस्य स तथोक्तस्तादृशोऽपि सन् । अविषयमनसाम् । न विद्यन्ते
विषयाः शब्दादयो येषां तान्यविषयाणि तानि मनांसि येषां ते तथोक्ताः तेषां
यतीनां संयमिनां परस्तात्परः श्रेष्ठः । 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दि-
ग्देशकालेष्वस्ताति' इत्यस्तातिप्रत्ययः । अष्टाभिस्तनुभिः पृथिव्यादिमूर्तिभिः कृत्स्नं
२ मालविकाग्निमित्रे
(नान्द्यन्ते)
सूत्रधारः—(नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् ।
(प्रविश्य ।)
पारिपार्श्विकः—भाव, अयमस्मि ।
सूत्रधारः—अभिहितोऽस्मि विद्वत्परिषदा कालिदासग्रथितवस्तु
मालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्सवे प्रयोक्तव्यमिति ।
तदारभ्यतां संगीतम् ।
पारिपार्श्विकः—मा तावत् । प्रथितयशसां भाससौमिल्लकक-
विपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां
कथं बहुमानः ।
सूत्रधारः—अयि, विवेकभ्रस्तमभिहितम् । पश्य ।
सर्वं जगल्लोकं बिभ्रतोऽपि धारयतोऽपि यस्याभिमानः प्रणयो ममत्वं न भवति ।
एषु विशेषणेषु विरोधाऽलंकारेणासेश्वरस्य लोकातिशायित्वमुक्तं भवति । अत्र प्रण-
तबहुफल एकैश्वर्यस्थित्या कान्तासंमिश्रणेन जगद्धरणेन ईश इत्यनेन च लोकोत्तरः
कश्चिद्राजास्मिन्नाटके वर्ण्यत इति सूच्यते । सन्मार्गालोकनायेत्यनेनात्र कश्चिन्मा-
र्गाभिनयः प्रतिपाद्यत इति सूच्यते । मार्गो नाम नाट्यविशेषः । तथोक्तम्—
'मार्गोऽपि देशी तद्भेदः कथितो नाट्यवेदिभिः । अत्र मार्गो भवेन्नाट्यं नाट्यवे-
दोक्तलक्षणम् ॥' इति । एष नान्दीश्लोकः । नान्द्यादिलक्षणं तु शाकुन्तलव्याख्यान
एवाभिहितम् । अत्र 'पदादिनियमोऽपि वा' इति विकल्पात्पदादिनियमाभावः ॥
अथ प्रस्तावनां विवक्षुस्तदङ्गयोः प्ररोचनामुखयोः प्ररोचनां प्रस्तौति—नान्द्यन्ते
सूत्रधार इत्यादिना । मारिष, इतस्तावत् । आगम्यतामिति शेषः । नटः सू-
त्रधारेण मारिष इति वाच्यः । 'सूत्री नटेन भावेति तेनासौ मारिषेति च' इत्यु-
क्तत्वात् ॥ परिपार्श्वं यथा भवति तथा वर्तत इति पारिपार्श्विकः । नट इत्यर्थः ।
'परिमुखं च' इत्यत्र चकाराद्वक् ॥ अभिहितोऽस्मीत्यादि । विद्वत्परिषदा
विदुषां विपश्चितां परिषत्स्रभा तया । अनेन सभाप्रशंसा कृता । कालिदासग्रथि-
तवस्तु कालिदासेन ग्रथितं वस्तु कथा यस्मिंस्तत्तथोक्तम् । मालविकाग्निमित्रम् ।
'अधिकृत्य कृते ग्रन्थे' इत्यण् । यथा मालतीमाधवम् । वसन्तोत्सव इत्यनेन का-
लनिर्देशः कृतः । संगीतं तौर्यत्रिकम् । तथा चोक्तं संगीतरत्नाकरे—'नृत्तं गीतं
तथा वाद्यं त्रयं संगीतमुच्यते' इति । आरभ्यतां प्रयोक्तुं यत्नः क्रियताम् ॥ मा
तावत् मा इति निवारणे । भास कविपुत्र-सौमिल्लका कवय प्राञ्चना । प्रबन्धा-
न्=रूपकाणि । १ परित्यज्येत्यर्थः
प्रथमोऽङ्कः । ३
पुराणमित्येव न साधु सर्वं
न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद्भजन्ते
मूढः परप्रत्ययनेयबुद्धिः ॥ २ ॥
पारिपार्श्विकः—आर्यमिश्राः प्रमाणम् ।
