सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 18, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 18

**राजा—**बाढं जाने । ततः किम् ।
**गणदासः—**सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न
पादरजसापि तुल्य इत्यधिक्षिप्तः ।
**हरदत्तः—**देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल
मम च समुद्रपल्वलयोरिवान्तरमिति । तदत्रभवानिमं मां च शास्त्रे
प्रयोगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकः ।
**विदूषकः—**समत्थं पडिण्णादं ।
**गणदासः—**प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति ।
**राजा—**तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदस्याः
पण्डितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः ।
**विदूषकः—**सुट्ठु भवं भणादि ।
**आचार्यौ—**यद्देवाय रोचते ।
**राजा—**मौद्गल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्ध-
माहूयतां देवी ।
**कञ्चुकी—**यदाज्ञापयति देवः । (इति निष्क्रम्य सपरिव्राजिकया
देव्या सह प्रविष्टः ।) इत इतो भवती ।
धारिणी—(परिव्राजिकां विलोक्य ।) भअवदि, हरदत्तस्स गण-
दासस्स अ संरम्भे कहं पेक्खसि ।
**परिव्राजिका—**अलं स्वपक्षावसादशङ्कया । न परिहीयते प्रति-
वादिनो गणदासः ।
१. समर्थं प्रतिज्ञातम् ।
२. सुष्ठु भवान्भणति ।
३. भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि ।
त्यादि । तीर्थाद्विशिष्टाद्गुरोरभिनयविद्या नाट्यविद्या शिक्षिताभ्यस्ता । दत्तप्रयो-
गश्चास्मि । दत्तः शिष्येभ्यः प्रतिपादितः प्रयोगो विनियोगो येन स तथोक्तः ॥
समर्थं प्रतिज्ञातम् ॥ प्रथमः कल्पो मुख्यः पक्षः ॥ न्याय्यो युक्तः । व्यवहारो वि-
वादः ॥ सुष्ठु भवान्भणति ॥ भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि
कथं मन्यसे । अनयो कतरस्य पराजयं ^ * * । अलं स्वपक्षे