मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 14, कुल 111 में से
संदर्भ में पढ़ेंभिजनेषु राज्ञा वृत्ति अतोऽत्र मध्यस्थ पूज्यो भवितुमर्हति सो-
दर्या पुनरस्य ग्रहणविप्लवे विनष्टा . तदन्वेषणाय प्रयतिष्ये . अ
थवा, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम-
भिसंधिः ।
मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् ।
मोक्ता माधवसेनस्ततो मया बन्धनात्सद्यः ॥ ७ ॥
इति ।
राजा-(सरोषम् ।) कथं कार्यविनिमयेन मयि व्यवहरत्यात्मज्ञः।
वाहृतव, प्रकृत्यमित्रः प्रतिकूलकारी च मे वैदर्भः । तद्यातव्यपक्षे
स्थितस्य पूर्वसंकल्पितसमुन्मूलनाय वीरसेनमुखं दण्डचक्रमाज्ञापय ।
अमात्यः-यदाज्ञापयति देवः ।
राजा-अथवा किं भवान्मन्यते ।
अमात्यः-शास्त्रदृष्टमाहं देवः ।
अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
नवसंरोपणशिथिलस्तरुखि सुकरः समुद्धर्तुम् ॥ ८ ॥
राजा-तेन ह्यवितथं तन्त्रकारवचनम् । इदमेव वचनं निमित्त-
मुपादाय समुद्योज्यतां सेनाधिपतिः ।
विदितं नन्वित्यत्र काकुरनुसंधेया । तुल्याभिजनेषु समानवंशेषु । ज्ञातिष्वित्यर्थः ।
राज्ञां वृत्तिर्वर्तनमीदृशयेवंविधेति यत्तन्नु वो विदितमिति संबन्धः । अतोऽस्मात्का-
रणादत्रास्मिन्नर्थे पूज्यो भवान्मध्यस्थः समो भवितुमर्हति । अस्य माधवसेनस्य
सोदर्या पुनः स्वसा पुनर्गहणविप्लवे विनष्टा तिरोहिता । तदन्वेषणाय तस्या अन्वे-
पणाय गवेषणाय प्रयतिष्ये। अथवेति पक्षान्तरे। मोचयितव्यस्त्याजयितव्यः । अभि-
संधिर्निश्चयः। मौर्यसचिवमित्यादि। पूज्यो भवान्संयतं लया निगलितं मम
श्यालं पत्नीभ्रातरं मौर्यसचिवं मौर्यसचिवनामानं विमुञ्चति यदि त्यजति चेद् तत-
स्तस्मात्कारणान्मया सद्यः सपदि माधवसेनो बन्धनान्निगलान्मोक्ता मुक्तो भविता ।
मुञ्चतेः कर्मणि लुट् । इतिः लिखितार्थसमाप्तौ ॥ प्रकृत्यमित्रः स्वभावतः शत्रुः। अत्र
प्रकृत्यमित्रत्वं च विषयानन्तरत्वादिति मन्तव्यम् ॥ अचिराधिष्ठितेत्यादि ।
स्पष्टोऽर्थः ॥ तेनारूढमूलत्वेन हेतुना तन्त्रकारवचनमर्थशास्त्रकारवचनमवितथं