सूत्रधारः—तेन हि त्वरतां भवान् ।
शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् ।
देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम् ॥ ३ ॥
(इति निष्क्रान्तौ ।)
प्रस्तावना ।
(ततः प्रविशति बकुलावलिका ।)
बकुलावलिका—आणत्तम्हि देवीए धारिणीए । अइरप्पउत्तोव-
१. आज्ञाप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्य-
कवेः।क्रियायां कृतौ रूपके। कथं बहुमान आदरातिशयः कथनमीक्ष्यते॥विवेकभ्रस्तं
विवेकदुर्बलम् । विवेकशून्यमित्यर्थः । क्रियाविशेषणं चैतत् । पुराणमित्यादि ।
सर्वं काव्यं कवेः कर्म । कृतिरित्यर्थः । पुराणमित्येव पुराणत्वादेव साधु रम्यं न
भवति । नवमिति च नवत्वादेव अवद्यं गर्ह्यं न भवति । किंतु सन्तो विद्वांसः
परीक्ष्य पुराणं नवं च काव्यं गुणतो दोषतश्च परामृश्य अन्यतरत्तयोरेकं पुराणं
नवं वा । गुणयुक्तमित्यर्थः । भजन्ते । स्वीकुर्वन्तीत्यर्थः । मूढोऽज्ञस्तु परप्रत्य-
यनेयबुद्धिः परस्यान्यस्य प्रत्ययेन ज्ञानेन नेया प्राप्या बुद्धिर्यस्य स तथोक्तः ।
अनेन कविकव्यप्रशंसा कृता ॥ शिरसेत्यादि । शिरसा मूर्ध्ना प्रथमगृहीतां
पूर्वस्वीकृताम् । शिरसा ग्रहणेन भक्त्यतिशयो गम्यते । परिषदः सभाया आज्ञां
शासनं कर्तुं निर्वर्तयितुमिच्छाम्यभिलषामि। अत्रोपमामाह—धारिण्या देव्याः। धा-
रिणी नाम कथानायकस्य पत्नी । तस्या आज्ञां सेवादक्षः परिचर्यानिपुणोऽयं पुरोवर्ती
परिजन इव । परिचारको जनः परिजनः । अनेन पात्राक्षेपहेतुः प्रयोगातिशयो
नाम मुखाङ्गमुक्तं भवति ॥ प्रस्तावना ॥ कविरिदानीमङ्कमारभमाणः कथोपयो-
गितया प्रथमं मिश्रविष्कम्भं नामार्थोपक्षेपकं प्रस्तौति—ततः प्रविशतीत्या-
दिना । आज्ञाप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्यमन्त-
रेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तस्मात्तावत्सङ्गीतशाळां
४ मालविकाग्निमित्रे
देसं छलिअं णाम णट्टअं अन्तरेण कीरिसी मालविअत्ति णट्टाअरिअं
अज्जगणदासं पुच्छिदुं । ता दाव संगीतसालं गच्छम्मि (इति परिक्रामति ।)
(ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ।)
प्रथमा---(द्वितीयां दृष्ट्वा ।) हँला कौमुदीए, कुदो दे इअं धीरदा ।
जं समीवेण वि अदिक्कमन्ती इदो दिट्ठिं ण देसि ।
द्वितीया---अम्हो बउलावलिआ । सहि, इदं देवीए सिप्पिस-
आसादो आणीदं णाअमुद्दासणाहं अङ्गुलीअअं सिणिद्धं णिज्झा-
अन्ती तुह उवालम्भे पडिदम्हि ।
प्रथमा---(विलोक्य ।) ठाणे सज्जदि दिट्ठी । इमिणा अङ्गुलीअ-
एण उत्थिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहत्थो ।
द्वितीया---हँला, कहिं पत्थिदा सि ।
मन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तत्तावत्सङ्गीत-
शालां गच्छामि ।
१. सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यतिक्रामन्तीतो
दृष्टिं न ददासि ।
२. अहो बकुलावलिका ! सखि, इदं देव्याः शिल्पिसकाशादानीतं
नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि ।
३. स्थाने सज्जति दृष्टिः । अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित
इव तेऽग्रहस्तः ।
४. 'सखि, कुत्र प्रस्थितासि ।
गच्छामि। अन्तरेणेत्ययं निपात उद्देशार्थे वर्तते। छलिकं नाम नाट्यविशेष इत्यर्थः।
तथा चोक्तम् --'तदेव च्छलिकं नाम साक्षाद्यदभिनीयते। व्यपदिश्य पुरावृत्तं स्वा-
भिप्रायप्रकाशकम्॥' इति ॥ सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यति-
क्रामन्तीतो दृष्टिं न ददासि ॥ अहो बकुलावलिका । सखि, इदं देव्याः शिल्पिसका-
शादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती पश्यन्ती तवोपालम्भे प-
तितास्मि ॥ स्थाने सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव
तेऽग्रहस्तः॥ सखि, कुत्र प्रस्थितासि ॥ देव्या एव वचनेन नाटकाचार्यमार्यगणदासं
प्रथमोऽङ्कः । ५
प्रथमा देवीए एव वअणेण नाडआआरिअं अज्जगणदास
देखिदु । उवदेसग्गहणे कीरिसी मालविअत्ति ।
द्वितीया—२सेहि, ईरिसेण वावारेण असंणिहिदा वि सा कहं
भटुणा दिट्ठा ।
प्रथमा—३आम । सो जणो देवीए पस्सगदो चित्ते दिट्ठो ।
द्वितीया—४कँहं विअ ।
प्रथमा—५सुँणु । चित्तसालं गदा देवी पच्चग्गवण्णराअं चित्तलेहं
आआरिअस्स ओलोअन्ती चिट्ठदि । भट्ठा अ उवट्ठिदो ।
द्वितीया—६तैदो तदो ।
प्रथमा—७उँवआराणन्तरं एकासणोवविट्ठेण भटुणा चित्तगदाए
देवीए परिअणमज्झगदं आसण्णदारिअं देखिअ देवी पुच्छिदा ।
द्वितीया—८किं ति ।
१. देव्या एव वचनेन नाट्याचार्यमार्यगणदासं द्रष्टुम् । उपदेशग्रहणे
कीदृशी मालविकेति ।
२. सखि, ईदृशेन व्यापारेणासंनिहितापि सा कथं भर्त्रा दृष्टा ।
३. आम । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः ।
४. कथमिव ।
५. शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्याव-
लोकयन्ती तिष्ठति । भर्ता चोपस्थितः ।
६. ततस्ततः ।
७. उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजन-
मध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ।
८. किमिति ।
द्रष्टुम्। उपदेशग्रहणे कीदृशी मालविकेति ॥ सखि, ईदृशेन व्यापारेणासंनिहितापि
सा कथं भर्त्रा दृष्टा ॥ आमेल्यभ्युपगमे । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः ॥कथमिव॥
शृणु। चित्रशालांगता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्यावलोकयन्ती तिष्ठति।
भर्ता चोपस्थितः॥ ततस्ततः ॥ उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया
देव्याः परिजनमध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ॥ किमिति॥ अपूर्वेयं दारिका,
६ मालविकाग्निमित्रे
प्रथमा - अपुव्वा इअं दारिआ, आसण्णा अ देवीए आलिहिदा,
किंनामहेएत्ति।
द्वितीया - आकिदिविसेसेंसु आअरो पदं करेदि। तदो तदो।
प्रथमा - तदो अवहीरिअवअणो भट्टा देवीं पुणो अणुबन्धिदुं
सङ्किदो। तदो कुमारीए वसुलच्छीए आचक्खिदम्। अज्ज, एसा
मालविअत्ति।
