मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 11, कुल 111 में से
संदर्भ में पढ़ें८ मालविकाग्निमित्रे
बकुलावलिका—(उपेत्य १) अज्ज, वन्दामि ।
गणदासः—भद्रे, चिरं जीव ।
बकुलावलिका—२अज्ज, देवी पुच्छदि । अवि उवदेसग्गहणे
णादिक्किलिस्सदि वो सिस्सा मालविअत्ति ।
गणदासः—भद्रे, विज्ञाप्यतां देवी परंमनिपुणा मेधाविनी
चेति । किंबहुना ।
यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ५ ॥
बकुलावलिका—(आत्मगतम् ।) ३अदिकन्तं विअ इरावदिं
पेक्खामि । (प्रकाशम् ।) किदत्था दाणिं वो सिस्सा । जाए गुरुअणो एवं
तुस्सदि ।
१. आर्य, वन्दे ।
२. आर्य, देवी पृच्छति । अप्युपदेशग्रहणे नातिक्लिश्यति वः शिष्या
मालविकेति ।
३. अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या । यस्या
गुरुजन एवं तुष्यति ।
स्तस्य जनस्य बहुधा बहुप्रकारेण शृङ्गारहास्यादिरूपेण समाराधकं संतर्पकम्। तथा
चोक्तं भारतीये—'त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् । धर्मो धर्मप्रवृत्तानां
कामः कामोपसेविनाम्। अर्थोपजीविनामर्थो धृतिरुद्विग्नचेतसाम् ॥ नानाभावोप-
संपन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ एतद्रसेषु
भावेषु सर्वकर्मक्रियासु वा।सर्वोपदेशजननं नाट्यमेतद्भविष्यति॥न तज्ज्ञानं न तच्छिल्-
रूपं नासौ विद्या न सा कला । नासौ योगो न तत्कर्म नाट्यऽस्मिन्यन्न दृश्यते ॥'इति॥
आर्य, वन्दे॥ आर्य, देवी पृच्छति। अप्युपदेशग्रहणे नातिक्लिश्यति वः शिष्या मालवि-
केति॥ यद्यदित्यादि । प्रयोगविषयेऽभिनयार्थे मया तस्यै मालविकायै यद्यद्भाविकं
भाववत् । 'अत इनिठनौ' इति ठन्। नृत्यमित्यर्थः । यथोक्तम्—'अङ्गिकामिनयप्राय-
मल्पवाचिकासात्विकम् । भावानामास्पदं नृत्यं पदार्थव्यञ्जनात्मकम् ॥' इति । उप-
दिश्यते बोध्यते । तत्तद्विशेषकरणात्तस्य तस्य भाविकस्य विशेषेणातिशयेन करणं
निर्वर्तनं मे तस्मात्सा बाला प्रत्युपदिशतीव प्रतिबोधयतीव । अनेन तस्या नृत्ये
प्रावीण्यातिशयो गम्यते॥अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या।
यस्यां गुरुजन एवं तुष्यति ॥ अस्ति देव्या वर्णवरो भ्राता वीरसेनो नाम भर्त्रा