मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 17, कुल 111 में से
संदर्भ में पढ़ें१४ मालविकाग्निमित्रे
राजा—प्रवेशय ।
कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह प्रविष्टः ।
इत इतो भवन्तौ ।
गणदासः—(राजानं विलोक्य ।) अहो दुरासदो राजमहिमा ।
न च न परिचितो न चाप्यरम्य-
श्चकितमुपैमि तथापि पार्श्वमस्य ।
सलिलनिधिरिव प्रतिक्षणं मे
भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥
हरदत्तः—महत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि ।
द्वारे नियुक्तपुरुषाभिमतप्रवेशः
सिंहासनान्तिकचरेण सहोपसर्पन् ।
तेजोभिरस्य विनिवर्तितदृष्टिपातै-
र्वाक्यादृते पुनरिव प्रतिवारितोऽस्मि ॥ १२ ॥
कञ्चुकी—एष देवः । उपसर्पतां भवन्तौ ।
उभौ—(उपेत्य ) विजयतां देवः ।
राजा—स्वागतं भवद्भ्याम् (परिजने विलोक्य ।) आसने तावदत्र-
भवतोः ।
(उभौ परिजनोपनीतयोरासनयोरुपविष्टौ ।)
राजा—किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोप-
स्थानम् ।
गणदासः—देव,श्रूयताम् । तीर्थादभिनयविद्या शिक्षिता। दत्त-
प्रयोगश्चास्मि देवेन देव्या च परिगृहीतः ।
न च न परिचित इत्यादि । अयं राजा परिचितः संस्तुतश्च न भवतीति न, किं
तु परिचित एव । अरम्योऽसौम्यश्च न किं तु रम्य एव । तथापि चकितं सभयं यथा
भवति तथास्य पार्श्व समीपमुपैमि । शेषं स्पष्टम्॥द्वारे नियुक्तेत्यादि । विनिवर्ति-
तदृष्टिपातैर्विनिवारितदृष्टिप्रसारैरस्य राज्ञस्तेजोभिः पुनःप्रकाशविशेषैस्तु वाक्या-
दृते प्रतिषेधवाक्यं विना प्रतिवारित इव निरुद्ध इवास्मि । तीर्थादभिनय विद्ये