मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 16, कुल 111 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ११
राजा—कथमिव
विदूषकः—(कर्णे ।) ऐवमिव ।
राजा—साधु वयस्य; निपुणमुपक्रान्तम् । इदानीं दुरधिगम-
सिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे । कुतः ।
अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ९ ॥
(नेपथ्ये ।)
अलं बहु विकत्थ्य । राज्ञः समक्षमेवावयोरधरोत्तरयोर्व्यक्ति-
र्भविष्यति ।
राजा—(आकर्ण्य ।) सखे, त्वत्सुनीतिपादपस्य पुष्पमुद्भिन्नम् ।
विदूषकः—फलं वि अइरेण दक्खिस्ससि ।
(ततः प्रविशति कञ्चुकी ।)
कञ्चुकी—देव, अमात्यो विज्ञापति अनुष्ठिता प्रभोराज्ञेति ।
एतौ पुनर्हरदत्तगणदासौ
उभावभिनयाचार्यौ परस्परजयैषिणौ ।
त्वां द्रष्टुमुद्यतौ साक्षाद्भावाविव शरीरिणौ ॥ १० ॥
१. एवमिव ।
२. फलमप्यचिरेण द्रक्ष्यसि ।
नियतस्य व्यापारान्तरभेदस्य गुह्यतरार्थस्य प्रयोगे कविना प्रयुक्तम् । तथोक्तम्—
‘कर्णे एवमिवेत्युक्त्वा ज्ञाप्यः पश्चात्प्रसङ्गतः’ इति ॥ इदानीमित्यादि । अस्मि-
न्नारम्भे मालविकासाक्षाद्दर्शनोद्योगे दुरधिगमसिद्धावपि दुर्लभसिद्धौ सत्यपीदानीं
त्वद्वचनश्रवणानन्तरं वयमाशंसामहे सिद्धिमपेक्षामहे ॥ अर्थमित्यादि । सप्रति-
बन्धं सप्रतिरोधमर्थं प्रयोजनमधिगन्तुं लब्धुं सहायवानेव जनः प्रभुः समर्थो भ-
वति । ‘इदानीम्’ इत्यादिना ‘सहायवानेव’ इत्यन्तेन तस्य बीजस्य बहुलीकरणत्परि-
कर इति संध्यङ्गमुक्तं भवति ॥ नेपथ्य इत्यादि । बहु विकत्थ्यात्मश्लाघां कृत्वारम्।
अलमिति प्रतिषेधे । ‘अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति क्त्वाप्रत्ययः॥फल-
मप्यचिरेण द्रक्ष्यसि । अत्र बीजस्य दृढीकरणात्परिन्यासो नाम संध्यङ्गमुक्तं भवति॥
उभावित्यादि । शरीरिणौ मूर्ती साक्षाद्भावौ प्रत्यक्षभावाविव नृत्सामिनयार्थाविव॥
माल० २