द्वितीया - (सस्मितम्) सैरिसं खु बालभावस्स। अदो वरं कहेहि।
प्रथमा - किं अण्णं। संवदं मालविआ सविसेसं भत्तुणो दंसण-
पहादो रक्खीअदि।
द्वितीया - हँला, अत्तणो णिओअं अणुचिट्ठ। अहं वि एदं
अङ्गुलीअअं देवीए उवणेइस्सम्। (इति निष्क्रान्ता।)
प्रथमा - (परिक्रम्यावलोक्य ।) ऎसो णट्टाअरिओ संगीदसालादो
णिग्गच्छदि। जाव से अत्ताणं दंसेमि। (इति परिक्रामति।)
१. अपूर्वैयं दारिका, आसन्ना च देव्या आलिखिता किंनामधेयेति।
२. आकृतिविशेषेष्वादरः पदं करोति। ततस्ततः।
३. ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्धुं शङ्कितः। ततः कुमार्या
वसुलक्ष्म्याख्यातम्। आर्य, एषा मालविकेति।
४. सदृशं खलु बालभावस्य। अतः परं कथय।
५. किमन्यत्। सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते।
६. सखि, आत्मनो नियोगमनुतिष्ठ। अहमप्येतदङ्गुलीयकं देव्यै
उपनेष्यामि।
७. एष नाट्याचार्यः संगीतशालातो निर्गच्छति। यावदस्यात्मानं
दर्शयामि।
आसन्ना च देव्या आलिखिता, किंनामधेयेति ॥ आकृतिविशेषेष्वादरः पदं करोति।
ततस्ततः ॥ ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्धुं शङ्कितः। ततः कुमार्या
वसुलक्ष्म्याख्यातम्। आर्य, एषा मालविकेति। सदृशं खलु बालभावस्य। अतः
परं कथय॥ किमन्यत्। सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते।'अपुव्वा
इअं दारिआ' इत्यारभ्य 'दंसणपहादो रक्खिअदि' इत्यन्तेन वाक्यकदम्बकेन
गम्यमानो मालविकागोचरो राज्ञोऽभिलाषोऽत्र नाटके बीजमित्यनुपश्येयम्॥ सखि,
आत्मनो नियोगमनुतिष्ठ। अहमप्येतदङ्गुलीयकं देव्यै उपनेष्यामि॥ एष नाट्याचार्यः
(प्रविश्य )
गणदासः—कामं खलु सर्वस्यापि कुलविद्या बहुमता ।
न पुनरस्माकं नाट्यं प्रति मिथ्यागौरवम् । तथा हि ।
देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ॥ ४ ॥
संगीतशालातो निर्गच्छति । यावदस्या आत्मानं दर्शयामि ॥ देवानामित्यादि ।
मुनयो भरतमतङ्गादय इदं नाट्यं देवानामिन्द्रादीनां क्रतुं यज्ञमामनन्ति । कीदृशम् ।
शान्तं सौम्यम् । पशुविशसनादिरहितमित्यर्थः । पुनः कीदृशम् । चाक्षुषं चक्षुस्तु-
ष्ट्याव्यम् । अस्य नाट्यस्य क्रतुत्वनिरूपणं चतुर्वेदसारनाट्यवेदविहितकर्मत्वादिति
मन्तव्यम्। तथा च कुमारसंभवे—'कर्म यज्ञः फलं स्वर्गः' इति। अत्र चतुर्वेदसारत्वं
भारतीये प्रतिपादितम्—'सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रदर्शकम् । नाट्यसंज्ञमिमं वेदं
सेतिहासं करोम्यहम् ॥ एवं संकल्प्य भगवान्सर्वान्वेदाननुस्मरन् । नाट्यवेदं तत-
श्चक्रे चतुर्वेदाङ्गसंभवम् । जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभि-
नयान्रसानाथर्वणादपि ॥ वेदोपवेदसंबद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो
ब्रह्मणा ललितात्मना ॥ उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् ॥' इति । प्रकारा-
न्तरेणाप्यस्य क्रतुत्वं प्रतिपादितम्—'प्रयोगं यश्च कुर्वीत प्रेक्षते चावधानवान् । या
