सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 8, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 8

प्रथमोऽङ्कः । ५
प्रथमा देवीए एव वअणेण नाडआआरिअं अज्जगणदास
देखिदु । उवदेसग्गहणे कीरिसी मालविअत्ति ।
द्वितीया—२सेहि, ईरिसेण वावारेण असंणिहिदा वि सा कहं
भटुणा दिट्ठा ।
प्रथमा—३आम । सो जणो देवीए पस्सगदो चित्ते दिट्ठो ।
द्वितीया—४कँहं विअ ।
प्रथमा—५सुँणु । चित्तसालं गदा देवी पच्चग्गवण्णराअं चित्तलेहं
आआरिअस्स ओलोअन्ती चिट्ठदि । भट्ठा अ उवट्ठिदो ।
द्वितीया—६तैदो तदो ।
प्रथमा—७उँवआराणन्तरं एकासणोवविट्ठेण भटुणा चित्तगदाए
देवीए परिअणमज्झगदं आसण्णदारिअं देखिअ देवी पुच्छिदा ।
द्वितीया—८किं ति ।
१. देव्या एव वचनेन नाट्याचार्यमार्यगणदासं द्रष्टुम् । उपदेशग्रहणे
कीदृशी मालविकेति ।
२. सखि, ईदृशेन व्यापारेणासंनिहितापि सा कथं भर्त्रा दृष्टा ।
३. आम । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः ।
४. कथमिव ।
५. शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्याव-
लोकयन्ती तिष्ठति । भर्ता चोपस्थितः ।
६. ततस्ततः ।
७. उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजन-
मध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ।
८. किमिति ।
द्रष्टुम्। उपदेशग्रहणे कीदृशी मालविकेति ॥ सखि, ईदृशेन व्यापारेणासंनिहितापि
सा कथं भर्त्रा दृष्टा ॥ आमेल्यभ्युपगमे । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः ॥कथमिव॥
शृणु। चित्रशालांगता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्यावलोकयन्ती तिष्ठति।
भर्ता चोपस्थितः॥ ततस्ततः ॥ उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया
देव्याः परिजनमध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ॥ किमिति॥ अपूर्वेयं दारिका,