कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 77, कुल 268 में से
संदर्भ में पढ़ें( ५८ )
कमपि यत्न न कुरुते स्म, तस्याः भोजनञ्च वृक्षाणामाहारवदति-
साधारणमभूत् । यथा हि वृक्षा केवलं वर्षाजलं चन्द्रकिरणांश्चाप-
भुज्य जीवनं धारयन्ति एवमेव सापि याचनां विनैव प्राप्तेन
जलेनामृतमयैश्च चन्द्रमसो रश्मिभिश्च व्रतान्तभोजनं कृतवती ।
एवं तया वृक्षवृत्तितपः प्रारब्धमिति कविना प्रदर्शितम् ॥ २२ ॥
निकामतप्ता विविधेन वह्निना
नभश्चरेणेन्धनसंभृतेन सा ।
तपात्यये वारिभिरुक्षिता नवै-
र्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ २३ ॥
निका मेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण ।
आदित्यरूपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना । निकाम-
तप्ता निकामं अत्यन्तं तप्ता सा अम्बिका तपात्यये ग्रीष्मान्ते ।
प्रावृषीत्यर्थः । नवैः वारिभिः उक्षिता सिक्ता सती भुवा पञ्चाग्नि-
तप्तया सह ऊर्ध्वगं ऊर्ध्वप्रसृतं ऊष्माणं बाष्पं अमुञ्चत् । 'ग्रीष्मोष्म-
वाष्पा ऊष्माणः ' इति यादवः ॥ २३ ॥
PROSE ORDER — नभश्चरेण इन्धनसंभृतेन विविधेन वह्निना
निकामतप्ता सा तपात्यये नवैः वारिभिः उक्षिता ( सती ) भुवा सह
ऊर्ध्वगं ऊष्माणं अमुञ्चत् ॥ २३ ॥
NOTES •—नभश्चरेण—नभसि ( आकाशे ) चरति इति
नभश्चरः, तेन which wanders or moves in the sky i e.,
the sun. इन्धनसंभृतेन । संभृत—(सम्+√भृञ्+क्त ) प्रदीप्त
kindled or lighted. Lit. fed or maintained इन्धनेन
संभृतः, तेन kindled by fuel, i e ordinary fire. विविधेन