गतिर्वेदविदुषां या गतिर्यज्ञयाजिनाम्।या गतिर्दानशीलानां तां गतिं प्राप्नुयान्नरः॥'
इति । पुनः कीदृशमिदं नाट्यम् । रुद्रेणेश्वरेणोमाकृतव्यतिकरे उमया पार्वत्या कृतो
व्यतिकरः संबन्धो यस्य स तथोक्तस्तस्मिन्स्वाङ्गे आत्मदेहे द्विधा द्विप्रकारेण लास्य-
ताण्डवरूपेण विभक्तं पृथक्कृतम् । तथा चोक्तं संगीतविद्याविनोदे—'उद्दण्डताण्डव-
मुदञ्चितलास्यलीलां कर्तुं स्वयं युगपदेव समुत्सुकात्मा । यः कामिनीकलितकम्प्रतरा-
र्धकायः सोऽयं विभाति विभुरादिनटः सुराणाम् ॥' अत्र नाट्य त्रैगुण्योद्भवम् । त्रयो
गुणाः सत्त्वरजस्तमांस्येव त्रैगुण्यम् । चतुर्वर्णादित्वात्स्वार्थे ष्यञ् । तस्मादुद्भवमुद्भूतं
लोकचरितं लोकानां लोकस्थानां रामाद्यनुकार्याणां चरितं सुखदुःखमिश्रात्मकं चरितं
नानारसं नाना बहुविधा रसाः प्रियतमोपभोग्या यस्मिंस्तत्तथोक्तं दृश्यते ज्ञायते ।
सामाजिकैरनुभूयत इत्यर्थः। लोकेऽनुकार्यस्य चरितं सुखदुःखमिश्रात्मकमपि नाट्यं
नटेनाभिनीयमानं सत्सुखरूपेणैव प्रतीयत इति भावः। पुनः कीदृशम् । नाट्यं नटनप्र-
योगः । एकमप्येकैकमपि भिन्नरुचेर्भिन्ना बहुविधा रुच्यः प्रीतयो यस्य स तथोक्त-
८ मालविकाग्निमित्रे
बकुलावलिका—(उपेत्य १) अज्ज, वन्दामि ।
गणदासः—भद्रे, चिरं जीव ।
बकुलावलिका—२अज्ज, देवी पुच्छदि । अवि उवदेसग्गहणे
णादिक्किलिस्सदि वो सिस्सा मालविअत्ति ।
गणदासः—भद्रे, विज्ञाप्यतां देवी परंमनिपुणा मेधाविनी
चेति । किंबहुना ।
यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ५ ॥
बकुलावलिका—(आत्मगतम् ।) ३अदिकन्तं विअ इरावदिं
पेक्खामि । (प्रकाशम् ।) किदत्था दाणिं वो सिस्सा । जाए गुरुअणो एवं
तुस्सदि ।
१. आर्य, वन्दे ।
२. आर्य, देवी पृच्छति । अप्युपदेशग्रहणे नातिक्लिश्यति वः शिष्या
मालविकेति ।
३. अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या । यस्या
गुरुजन एवं तुष्यति ।
स्तस्य जनस्य बहुधा बहुप्रकारेण शृङ्गारहास्यादिरूपेण समाराधकं संतर्पकम्। तथा
चोक्तं भारतीये—'त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् । धर्मो धर्मप्रवृत्तानां
कामः कामोपसेविनाम्। अर्थोपजीविनामर्थो धृतिरुद्विग्नचेतसाम् ॥ नानाभावोप-
संपन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ एतद्रसेषु
भावेषु सर्वकर्मक्रियासु वा।सर्वोपदेशजननं नाट्यमेतद्भविष्यति॥न तज्ज्ञानं न तच्छिल्-
रूपं नासौ विद्या न सा कला । नासौ योगो न तत्कर्म नाट्यऽस्मिन्यन्न दृश्यते ॥'इति॥
आर्य, वन्दे॥ आर्य, देवी पृच्छति। अप्युपदेशग्रहणे नातिक्लिश्यति वः शिष्या मालवि-
केति॥ यद्यदित्यादि । प्रयोगविषयेऽभिनयार्थे मया तस्यै मालविकायै यद्यद्भाविकं
भाववत् । 'अत इनिठनौ' इति ठन्। नृत्यमित्यर्थः । यथोक्तम्—'अङ्गिकामिनयप्राय-
मल्पवाचिकासात्विकम् । भावानामास्पदं नृत्यं पदार्थव्यञ्जनात्मकम् ॥' इति । उप-
दिश्यते बोध्यते । तत्तद्विशेषकरणात्तस्य तस्य भाविकस्य विशेषेणातिशयेन करणं
