मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 15, कुल 111 में से
संदर्भ में पढ़ें१२ मालविकाग्निमित्रे
अमात्यः—तथा (इति निष्क्रान्त )
(परिजनो यथाव्यापारं राजानमभितः स्थितः ।)
(प्रविश्य ।)
विदूषकः—आणत्तोम्हि तत्तभवदा रण्णा । गोदम, चिन्तेहि
दाव उवाअं । जहा मे जदिच्छादिट्ठपदिकिदी मालविआ पच्छक्ख-
दंसणा होदित्ति । मए अ तत्तहा किदं । दाव से णिवेदेमि । (इति
परिक्रामति ।)
राजा—(विदूषकं दृष्ट्वा ।) अयमपरः कार्यान्तरसचिवोऽस्मा-
नुपस्थितः ।
विदूषकः—(उपगम्य ।) वड्ढदु भवं ।
राजा—(सशिरःकम्पम् ।) इत आस्यताम् ।
(विदूषक उपविष्टः ।)
राजा—अपि किंचिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः ।
विदूषकः—३ पओअसिद्धिं पुच्छ ।
१. आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय तावदुपायम् ।
यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया च
तत्तथा कृतम् । तावदस्मै निवेदयामि ।
२. वर्धतां भवान् ।
३. प्रयोगसिद्धिं पृच्छ ।
हि सत्यमेव । भविष्यतीति शेषः। हिशब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः ।
इदमेव वैदर्भस्य कार्यविनिमयरूपमेव वचनं वाक्यं निमित्तं हेतुमुपादायावलम्ब्य
समुद्योज्यतां प्रत्याचर्य्यताम् ॥ आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय ता-
वदुपायम् । यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया
च तत्तथा कृतम् । तावदस्मै निवेदयामि । अत्र गम्यमानं राज्ञो मालविकादर्शनौ-
त्सुक्यमारम्भो नाम प्रथमावस्थेति मन्तव्यम्। अत्र बीजारम्भयोः समन्वयान्मुख-
संधिरित्यनुसंधेयम्॥वर्धतां भवान् ॥ उपेयोपायदर्शने उपेयस्य साध्यस्य मालविका-
साक्षाद्दर्शनस्योपायदर्शने साधनज्ञाने ते प्रज्ञाचक्षुः प्रतिभादृष्टिः किंचिदीषदपि व्या-
पृतं प्रसृतम् । अपिः प्रश्ने । अत्र गम्यमानस्य मालविकारूपस्य बीजस्य विन्यासा-
दुपेक्षेपो नाम संध्यङ्गमुक्तं भवति ॥ प्रयोगसिद्धिं पृच्छ॥कर्णे । एवमिव । एतद्वचनं