सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 10, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 10

(प्रविश्य )
गणदासः—कामं खलु सर्वस्यापि कुलविद्या बहुमता ।
न पुनरस्माकं नाट्यं प्रति मिथ्यागौरवम् । तथा हि ।
देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ॥ ४ ॥

संगीतशालातो निर्गच्छति । यावदस्या आत्मानं दर्शयामि ॥ देवानामित्यादि ।
मुनयो भरतमतङ्गादय इदं नाट्यं देवानामिन्द्रादीनां क्रतुं यज्ञमामनन्ति । कीदृशम् ।
शान्तं सौम्यम् । पशुविशसनादिरहितमित्यर्थः । पुनः कीदृशम् । चाक्षुषं चक्षुस्तु-
ष्ट्याव्यम् । अस्य नाट्यस्य क्रतुत्वनिरूपणं चतुर्वेदसारनाट्यवेदविहितकर्मत्वादिति
मन्तव्यम्। तथा च कुमारसंभवे—'कर्म यज्ञः फलं स्वर्गः' इति। अत्र चतुर्वेदसारत्वं
भारतीये प्रतिपादितम्—'सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रदर्शकम् । नाट्यसंज्ञमिमं वेदं
सेतिहासं करोम्यहम् ॥ एवं संकल्प्य भगवान्सर्वान्वेदाननुस्मरन् । नाट्यवेदं तत-
श्चक्रे चतुर्वेदाङ्गसंभवम् । जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभि-
नयान्रसानाथर्वणादपि ॥ वेदोपवेदसंबद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो
ब्रह्मणा ललितात्मना ॥ उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् ॥' इति । प्रकारा-
न्तरेणाप्यस्य क्रतुत्वं प्रतिपादितम्—'प्रयोगं यश्च कुर्वीत प्रेक्षते चावधानवान् । या
गतिर्वेदविदुषां या गतिर्यज्ञयाजिनाम्।या गतिर्दानशीलानां तां गतिं प्राप्नुयान्नरः॥'
इति । पुनः कीदृशमिदं नाट्यम् । रुद्रेणेश्वरेणोमाकृतव्यतिकरे उमया पार्वत्या कृतो
व्यतिकरः संबन्धो यस्य स तथोक्तस्तस्मिन्स्वाङ्गे आत्मदेहे द्विधा द्विप्रकारेण लास्य-
ताण्डवरूपेण विभक्तं पृथक्कृतम् । तथा चोक्तं संगीतविद्याविनोदे—'उद्दण्डताण्डव-
मुदञ्चितलास्यलीलां कर्तुं स्वयं युगपदेव समुत्सुकात्मा । यः कामिनीकलितकम्प्रतरा-
र्धकायः सोऽयं विभाति विभुरादिनटः सुराणाम् ॥' अत्र नाट्य त्रैगुण्योद्भवम् । त्रयो
गुणाः सत्त्वरजस्तमांस्येव त्रैगुण्यम् । चतुर्वर्णादित्वात्स्वार्थे ष्यञ् । तस्मादुद्भवमुद्भूतं
लोकचरितं लोकानां लोकस्थानां रामाद्यनुकार्याणां चरितं सुखदुःखमिश्रात्मकं चरितं
नानारसं नाना बहुविधा रसाः प्रियतमोपभोग्या यस्मिंस्तत्तथोक्तं दृश्यते ज्ञायते ।
सामाजिकैरनुभूयत इत्यर्थः। लोकेऽनुकार्यस्य चरितं सुखदुःखमिश्रात्मकमपि नाट्यं
नटेनाभिनीयमानं सत्सुखरूपेणैव प्रतीयत इति भावः। पुनः कीदृशम् । नाट्यं नटनप्र-
योगः । एकमप्येकैकमपि भिन्नरुचेर्भिन्ना बहुविधा रुच्यः प्रीतयो यस्य स तथोक्त-