निर्वर्तनं मे तस्मात्सा बाला प्रत्युपदिशतीव प्रतिबोधयतीव । अनेन तस्या नृत्ये
प्रावीण्यातिशयो गम्यते॥अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या।
यस्यां गुरुजन एवं तुष्यति ॥ अस्ति देव्या वर्णवरो भ्राता वीरसेनो नाम भर्त्रा
प्रथमोऽङ्कः ९
गणदासः—भद्रे, । कुतो देव्या
तत्पात्रमानीतम् ।
बकुलावलिका—अत्थि देवीए वण्णावरो भादा वीरसेणो णाम
भत्तुणा णम्मदातीरे अन्तवालदुग्गे ठाविदो । तेण सिप्पाहिआरे
जोग्गा इअं दारिअत्ति भणिअ भइणीए देवीए उवाअणं पेसिदा ।
गणदासः—(स्वगतम् ।) आकृतिविशेषप्रत्ययादेनामूनवस्तुकां
संभावयामि । (प्रकाशम् ।) भद्रे, मयापि यशस्विना भवितव्यम् । यतः ।
पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥
बकुलावलिका—अह इं । अह कहिं वो सिस्सा ।
गणदासः—इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रम्यता-
मित्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति ।
१. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भर्त्रा नर्मदातीरेऽन्त-
पालदुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या
देव्या उपायनं प्रेषिता ।
२. अथ किम् । अथ कुत्र वः शिष्या ।
नर्मदातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्पाधिकारे कलाविद्याधिगम इयं योग्या
दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता ॥ अनूनवस्तुकामूनमनल्पं
विशिष्टं वस्तु वृत्तं यस्याः सा तथोक्ता तां संभावयामि मन्ये । पात्रविशेष
इत्यादि । आधातुरुपदेष्टुः शिल्पं कलाविद्या पात्रविशेषे विशिष्टपात्रे न्यस्तं निहितं
सत् गुणान्तरं गुणविशेषं व्रजति प्राप्नोति। अत्रोपमामाह-पयोदस्य मेघस्य जलं समु-
द्रशुक्तौ न्यस्तं सत् मुक्ताफलतां मौक्तिकत्वमिव॥ अथ किम्। अथ कुत्र वः शिष्या॥
इदानीमित्यादि। पञ्चाङ्गाभिनयं पञ्च अङ्गानि यस्य तत्तथोक्तम् । प्रेरणमित्यर्थः।
तस्याभिनयः प्रयोगस्तमिदानीमद्यैवोपदिश्य शिक्षयित्वा। प्रवातं प्रशस्तो वातो यस्मि-
न्देशे स तथोक्तस्तम् । प्रेरणस्याङ्गपञ्चकमुक्तं संगीतरत्नाकरे-‘नृत्तं तथा च कैवारो
मर्मरो जागरं तथा । गीतं चेति समाख्यातं प्रेरणस्याङ्गपञ्चकम्॥ त्रिभिस्त्वेवैतत्प्रयोज्यं
स्यात्कैवारं जागरं विना ॥’इति । अत्र पञ्चाङ्गरूपनृत्तान्तरोपक्रमकथनेन च्छलिकं
नृत्तं साकल्येन परिशीलितमिति सूच्यते । तेन हि पुनरनुजानातु मामार्यः ।
१० मालविकाग्निमित्रे
बकुलावलिका-तेणं हि पुणो अणुजाणादु मं अज्जो। जाव से
अज्जस्स परितोसणिवेयणेण उस्साहं वड्ढेमि।
गणदासः-दृश्यतां सखी। अहमपि लब्धक्षणः स्वगृहं गच्छामि।
(इति निष्क्रान्तौ।)
मिश्रविष्कम्भः।
(ततः प्रविशत्येकान्तस्थित परिजनो मन्त्रिणा लेखहस्तेनान्वास्यमानो राजा।)
राजा-(अनुवाचितलेखममात्यं विलोक्य।) वाह्तव, किं प्रतिप-
द्यते वैदर्भः।
