कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 93, कुल 268 में से
संदर्भ में पढ़ें( ७४ )
English Translation .—The extreme limit of
austerities lies in subsisting on leaves of trees fallen
of their own accord, but that also was abandoned by
her ; therefore, those conversant with history also call
her, the sweet-talker, Aparna 28.
Purport in Sanskrit :—तपस्विनः क्रमशः दुग्धफलादी-
नामाहारं त्यक्त्वा स्वयं पतितानि वृक्षाणां पत्राण्येव भुक्त्वा जीवनं
यापयन्ति—एषैव तपस्याया अन्तिमावस्था वर्त्तते । परं मधुर-
भाषिण्या पार्वत्या दलानां भक्षणमपि त्यक्तमासीदत ऐतिहासस्कि-
कास्तां ‘अपर्णा’ इति संज्ञया व्यपदिशन्ति ॥ २८ ॥
मृणालिकापेलवमेवमादिभि-
र्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।
तपः शरीरैः कठिनैरुपार्जितं
तपस्विनां दूरमधश्चकार सा ॥ २९ ॥
मृणालिकेति । मृणालिकापेलवं पद्मिनीकन्दकोमलं स्व
स्वकीयं अङ्गं शरीरं एवमादिभिः एवमुक्तप्रकारतोयाग्निमध्यवास-
व्रतमादिर्येषां तैः व्रतैः । अहश्च निशा च अहर्निशम् । समाहारे
द्वन्द्वैकवद्भावः । अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती
सा पार्वती कठिनैः । क्लेशसहैिरित्यर्थः । शरीरैरुपार्जितं संपादितं
तपस्विनां ऋषीणां तपः दूरं अत्यन्तं अधश्चकार । अतिशिश्ये
इत्यर्थः । तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्प-
र्यार्थः ॥ २९ ॥
Prose Order .—एवमादिभिर्व्रतैः मृणालिकापेलवं स्वं अङ्गं
अहर्निशं ग्लपयन्ती सा तपस्विनां कठिनैः शरीरैः उपार्जितं तपः
दूरं अधः चकार ॥ २६ ॥