मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 7, कुल 111 में से
संदर्भ में पढ़ें४ मालविकाग्निमित्रे
देसं छलिअं णाम णट्टअं अन्तरेण कीरिसी मालविअत्ति णट्टाअरिअं
अज्जगणदासं पुच्छिदुं । ता दाव संगीतसालं गच्छम्मि (इति परिक्रामति ।)
(ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ।)
प्रथमा---(द्वितीयां दृष्ट्वा ।) हँला कौमुदीए, कुदो दे इअं धीरदा ।
जं समीवेण वि अदिक्कमन्ती इदो दिट्ठिं ण देसि ।
द्वितीया---अम्हो बउलावलिआ । सहि, इदं देवीए सिप्पिस-
आसादो आणीदं णाअमुद्दासणाहं अङ्गुलीअअं सिणिद्धं णिज्झा-
अन्ती तुह उवालम्भे पडिदम्हि ।
प्रथमा---(विलोक्य ।) ठाणे सज्जदि दिट्ठी । इमिणा अङ्गुलीअ-
एण उत्थिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहत्थो ।
द्वितीया---हँला, कहिं पत्थिदा सि ।
मन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तत्तावत्सङ्गीत-
शालां गच्छामि ।
१. सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यतिक्रामन्तीतो
दृष्टिं न ददासि ।
२. अहो बकुलावलिका ! सखि, इदं देव्याः शिल्पिसकाशादानीतं
नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि ।
३. स्थाने सज्जति दृष्टिः । अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित
इव तेऽग्रहस्तः ।
४. 'सखि, कुत्र प्रस्थितासि ।
गच्छामि। अन्तरेणेत्ययं निपात उद्देशार्थे वर्तते। छलिकं नाम नाट्यविशेष इत्यर्थः।
तथा चोक्तम् --'तदेव च्छलिकं नाम साक्षाद्यदभिनीयते। व्यपदिश्य पुरावृत्तं स्वा-
भिप्रायप्रकाशकम्॥' इति ॥ सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यति-
क्रामन्तीतो दृष्टिं न ददासि ॥ अहो बकुलावलिका । सखि, इदं देव्याः शिल्पिसका-
शादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती पश्यन्ती तवोपालम्भे प-
तितास्मि ॥ स्थाने सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव
तेऽग्रहस्तः॥ सखि, कुत्र प्रस्थितासि ॥ देव्या एव वचनेन नाटकाचार्यमार्यगणदासं