अमात्यः-देव, आत्मविनाशम्।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंभिजनेषु राज्ञा वृत्ति अतोऽत्र मध्यस्थ पूज्यो भवितुमर्हति सो-
दर्या पुनरस्य ग्रहणविप्लवे विनष्टा . तदन्वेषणाय प्रयतिष्ये . अ
थवा, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम-
भिसंधिः ।
मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् ।
मोक्ता माधवसेनस्ततो मया बन्धनात्सद्यः ॥ ७ ॥
इति ।
राजा-(सरोषम् ।) कथं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१२ मालविकाग्निमित्रे
अमात्यः—तथा (इति निष्क्रान्त )
(परिजनो यथाव्यापारं राजानमभितः स्थितः ।)
(प्रविश्य ।)
विदूषकः—आणत्तोम्हि तत्तभवदा रण्णा । गोदम, चिन्तेहि
दाव उवाअं । जहा मे जदिच्छादिट्ठपदिकिदी मालविआ पच्छक्ख-
दंसणा होदित्ति । मए अ तत्तहा किदं । दाव से णिवेदेमि । (इति
परिक्रामति ।)
राजा—(विदूषकं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्रथम अङ्क: हरदत्त-गणदास नाट्य विवाद व मालविका दर्शन
प्रथमोऽङ्कः । ११
राजा—कथमिव
विदूषकः—(कर्णे ।) ऐवमिव ।
राजा—साधु वयस्य; निपुणमुपक्रान्तम् । इदानीं दुरधिगम-
सिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे । कुतः ।
अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ९ ॥
(नेपथ्ये ।)
अलं बहु विकत्थ्य । राज्ञः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१४ मालविकाग्निमित्रे
राजा—प्रवेशय ।
कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह प्रविष्टः ।
इत इतो भवन्तौ ।
गणदासः—(राजानं विलोक्य ।) अहो दुरासदो राजमहिमा ।
न च न परिचितो न चाप्यरम्य-
श्चकितमुपैमि तथापि पार्श्वमस्य ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें**राजा—**बाढं जाने । ततः किम् ।
**गणदासः—**सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न
पादरजसापि तुल्य इत्यधिक्षिप्तः ।
**हरदत्तः—**देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल
मम च समुद्रपल्वलयोरिवान्तरमिति । तदत्रभवानिमं मां च शास्त्रे
प्रयोगे च विमृशतु । देव एव नौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६ मालविकाग्निमित्रे
धारिणी—जंइवि एवं राजपरिग्गहो से पहाणत्तणं उवहरइ ।
परिव्राजिका—अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु
भवती । पश्य ।
अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादर्कः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥
विदूषकः—अइ, उअट्ठिदा देवी पीठमद्दिं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंप्रथमोऽङ्कः । १७
परिव्राजिका—
महासारप्रसवयोः सदृशक्षमयोर्द्वयोः ।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥
धारिणी—१जेदुं अज्जउत्तो ।
राजा—स्वागतं देव्यै । (परिव्राजिकां विलोक्य ।) भगवति, क्रि-
यतामासनपरिग्रहः ।
(सर्वे उपविशन्ति ।)
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें