सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 4, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 4

अथ
मालविकाग्निमित्रम् ।
प्रथमोऽङ्कः ।
एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः
कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् ।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः
सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ १ ॥
वेदादीनां विशुद्धानां विद्यानां जन्महेतवे ।
पार्वतीपरतन्त्राय परस्मै वस्तुने नमः ॥
भाग्यं नाम समग्रमीदृशमतिस्नेहैकपात्रं यतो
वीरं काटयवेमसमुद्धतरिपुध्वंसे नियुज्य स्वयम् ।
नित्यं नन्दति नर्तनैरभिनवैः कान्तैर्वसन्तोत्सवैः
संतानाभ्युदयैः कुमारगिरिभूपालो नृपालोत्तमः ॥
अत्र कविः कालिदासः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थमिष्टदेवता-
स्मरणपूर्वकमाशिषं प्रयुङ्क्ते—एकैश्वर्य इत्यादि । स ईशः परमेश्वरः सन्मार्गालो-
कनाय । सन् प्रशस्तो मार्गः पन्था मोक्षमार्गस्तस्यालोकनाय दर्शनाय वो युष्माकं
तामसीं तमःसंबन्धिनीं वृत्तिं प्रवृत्तिं व्यपनयत्वपाकरोत्विति संबन्धः । कथंभूत
ईशः । यः प्रणतबहुफले । बहूनि फलानि यस्मात्तत्तथोक्तम् । प्रणतानां प्रणामं
कृतवताम् । भक्तानामित्यर्थः । तेषां बहुफलं तस्मिन् । एकैश्वर्ये । ईश्वरस्य भाव
ऐश्वर्यम् । एकं मुख्यम् । अनन्यसाधारणमित्यर्थः । तच्च तदैश्वर्यं च । तस्मिन्स्थि-
तोऽपि । अणिमाद्यैश्वर्ययुक्तोऽपीत्यर्थः। स्वयमात्मना कृत्तिवासाः कृत्तिश्चर्म वासो
वसनं यस्य स तथोक्तः। यः कान्तासंमिश्रदेहोऽपि कान्तया स्त्रिया संमिश्रः संमि-
लितो देहः शरीरं यस्य स तथोक्तस्तादृशोऽपि सन् । अविषयमनसाम् । न विद्यन्ते
विषयाः शब्दादयो येषां तान्यविषयाणि तानि मनांसि येषां ते तथोक्ताः तेषां
यतीनां संयमिनां परस्तात्परः श्रेष्ठः । 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दि-
ग्देशकालेष्वस्ताति' इत्यस्तातिप्रत्ययः । अष्टाभिस्तनुभिः पृथिव्यादिमूर्तिभिः कृत्स्नं