मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 20, कुल 111 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । १७
परिव्राजिका—
महासारप्रसवयोः सदृशक्षमयोर्द्वयोः ।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥
धारिणी—१जेदुं अज्जउत्तो ।
राजा—स्वागतं देव्यै । (परिव्राजिकां विलोक्य ।) भगवति, क्रि-
यतामासनपरिग्रहः ।
(सर्वे उपविशन्ति ।)
राजा—भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञान-
संघर्षिणोर्भगवत्या प्राश्निकपदमध्यासितव्यम् ।
परिव्राजिका—(सस्मितम् ।) अलमुपालम्भेन । पत्तने सति ग्रामे
रत्नपरीक्षा ।
राजा—नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपाति-
नावहं देवी च ।
आचार्यो—सम्यगाह देवः । मध्यस्था भगवती नौ गुणदोषतः
परिच्छेत्तुर्महति ।
राजा—तेन हि प्रस्तूयतां विवादः ।
परिव्राजिका—देव, प्रयोगप्रधानं हि नाट्यशास्त्रम् । किमत्र
वाग्व्यवहारेण । कथं वा देवी मन्यते ।
देवी—२जंइ मं पुच्छसि, एदाणं विवादो एव ण मे रोअदि ।
गणदासः—देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि ।
विदूषकः—³भोदि, पेक्खामो उरब्भसंवादं । किं मुहा वेअ-
णदाणेण ।
१. जयत्वार्यपुत्रः ।
२. यदि मां पृच्छसि, एतेषां विवाद एव न मे रोचते ।
३. भवति, पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ।
नीयम् ॥ महासारेत्यादि । महासारप्रसवयोः । महान्सारो वरः प्रसवः संतानं
ययोस्ते तयोः । सदृशक्षमयोः । सदृशी समाना क्षमा सहिष्णुत्वं ययोस्ते तयोः । शेषं
स्पष्टम् ॥ जयत्वार्यपुत्रः ॥ यदि मां पृच्छसि, एतयोर्विवाद एव न मे रोचते ॥ भवति,