कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( ५६ )
उडुपतेः रश्मयः च तस्याः पारणाविधिः बभूव किल, वृत्तवृत्तिव्य-
तिरिक्तसाधनः ( पारणाविधिः ) न ( बभूव ) ॥ २२ ॥
NOTES :- अयाचितोपस्थितम्—न याचितं अयाचितं
( अप्रार्थितं ), अयाचितं च तदुपस्थितं ( प्राप्तं ) अयाचितोपस्थि-
तम् which came to her without begging or any other
effort on her part उपस्थितं - ( उप + √स्था + क्तः ) उपन-
तम् Came to her अम्बु = जलं water. Decline as-अम्बु,
अम्बुनी, अम्वूनि । अम्बु, अम्बुनी, अम्बूनि । अम्बुना, अम्बुभ्यां,
अम्बुभिः । etc. It means rain-water and dew-water
which are obtained without any effort रसात्मकस्य-
रसः ( जलं ) आत्मा यस्य सः, तस्य । जलमयस्य consisting of
water The moon is supposed to be full of water on
account of its cooling rays रस also means ' nectar '
In that case it would mean ' full of nectar ', Cf. the
name सुधाकर of the moon रसात्मक-( रस + आत्मन् +
कन् ) The कन् suffix is optionally added to some
particular words when they form the latter member
of a Bahuvrihi compound Cf. ' शेषाद्विभाषा ' पा०
५.४.१५४ उडुपतेः- उडूनां ( नक्षत्राणां ) पतिः, तस्य the lord
of constellations, i. e., the moon. Note the Genitive
Sing form of उडुपति is उडुपतेः and not उडुपत्युः । The
word पति at the end of a compounded word is declined
like हरि and not like पति e g. उडुपतिना ( तृतीया )
उडुपतये ( चतुर्थी ) उडुपते ( पञ्चमी, षष्ठी ) उडुपतौ ( सप्तमी ) ।
पारणाविधिः-पारणा or पारणा means ' eating or drinking
after a fast ' or simply ' food ' Mallinatha has taken
( ५७ )
it in the latter sense, but it may be taken in its
technical sense also, because Parvati used to observe
fast daily. पारणायाः विधिः पारणाविधिः or पारणैव विधिः
पारणाविधिः—भोजनं व्रतान्तर भोजनं वा । किल—It gives
the sense that it is so mentioned in the Puranas and
such other books. वृत्तवृत्तिव्यतिरिक्तसाधनः । वृत्तिः—जीव-
नोपायः livelihood; subsistence. व्यतिरिक्तं—( वि + अति +
√रिचिर् + क्तः ) भिन्न different. वृक्षाणां वृत्ते व्यतिरिक्तं
साधनं यस्य सः वृत्तवृत्तिव्यतिरिक्तसाधन the means of which
were ( not ) different from the subsistence of trees.
It is an Adjective of पारणाविधिः and means that
Parvati's food consisted of the same things and was
obtained in the same manner as that of trees. 22
CHANGE OF VOICE —अयाचितोपस्थितेन केवलेन अम्बुना
रसात्मकस्य उडुपते रश्मिभिश्च तस्याः पारणाविधिना बभूवे
किल, वृत्तवृत्तिव्यतिरिक्तसाधनेन न ( बभूवे ) ॥ २२ ॥
HINDI TRANSLATION :—बिना मांगे ही प्राप्त हुआ केवल
पानी तथा जलमय चन्द्रमा की किरणें उसका भोजन
था; (उसके भोजन का) साधन वृक्षों के भोजन से भिन्न न
था ॥ २२ ॥
ENGLISH TRANSLATION :—Only the water that came
to her without begging and the rays of the moon
(lit. Lord of the constellations), full of nectar, formed
her food, the means of which were not different from
those by which trees subsist. 22
PURPORT IN SANSKRIT :—पार्वती स्वजीविकोपार्जनार्थं
( ५८ )
कमपि यत्न न कुरुते स्म, तस्याः भोजनञ्च वृक्षाणामाहारवदति-
साधारणमभूत् । यथा हि वृक्षा केवलं वर्षाजलं चन्द्रकिरणांश्चाप-
भुज्य जीवनं धारयन्ति एवमेव सापि याचनां विनैव प्राप्तेन
जलेनामृतमयैश्च चन्द्रमसो रश्मिभिश्च व्रतान्तभोजनं कृतवती ।
एवं तया वृक्षवृत्तितपः प्रारब्धमिति कविना प्रदर्शितम् ॥ २२ ॥
निकामतप्ता विविधेन वह्निना
नभश्चरेणेन्धनसंभृतेन सा ।
तपात्यये वारिभिरुक्षिता नवै-
र्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ २३ ॥
निका मेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण ।
आदित्यरूपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना । निकाम-
तप्ता निकामं अत्यन्तं तप्ता सा अम्बिका तपात्यये ग्रीष्मान्ते ।
प्रावृषीत्यर्थः । नवैः वारिभिः उक्षिता सिक्ता सती भुवा पञ्चाग्नि-
तप्तया सह ऊर्ध्वगं ऊर्ध्वप्रसृतं ऊष्माणं बाष्पं अमुञ्चत् । 'ग्रीष्मोष्म-
वाष्पा ऊष्माणः ' इति यादवः ॥ २३ ॥
PROSE ORDER — नभश्चरेण इन्धनसंभृतेन विविधेन वह्निना
निकामतप्ता सा तपात्यये नवैः वारिभिः उक्षिता ( सती ) भुवा सह
ऊर्ध्वगं ऊष्माणं अमुञ्चत् ॥ २३ ॥
NOTES •—नभश्चरेण—नभसि ( आकाशे ) चरति इति
नभश्चरः, तेन which wanders or moves in the sky i e.,
the sun. इन्धनसंभृतेन । संभृत—(सम्+√भृञ्+क्त ) प्रदीप्त
kindled or lighted. Lit. fed or maintained इन्धनेन
संभृतः, तेन kindled by fuel, i e ordinary fire. विविधेन
( ५६ )
—नानाप्रकारेण Various, i. e., the five fires referred
to in the 20th shloka above. Some books read द्विविधेन
in place of विविधेन which means 'twofold', i. e., one in
the sky and the other on earth which is maintained
with fuel. This seems to be a better reading, because,
though five in number they are of two kinds only.
वह्निना—अग्निना । It is used in the sense of things
'possessing heat'. निकामतप्ता—निकामं ( अत्यर्थं ) तप्ता,
निकामतप्ता extremely heated. तपात्यये-तपस्य ( ग्रीष्मर्तोः)
अत्ययः ( नाश ), तस्मिन् At the end of the summer. तपः
the summer. Cf 'निदाघ उष्णोपगम उष्णा ऊष्मागमस्तप'
इत्यमरः । अत्ययः—( अति + √ इण् + अच् ) disappearance.
नवैः— नूतनैः fresh, i. e., the first waters of rainy season.
उक्षिता—( √ उक्ष् + क्त + था ) सिक्ता drenched. भुवा सह—
with the earth. Decline भू as भूः, भुवौ, भुवः । भुवं, भुवौ,
भुवः । भुवा, भूभ्यां, भूभिः etc. सह and other particles
expressing 'accompaniment' govern the Instrumental
case. Cf- 'सहयुक्तेऽप्रधाने' पाणिनि २ ३ १६ । ऊर्ध्वगम्—
(√ गम् + डः = गः) ऊर्ध्वं गच्छतीति, तम् which goes upwards.
ऊष्माणम्—उष्णतां heat. Just as vapour comes out of
the earth when drenched with the fresh showers of the
rainy season, so did it arise from the body of Parvati
which had been heated by the five fires. This shows
that her body was heated very much, so much so that
it turned water into vapour. 23.
CHANGE OF VOICE :—नभश्चरेण इन्धनसंभृतेन द्विविधेन
( ६० )
वह्निना निकामतप्तया तया तपात्यये नवैः वारिभिः उक्षितया भुवा
सह ऊर्ध्वगः ऊष्मा अमुच्यत ॥ २३ ॥
HINDI TRANSLATION :—आकाश में चलने वाली तथा
ईंधन से जलनेवाली नाना अग्नियों से अत्यधिक तपायी हुई वह
(पार्वती), ग्रीष्म ऋतु के अन्त मे (वर्षा के) प्रथम पानी से
सींची हुई पृथिवी के साथ ऊपर को जाने वाली गर्मी (अर्थात्
भाप) छोड़ती थी ॥ २३ ॥
ENGLISH TRANSLATION —She, extremely heated by
various fires - the one wandering in the sky and the
others maintained by means of fuel—when drenched
with the fresh waters at the end of the summer, gave out,
along with the earth, heat that ascended upwards 23.
PURPORT IN SANSKRIT :—यथा ग्रीष्मर्तौ सूर्यातपेनामितप्ता
पृथिवी वर्षागम्भे जलसिक्ता सती वाष्पं मुञ्चति तच्च पृथिव्या
ऊर्ध्वं याति, तथैव पञ्चाग्नितप आचरन्ती पार्वती सूर्यातपेन चतसृषु
दिक्षु स्थापितैर्वह्निभिश्च निकामं तप्ता वर्षाप्रारम्भे जलसिक्ता सती
ऊर्ध्वगामिबाष्पं त्यजति स्म ॥ २३ ॥
स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे
चिरेण नाभिं प्रथमोदविन्दवः ॥ २४ ॥
स्थिता इति । प्रथमोदबिन्दवः उदकस्य बिन्दवः उदकविन्दवः ।
‘मन्थौदन०’ इत्यादिनाेदकशब्दस्योदादेशः । प्रथमे उदबिन्दवः ।
प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते ।
तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः । तस्याः पार्वत्याः पक्ष्मसु
नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां
( ६१ )
सान्द्रत्वं क्षणमिति स्नैग्ध्यं च गम्यते । अनन्तरं ताडिताधरास्ता-
डितो व्यथितोऽधर ओष्ठो यैस्ते तथोक्ताः । एतेनाधरस्य मार्दवं
गम्यते । ततः पयोधरोत्सेधनिपातचूर्णिताः पयोधरयोः स्तनयोः
उत्सेधे उपरिभागे निपातेन पतनेन चूर्णिताः जर्जरिताः । कुचका-
ठिन्यादिति भावः । तदनु वलीषु उदररेखासु स्खलिताः ।
निम्नोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रति-
बन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टाः । न तु
निर्जग्मुः । एतेन नाभेर्गाम्भीर्यं गम्यते । अत्र प्रतिपदमर्थवत्वात्परि-
करालङ्कारः ॥ २४ ॥
PROSE ORDER :—प्रथमोदबिन्दवः क्षणं तस्याः पक्ष्मसु
स्थिताः, ताडिताधराः, पयोधरोत्सेधनिपातचूर्णिता वलीषु
स्खलिताः नाभि चिरेण प्रपेदिरे ॥ २४ ॥
NOTES :—प्रथमोदबिन्दवः—प्रथमे(नवाः) उदकस्य(जलस्य)
बिन्दवः (कणाः) प्रथमोदबिन्दवः drops of first water. उदक
is optionally changed to उद् when followed by मन्थ,
ओदन, सक्तु, बिन्दु etc. Cf. 'मन्थौदनसक्तुविन्दुबज्रभारहार-
वीवधगाहेषु च' पा० ६. ३. ६० । पक्ष्मसु—नेत्रलोमसु at the eye-
lashes. पक्ष्मन् is declined as पक्ष्म, पक्ष्मणी, पक्ष्माणि etc.
स्थिता.—rested This shows that her eyelashes were
dense, which is a sign of beauty, and the adverb क्षणं
indicates that they were also smooth. ताडिताधराः—
ताडितः अधरो यैस्ते which struck against the lower lip.
पयोधरोत्सेधनिपातचूर्णिताः । उत्सेधः—( उत्—√सिध् to go
+घञ् ) उन्नतिः height, elevation ; bigness ; protrusion.
पयोधरयोः (स्तनयोः) उत्सेधे (उन्नतप्रदेशे) निपातेन चूर्णिताः
broken on account of their falling on the elevation of
कु० सं०—६
( ६२ )
her breasts. This indicates that her breasts were
quite elevated and hard वलीषु—उदरस्थितासु रेखासु
at the folds or wrinkles. स्खलिताः—निरुध्य पतिताः
stumbling through. नाभिं—navel चिरेण—विलम्बेन after
a long delay. It is an indeclinable word and not the
Instrumental Sing. The drops reached her navel after
a long delay, because they had to meet with so many
obstructions in the way. प्रपेदिरे—( प्र+√पद् to go+
लिट् ) प्राप्ताः reached. Conjugate as—पद्यते ( लट् ) अपद्यत
( लङ् ) पत्स्यते ( लृट् ) अपादि ( लुङ् ) etc. In this shloka
the poet has described the natural path of the drops
of rainy showers that fell on Parvati when she sat
in the open By the way it has given him an occasion
to suggest the excellence of the various limbs of
Parvati.
This verse is a good example of परिकर अलङ्कार,
' in which many significant epithets or adjectives are
employed one after the other to give force to a
statement, Cf. ' उक्तैः विशेषणैः साभिप्रायैः परिकरो मतः । '
साहित्यदर्पणम् ।
CHANGE OF VOICE :—प्रथमोदबिन्दुभि क्षणं तस्याः पक्ष्मसु
स्थितैः, ताडिताधरैः, पयोधरोत्सेधनिपातचूर्णितैः, वलीषु स्खलितैः
नाभिः चिरेण प्रपेदे ॥ २४ ॥
HINDI TRANSLATION :—( वर्षा ) जल की प्रथम बूंदें कुछ
देर के लिये उसकी आँखों के बालों में ठहर कर ( फिर ) नीचे
( ६३ )
के ओठ से टक्कर खाकर ( तत्पश्चात् ) स्तनों की ऊँचाई पर
गिरने से छिन्न भिन्न हुई ( इसके बाद पेट की ) वलों में
फिसलती हुई नाभि में बड़ी देर में पहुँचती थीं ॥ २४ ॥
ENGLISH TRANSLATION —The drops of first water
rested for a moment on her eyelashes, ( then )
struck against her lower lip, broke by falling on the
elevation of her breasts, ( and then ) stumbling
through the folds ( of her belly ), reached her navel
after a long delay. 24
PURPORT IN SANSKRIT :—यदा हि तपः कुर्वन्ती पार्वती
असंवृते स्थाने निषीदति स्म तदा तदुपरि निपतिताः वर्षाजलस्य
बिन्दवः पूर्वं तदक्षिलोमसु निरम्य किञ्चित्कालं तत्र विश्रामं प्रापुः,
ततो भ्रष्टा अधरे पतिताः, ततो निपत्य कुचयोश्छिन्नतां गताः, पुनः
निम्नस्थानाभिमुखीभूनास्तदुदरप्रदेशस्य वलीषु स्खलन्तो दीर्घकालेन
तस्या नाभि प्राप्ताः तस्याश्च गाम्भीर्यात्तत्रैव स्थितिमकुर्वन् । एतेन
पार्वत्याः नेत्रलोम्नां घनत्वं, अधरस्य सौकुमार्यं, स्तनयोः काठिन्यं,
उदरप्रदेशस्य निम्नोन्नतत्वं, नाभेश्च गाम्भीर्यं व्यज्यते ॥ २४ ॥
शिलाशयां तामनिकेतवासिनीं
निरन्तरास्वान्तरवातवृष्टिषु ।
व्यलोकयन्नुन्मिषितैस्तडिन्मयै-
र्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥ २५ ॥
शिलाशयामिति । निरन्तरासु नीरन्ध्र सु अन्तरे मध्ये वातो यासां
तादृश्यो या वृष्टयस्तासु अन्तरवातवृष्टिषु । न निकेते गृहे वसतीति
अनिकेतवासिनीम् । अनावृतदेशवासिनीमित्यर्थः शिलायां शेत
इति शिलाशयां शिलातलशायिनीम् । ' अधिकरणे शेतेः' इत्यच्
( ६४ )
प्रत्ययः । तां पार्वतीं महातपः साक्ष्ये साक्षाद्द्रष्टा साक्षी । ' साक्षा-
द्द्रष्टरि संज्ञायाम् ' इतीनि प्रत्ययः । तस्य कर्म साक्ष्यम् । महा-
तपसः साक्ष्ये स्थिताः क्षपाः तडिन्मयै विद्युद्रूपैः उन्मिषितैः
अवलोकनैः व्यलोकयन् इव । इवेति चक्षुषा विलोकनमेवात्प्रेक्ष्यते ।
साक्ष्यं तु ' आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं
यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य
वृत्तम् । ' इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् ॥ २४ ॥
PROSE ORDER :—निरन्तरासु अन्तरवातवृष्टिषु अनिकेत-
वासिनीं शिलाशयां तां महातपःसाक्ष्ये स्थिताः क्षपाः तडिन्मयैः
उन्मिषितैः व्यलोकयन् इव ॥ २४ ॥
NOTES :—निरन्तरासु – निर्गतं ( दूरीभूतं ) अन्तरं ( मध्यं )
याभ्यः, ताः, तासु Continuous, ceaselessly falling Adjec-
tive of वृष्टिषु । अन्तरवातवृष्टिषु—अन्तरे ( मध्ये ) वातो
( वायु :) यासां ता अन्तरवाताः i. e. accompanied by winds.
अन्तरवाताश्च ताः वृष्टयः अन्तरवातवृष्टयः ( कर्मधारयः ) तासु
showers accompanied by winds. अनिकेतवासिनीम् ।
वासिनी—( √वस्+णिनि.+ङीप् ) dwelling न निकेते
वसतीत्यनिकेतवासिनी, ताम् not living in a house or shel-
tered roof, i. e., who lived in an open space शिलाशयां –
शिलायां शेते इति शिलाशया, तां who slept on a slab of stone.
शयः is formed by adding अच् to √ शी to sleep, by ' अधि-
करणे शेतेः' पा० ३ २ १४ । It was necessary for Parvati
to live in such a way while performing penance. महातपः
साक्ष्ये । साक्ष्यं – साक्षिणः कर्म साक्ष्यं ( साक्षिन्+ष्यञ् ) the
act of a witness The word साक्षिन् is formed by ' साक्षाद्
द्रष्टरि संज्ञायाम् ' पा० ५. २ ११। in the sense of one
( ६५ )
who sees a thing with his own eyes महतः तपसः साक्ष्ये
इति महातपःसाक्ष्ये doing the work of witnesses of the
rigid penance स्थिताः—i. e doing the duty of. क्षपाः—
रात्रयः nights ‘ निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ’
इत्यमरः । As Parvati used to perform meditation in
loneliness, even her friends being absent at the time,
it behoves alright that nights have been described as
witnesses of her penance. तडिन्मयै.—( तडित् + मयट् )
विद्युद्रूपैः made of lightning ‘ तडित्सौदामिनीविद्युच्चञ्चला
चपला अपि ’ इत्यमरः । The suffix मयट् is added in the
sense of ‘made of’ or ‘in the form of’ by ‘तत्प्रकृत-
वचने मयट् ’ पा० ५ ४ २१ । As nights have no actual eyes,
lightning has been quite properly mentioned as their
glances उन्मिषितैः—( उत् + √मिष् to open the eyes +
क्तः ) अवलोकनैः by means of glances व्यलोकयन्—( वि +
√लोक् to see + लङ् ) looked इव is used as a mark of
‘ Imagination.’ The flashes of lightning are imagined
as the twinklings of the eyes of the night 25.
CHANGE OF VOICE :—निरन्तरासु अन्तरवातवृष्टिषु अनि-
केतवासिनी शिलाशया सा महातपःसाक्ष्ये स्थिताभिः क्षपाभिः
तडिन्मयैः उन्मिषितैः व्यलोक्यत इव ॥ २५ ॥
HINDI TRANSLATION :—लगातार होने वाली, हवा के
झोकों से युक्त वर्षा में खुले में रहने वाली, पत्थर की चट्टान पर
सोने वाली उस ( पार्वती ) को, उसकी कठिन तपस्या के साक्षी
का कार्य करती हुई रात्रियाँ मानो विद्युत् रूप दृष्टियों से देखती
थीं ॥ २५ ॥
( ६६ )
ENGLISH TRANSLATION :- The nights, which served as
witnesses of the rigid penance of her, who slept on a
slab of stone, (and) who did not live in a sheltered
roof in the midst of unceasing showers accompanied
by winds, watched her, as it were, with their glances
in the form of (flashes of) lightning 25
PURPORT IN SANSKRIT :— प्रावृषि सततं वर्षासु जाय-
मानासु, प्रबलवायौ प्रवाति, विद्युत्सु चाभियोतमानास्वपि
समाधिमग्ना पार्वती शिलास्वेवानादृतप्रदेशे निषीदति स्म । तादृशे
कालेऽन्यदर्शकाभावात् कविरुत्प्रेक्षते यद्रात्रय एव विद्युद्रूपैर्नेत्रैः
साक्षिणत् तामवलोकयन् ॥ २५ ॥
निनाय सात्यन्तहिमोत्किरानिलाः
सहस्यरात्रीरुदवासतत्परा ।
परस्पराक्रन्दिनि चक्रवाकयोः
पुरो वियुक्ते मिथुने कृपावती ॥ २६ ॥
निनायेति । सा पार्वती । अत्यन्तहिमोत्किरानिलाः उत्किरन्ति
क्षिपन्ति इत्युत्किराः । 'इगुपधज्ञा' इत्यादिना कः । अत्यन्तं
हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः ।
'पौषे तैषसहस्यौ द्वौ' इत्यमरः । उदवासतत्परा उदके वास
उद्वासः । 'पेषंवासवाहनादिषु च' इत्युदादेशः । उद्वासे तत्परा
आसक्ता तथा । परस्पराक्रन्दिनि परस्परमाक्रन्दिन्यन्योन्यमाक्रो-
शिनि पुरः अग्रे वियुक्ते विरहिणि । वियोगं प्राप्ते इति यावत् ।
चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोः चक्रवाकयोः मिथुने
द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव
इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः ।
'अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः ।' इति मनुः ॥ २६ ॥
( ६७ )
PROSE ORDER :—सा अत्यन्तहिमोत्किरानिलाः सहस्यरात्रीः
उदवासतत्परा पुरः वियुक्ते परस्पराक्रन्दिनि चक्रवाकयोः मिथुने
कृपावती ( सती ) निनाय ॥ २६ ॥
NOTES :—अत्यन्तहिमोत्किरानिलाः । उत्किरा- ( उत्+
√कॄ to scatter+कः) उत्किरन्ति ( उत्क्षिपन्ति ) इत्युत्किराः
Scattering The suffix is added by 'इगुपधज्ञाप्रीकिरः
कः' पा० ३.१ १३५ । अत्यन्तं हिमानां ( तुषाराणां ) उत्किराः
अनिलाः यासु ताः, अत्यन्तहिमोत्किरानिलाः the nights of
which scattered frost in abundance It is Accusative
plural and adj of रात्रीः। सहस्यरात्रीः—सहस्यस्य ( पौष-
मासस्य ) रात्रीः the nights of Pausha Here it stands
for cold season. 'पौषे तिष्यसहस्यौ द्वौ' इत्यमरः। उदवा-
सततत्परा—उदके वासः, तत्र तत्पर ( स परो यस्याः सा तत्परा )
given to standing in water; eagerly engaged in
standing in water. उदक is replaced by उद् before पेषं,
वास etc. पेषंवासवाहनाधिषु च' पा० ६.३ ५७ । Similarly is
formed उदधिः (ocean). Standing in water forms an
important part of penance in cold season. पुरः—in
her front. वियुक्ते—वि+√युज्+कः) विरहिते separated.
परस्पराक्रन्दिनि । परस्परं is a Reciprocal Pronoun formed
by the rule 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' i e, the
pronouns अन्य, पर, इतर and उत्तर are doubled when
reciprocity of action is expressed, and स् replaces the
case of the first part of अन्य and पर and does not dis-
appear in a compound. These are generally used in
the singular and also adverbially. परस्परम् आक्रन्दतीति
( ६८ )
परस्पगाक्रन्दि, तस्मिन् ( आ + √क्रन्द् + णिनिः ) crying for
each other चक्रवाकयोः—चक्रवाकी च चक्रवाकश्च चक्रवाकौ,
तयोः of Chakravakas चक्रवाकयाः means the couple of
Chakravakas i e male and female both The compound
is एकशेष द्वन्द्व । In the case of masculine and feminine
genders the one of the masculine gender is retained.
‘पुमान् स्त्रिया’ पा० १ २.६७ । The couples are said to
be separated and to mourn during night. मिथुने—युगले
pair कृपावती—(कृपा + मतुप् + ङीप्) दयावती possessed of
mercy The म of the termination मतुप् is changed to
व when affixed to words ending in म् or अ, short or
long, or having either for their penultimate. निनाय—
( √नी + लिट् ) यापयामास passed Its object is रात्रीः ।
Having described how did Parvati practise penance
in the hot and the rainy seasons, in this and the
following verse the poet describes the way in which
Parvati practised penance in the cold season. 26.
CHANGE OF VOICE :—तया अत्यन्तहिमोत्किरानिलाः
सहस्यरात्रयः उदवासतत्परया पुरः वियुक्ते परस्पगाक्रन्दिनि चक्र-
वाकयो. मिथुने कृपावत्या ( सत्या ) निन्यिरे ॥ २६ ॥
HINDI TRANSLATION :—वह ( पार्वती ) अत्यधिक बर्फ़
बरसाने वाली वायु से युक्त पौष मास की रात्रियों को पानी में
खड़ी हुई, ( अपने ) सामने के विरही, एक दूसरे के लिये
चिल्लाते हुए चक्रवाक के जोड़े के लिये दया का अनुभव करती
हुई, बिताती थी ॥ २६ ॥
( ६६ )
ENGLISH TRANSLATION —Eagerly engaged in stand-
ing in water she passed the nights of Pausha in which
the winds scattered snow in abundance, pitying the
pair of the Chakravaka birds which were ) before her,
separated and crying for each other 26
PURPORT IN SANSKRIT :—ग्रीष्मे प्रावृषि च पार्वतीकृतं
तपो वर्णयित्वा कविस्तद्धैमन्तमाचरणं दर्शयति-पार्वती तुषारकण-
पूरितवातप्रचुरासु पौषमासस्य शीतनिशास्वपि जले समाधि-
मातिष्ठति स्म । तासु निशासु चक्रवाकयोर्मिथुनादृते नान्यः कोऽपि
तत् समीपवर्त्यासीत्—चक्रवाकयोर्युगलं च विरहवेदनापीडि-
तत्वात् अन्योन्यमाह्वयति स्म पार्वती च तस्मिन् युगले दयामन्व-
भूत् ॥ २६ ॥
मुखेन सा पद्मसुगन्धिना निशि
प्रवेपमानाधरपत्रशोभिना ।
तुषारवृष्टिक्षतपद्मसंपदां
सरोजसंधानमिवाकरोदपाम् ॥ २७ ॥
मुखेनेति । सा पार्वती निशि रात्रौ पद्मसुगन्धिना पद्मवत्सुग-
न्धिना सुरभिणा । ‘ गन्धस्येत् ’—इत्यादिनेकारः । प्रवेपमानाधर-
पत्रशोभिना प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्रं दलं तेन
शोभते इति तथोक्तेन मुखेन तुषारवृष्टिक्षतपद्मसंपदां तुषारवृष्ट्या
तुहिनवर्षेण क्षताः नाशिताः पद्मसंपदो यासां तासां अपां सरोज-
संधानं पद्मसंघट्टनं अकरोद् इव । इत्युत्प्रेक्षालङ्कारः । पद्मान्तरं
तुहिनेना ऽहन्यते तन्मुखपद्मं तु न तथेति व्यतिरेकालङ्कारो व्यज्यते
इत्युभयोः संकरः ॥ २७ ॥
( ७० )
PROSE ORDER :—सा निशि पद्मसुगन्धिना प्रवेपमानाधर-
पत्रशोभिना मुखेन तुषारवृष्टिक्षतपद्मसंपदां अपां सरोजसंधानं
अकरोद् इव ॥ २७ ॥
NOTES —पद्मसुगन्धिना—शोभनो गन्धो यस्मिंस्तत् सुगन्धि
(सुरभि) fragrant. गन्ध becomes गन्धि in a Bahuvrihi
compound when preceded by उत्, पूति and सु ‘गन्धस्ये-
दुत्पूतिसुसुरभिभ्यः’ पा० ५।४।१३५। पद्मेन इव सुगन्धिना
पद्मसुगन्धिना which was as fragrant as the lotus प्रवेप-
मानाधरपत्रशोभिना। प्रवेपमानः—(प्र+√वेप्+शानच्) प्रकम्प-
मानः trembling अधरपत्रं—अधरः एव पत्र leaf-like nether
lip. पत्र means a petal of lotus प्रवेपमानेन अधरपत्रेण
शोभते इति प्रवेपमानाधरपत्रशोभि, (√शुभ् दीप्तौ+णिनिः) तेन
which shone with the quivering leaf of the nether lip.
The whole face being compared to a lotus, the lips
may rightly be compared to its petals तुषारवृष्टिक्षतपद्म-
संपदां—तुषारस्य (तुहिनस्य—हिमस्य) वृष्ट्या क्षताः (नाशिताः)
पद्मान्येव सम्पदौ यासां ताः, तासां the wealth of lotuses of
which was destroyed by the showers of frost The
comp. is an adj of अपां—waters The word अप् is
declined only in plural and in feminine gender आपः।
अपः। अद्भिः। अद्भ्यः। अद्भ्यः। अपाम्। अप्सु। Cf ‘आपः
सुमनसो वर्षाः अप्सराः सिकताः समाः। एते स्त्रियां बहुत्वे स्युरे-
कत्वेप्युत्तरत्रयम्।’ सरोजसन्धानम्। सरोजं—सरसि जातम्
(√जन्+डः) a lotus सरोजानां सन्धानं (संघट्टनं) सरोज-
सन्धानं continuation (of the line) of lotuses The
lotuses of the water being withered by frost, her
( ७१ )
lotus-like face being reflected in the water served as a
substitute for them Some books read संतानं for संधा-
नम् । इव is used for उत्प्रेक्षालङ्कार ॥ २७ ॥
Change of Voice ॰—तया निशि पद्मसुगन्धिना प्रवेपमाना-
धरपत्रशोभिना मुखेन तुषारवृष्टिक्षतपद्मसंपदां अपां सरोजसंधानं
अक्रियत इव ॥ २७ ॥
Hindi Translation :—वह ( पार्वती ) रात्रि में कमल
के समान सुगन्ध युक्त, कांपते हुए (कमल के) पत्ते रूपी नीचे के
ओठ से सुशोभित मुख के द्वारा, कुहरे की वर्षा से नष्ट हुए
कमलों वाले पानी में मानों कमलों की परम्परा (सिलसिले) को
बनाती थी ॥ २७ ॥
English Translation —By her face, which was as
fragrant as the lotus and which shone with the quiver-
ing leaf of the lower lip, she at night showed as it were
the continuation of lotuses in the waters, the wealth
of lotuses of which was destroyed by the showers of
frost 27
Purport in Sanskrit —पार्वत्या मुख कमलवत् सुगन्ध-
पूर्णमासीत् तदीय कम्पमानेऽधरोष्ठश्च कमलदलतुल्यः शोभते
स्म । तस्मात्तन्मुखं रात्रौ जले प्रतिबिम्बतां गतं हिमपातेन नष्टानां
कमलानां स्थानपूर्त्तिमिवाकरोत्—कमलरहितमपि जलं तन्मुख-
प्रतिबिम्बैः कमलपूर्णमिवाभासतेत्यर्थः ॥ २७ ॥
स्वयंविशीर्णद्रुमपर्णवृत्तता
परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां
वदन्त्यपर्णेति च तां पुराविदः ॥ २८ ॥
२. सर्ग ४-५ (रति विलाप व पार्वती जी की तपस्या)
( ७२ )
स्वयमिति । स्वयंविशीर्णद्रुमपर्णवृत्तित्ता स्वयं विशीर्णानि
स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता
तपसः परा काष्ठा परमुत्कर्षो हि । ‘काष्ठोत्कर्षे स्थितौ दिशि’
इत्यमरः । तया देव्या पुनः तत् पर्णवर्तन अपि अपाकीर्णम् अपा-
कृतम् । अतः पर्णापाकरणाद्धेतोः । प्रियंवदां प्रियं वदतीति प्रियंवदा
ताम् । ‘प्रियवशे वदः खच्’ इति खच् प्रत्ययः । ‘अरुर्द्विपदजन्तस्य
मुम्’ इति मुमागमः । तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणा-
समयेऽविद्यमानं पर्णमत्तणं यस्याः सा अपर्णा इति वदन्ति च।
नामान्तरसमुच्चयश्चकारः । स्वयं प्रियंवदाः परेषामपि प्रिय-
वादभाजनानि भवन्तीति भावः । अत्र अपर्णाम् इत्यपपाठ इतिशब्दा-
भिहिते द्वितीयानुपपत्तेः । यथाह वामनः—‘निपातेनाप्यभिहिते
कर्मणि न कर्म विभक्तिः परिगणनस्य प्रायिकत्वात्’ इति ॥ २८ ॥
Prose Order:—हि स्वयंविशीर्णद्रुमपर्णवृत्तित्ता तपसः परा
काष्ठा, तया पुनः तदपि अपाकीर्णम्, अतः पुराविदः प्रियंवदां तां
अपर्णा इति च वदन्ति ॥ २८ ॥
Notes:—स्वयंविशीर्णद्रुमपर्णवृत्तित्ता । विशीर्ण—(वि + √शॄ
+क्तः) निपतितानि broken ; fallen. त of क्त is changed
to न and then to णा and ऋ of √शॄ is changed to ईर् ।
Similarly are formed जीर्णा, तीर्णा etc. वृत्तित्ता—वृत्तेः भावः
वृत्तित्ता (वृत्ति + ता) means of subsistence स्वयं विशीर्णानि
द्रुमाणां पर्णान्येव (पन्नाशयेव) वृत्तिः यस्मिन्, तस्य भावः स्वयं-
विशीर्णद्रुमपर्णवृत्तित्ता subsistence on leaves of trees fallen
of their own accord. To avoid injury to trees, an
ascetic would not pluck their leaves. परा—उत्तमा,
परमा the highest, extreme. काष्ठा—सीमा limit ‘काष्ठा
उत्कर्षे स्थितौ दिशि’ इत्यमरः । The expression means ‘the
( ७३ )
extreme limit ' or ' the sternest severity' i. e., beyond
which there is no other severity. अपाकीर्णम्—( अप+
आ+√कॄ+क्तः ) त्यक्तम् abandoned. The ordinary
meaning of √कॄ is 'to scatter', कीर्ण is formed like
जीर्ण above पुराविदः—( √विद्+क्विप् ) पुरा ( वृत्तम् )
विदन्ति ( जानन्ति ) इति पुराविदः who know history, i. e.
historians पुराविद् is declined like भूभृत् viz, पुराविद्,
पुराविदौ, पुराविदः etc. प्रियंवदां—( प्रिय+√वद्+खच् ) प्रियं
( मधुरं ) वदतीति प्रियंवदा, तां प्रियंवदाम् talking sweet. खच्
termination is affixed to √वद् by ' प्रियवशे वदः खच् '
पा० ३।२।३८ । and a nasal ( मुम् ) is inserted before the
root by ' अरुर्द्विषदजन्तस्य मुम् ' पा० ६।३।६७ । Although
bearing so much hardship, Parvati did not lose her
habit of sweet-speaking अपर्णा—न पर्णानि यस्याः सा
अपर्णा Aparna i. e., who had given up even eating of
leaves of trees. Although not without significance it
is a proper name of Parvati ' अपर्णा पार्वती दुर्गा मृडानी
चण्डिकाम्बिका ' इत्यमरः । Cf ' चतुर्थे त्यक्तपर्णा च अपर्णा-
ख्यामवाप सा ' शिवपुराणम् ॥२८॥
CHANGE OF VOICE :—हि स्वयंविशीर्णद्रुमपर्णवृत्तितया
तपसः परया काष्ठया ( भूयते ), सा पुनस्तदपि अपाकीर्णवती,
अतः पुराविद्भिः प्रियंवदा सा अपर्णा इति च उच्यते ॥ २८ ॥
HINDI TRANSLATION :—अपने आप गिरे हुए पेड़ों के
पत्तों से जीविका निर्वाह तप की अन्तिम श्रेणी है पर उसने वह
भी छोड़ दिया, इस लिये पुराणज्ञ उस मधुरभाषिणी को
'अपर्णा' कहते हैं ॥ २८ ॥
( ७४ )
English Translation .—The extreme limit of
austerities lies in subsisting on leaves of trees fallen
of their own accord, but that also was abandoned by
her ; therefore, those conversant with history also call
her, the sweet-talker, Aparna 28.
Purport in Sanskrit :—तपस्विनः क्रमशः दुग्धफलादी-
नामाहारं त्यक्त्वा स्वयं पतितानि वृक्षाणां पत्राण्येव भुक्त्वा जीवनं
यापयन्ति—एषैव तपस्याया अन्तिमावस्था वर्त्तते । परं मधुर-
भाषिण्या पार्वत्या दलानां भक्षणमपि त्यक्तमासीदत ऐतिहासस्कि-
कास्तां ‘अपर्णा’ इति संज्ञया व्यपदिशन्ति ॥ २८ ॥
मृणालिकापेलवमेवमादिभि-
र्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।
तपः शरीरैः कठिनैरुपार्जितं
तपस्विनां दूरमधश्चकार सा ॥ २९ ॥
मृणालिकेति । मृणालिकापेलवं पद्मिनीकन्दकोमलं स्व
स्वकीयं अङ्गं शरीरं एवमादिभिः एवमुक्तप्रकारतोयाग्निमध्यवास-
व्रतमादिर्येषां तैः व्रतैः । अहश्च निशा च अहर्निशम् । समाहारे
द्वन्द्वैकवद्भावः । अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती
सा पार्वती कठिनैः । क्लेशसहैिरित्यर्थः । शरीरैरुपार्जितं संपादितं
तपस्विनां ऋषीणां तपः दूरं अत्यन्तं अधश्चकार । अतिशिश्ये
इत्यर्थः । तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्प-
र्यार्थः ॥ २९ ॥
Prose Order .—एवमादिभिर्व्रतैः मृणालिकापेलवं स्वं अङ्गं
अहर्निशं ग्लपयन्ती सा तपस्विनां कठिनैः शरीरैः उपार्जितं तपः
दूरं अधः चकार ॥ २६ ॥
( ७५ )
NOTES —एवमादिभिः—एव आदिः येषां ते एवमादयस्तैः
एवमादिभिः by this and others एव refers to ' sitting
amidst five fires , living only on water , sitting in
an unsheltered place in the rainy season' etc., i. e., the
kinds of penances mentioned in the previous verses.
व्रतै —नियमैः by austerities. मृणालिकापेलवं-मृणालिकामिव
(बिसतन्तुमिव) पेलवं (कोमलं as delicate as a lotus-fibre.
अहर्निशं—अहश्च निशा च अहर्निशं day and night It is a
समाहार द्वन्द्व compound (which implies an aggregate or
the things enumerated in which constitute a complex
idea) It is always singular and neuter. ग्लपयन्ती—
(√ग्लै+णिच्+शतृ) causal (णिजन्त) present part. of
√ग्लै ' to be weary' श्रान्तं नयन्ती wearing तपस्विनां—
(तपस्+घिनिः) मुनीनां of other ascetics उपार्जितं (उप+
√अर्ज्+क्तः) संपादितं, सञ्चित lit acquired, practised.
दूर—अत्यर्थं distant, far, far away It is an adverb to
अधश्चकार—तिरश्चकार made low i e., excelled or
surpassed Even with her delicate frame Parvati
performed such penances as were very much
superior to those practised by other ascetics possessed
of hard bodies 29
CHANGE OF VOICE .—एवमादिभिः व्रतैः मृणालिकापेलवं
स्वं अङ्गं अहर्निशं ग्लपयन्त्या तया तपस्विनां कठिनैः शरीरैः
उपार्जितं तपः दूरं अधः चक्रे ॥ २६ ॥
HINDI TRANSLATION :—इस प्रकार के (कठोर) नियमों
से, बिस-तन्तुओं के समान कोमल अपने शरीर को रात दिन