सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

( १५८ )
अपने हाथ से चित्रित महादेव को, एकान्त में, उलाहना
देती थी ॥ ५४ ॥
ENGLISH TRANSLATON :—" When, thou art declared
to be all-pervading by the wise ; how, dost thou know
not this person in love with you ?" thus was the
moon-crested ( Shiva ), drawn with her own hand,
upbraided in private by this foclish girl. 58.
PURPORT IN SANSKRIT :—निजमनोविनोदार्थं पार्वती
स्वप्रियस्य शिवस्य चित्रमुल्लिख्य तेन सह नानाप्रकारेण वार्त्ता-
लापं विदधत्यकथयत्—यत् ' हे शिव ! विद्वांसो जनास्त्वां
सर्वव्यापकं कथयन्ति, तर्हि त्वं मम हृदये विद्यमानोऽपि स्वविषयकं
मेऽनुरागं कथं न जानासि ? ' ॥ ५८ ॥
यदा च तस्याधिगमे जगत्पते-
रपश्यदन्यं न विधिं विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरो-
रियं प्रपन्ना तपसे तपोवनम् ॥ ५९ ॥
यदेति । जगत्पतेः तस्य ईश्वरस्य अधिगमे प्राप्तौ अन्यं विधिं
उपायं विचिन्वती मृगयमाणा यदा न अपश्यत् तदा इयं पार्वती
गुरोः पितुः अनुज्ञया अस्माभिः सह तपसे तपश्चरितुं तपोवनं
प्रपन्ना प्राप्ता च ॥ ५६ ॥
PROSE ORDER :—( अथ ) च जगत्पतेः तस्य अधिगमे
विचिन्वती यदा अन्यं विधिं न अपश्यत्, तदा गुरोः अनुज्ञया
अस्माभिः सह तपसे तपोवनं प्रपन्ना ॥ ५६ ॥
NOTES :—जगत्पतेः—जगतां ( संसारस्य ) पतिः जगत्पतिः,
तस्य जगत्पतेः of the Lord of the worlds. Compound

( १५१ )
nouns ending in पति are declined like हरि ; hence
जगत्पतेः and not जगत्पत्युः । अधिगमे—( अधि + √गम् +
अप् ) प्राप्तौ to obtain ; to win over. √गम् with अधि
means ‘ to obtain. ’ विचिन्वती—वि + √चिञ् + शतृ

  • ङीप् ) मृगयमाणा searching hard. विधिं—उपायं a
    means. Mark that विधि is Masculine and so are the
    words formed with the suffix किः e. g., उदधि etc.
    गुरोः—पितुः of her father. गुरुः गीष्पति पित्राद्यौ ’ इत्य-
    मरः । अनुज्ञया—आज्ञया with permission or consent.
    This is mentioned in verse 6 above. तपसे—तपः कर्त्तुं
    to practise penance. The Dative is used in the
    sense of infinitive. See notes on क्रियार्थ in verse 33.
    प्रपन्ना—( प्र + √पद् + क्तः ) प्राप्ता ; आगता came. 59.
    CHANGE OF VOICE :—( अथ ) च जगत्पतेः तस्य अधिगमे
    विचिन्वत्या ( तया ) यदा अन्यः विधिः न अदृश्यत, तदा
    गुरोः अनुज्ञया ( अनया ) अस्माभिः सह तपसे तपोवनं
    प्रपन्नम् ॥ ५६ ॥
    HINDI TRANSLATION :—फिर, जब संसार के स्वामी
    ( शिव ) की प्राप्ति के लिये खोज करती हुई ( उसने ) कोई
    दूसरा उपाय न देखा, तब पिता जी की आज्ञा लेकर तप करने
    के लिये हमारे साथ इस तपोवन में आगयी ॥ ५६ ॥
    ENGLISH TRANSLATION :—At last, when she searching
    hard to obtain the Lord of the worlds could find no
    other way, ( she ) with the permission of her father
    came with us to this penance forest for practising
    penance. 59.

( १६० )
PURPORT IN SANSKRIT —संसारस्वामिन शिवस्य
प्राप्त्यर्थे सा नानाविधानुपायानकरोत्, परं सर्वेषूपायेषु विफलेषु
सत्सु ' सर्वमपि तपसाधिगम्यम् ' इति विचारयन्ती पार्वती
पितुराज्ञामादाय स्वसखीभिरस्माभिः सार्धं तप आचरितुमिदं
तपोवनमागता ॥ ५९ ॥
द्रुमेषु सख्या कृतजन्मसु स्वयं
फलं तपःसाक्षिषु दृष्टमेष्वपि ।
न च प्ररोहाभिमुखोऽपि दृश्यते
मनोरथोऽस्याः शशिमौलिसंश्रयः ॥ ६० ॥
द्रुमेष्विति । सख्या पार्वत्या स्वयं कृतजन्मसु कृतं जन्म येषां
तेषु । स्वयं रोपितेष्वित्यर्थः । तप. साक्षिषु तपसः साक्षिषु साक्षात्
द्रष्टृषु एषु द्रुमेषु अपि फलं दृष्टं लब्धम् । जनितमित्यर्थ । अस्याः
पार्वत्याः च शशिमौलिसंश्रय चन्द्रशेखरविषयः मनोरथः तु
प्ररोहाभिमुखः अङ्कुरोन्मुखः अपि न दृश्यते । ' प्ररोहस्त्वङ्कुरः '
इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य
नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापास्तेत्यर्थ ॥ ६० ॥
PROSE ORDER :-सख्या स्वयं कृतजन्मसु तपःसाक्षिषु
एषु द्रुमेषु अपि फलं दृष्टम्, शशिमौलिसंश्रयः अस्याः मनोरथः
च प्ररोहाभिमुखः अपि न दृश्यते ॥ ६० ॥
NOTES :-सख्या-by our friend Parvati कृतजन्मसु-
कृतं जन्म येषां ते, तेषु which were given birth to , which
were planted ( by her ) तपःसाक्षिषु—तपः साक्षिषु which
have been the witness of her penance. For the
word साक्षिन् see notes on तपःसाक्ष्ये in verse 25

( १६१ )
above. The trees have been described as witnesses
of Parvati's penance because they were planted
just on her arrival in the forest and because they
remained by her side day and night during the
practice of penance शशिमौलिसंश्रयः। शशिमौलिः—शशः
अस्यास्तीति शशी ( शश + इनिः ) चन्द्रः, शशी मौलौ ( मस्तके )
यस्य or शशी मौलिः ( शेखर ) यस्य स शशिमौलिः ( शिव )
the moon-crested, i e, Shiva The word मौलि means
'head' as well as 'a crest', hence the compound may
be expounded in both the ways संश्रयः—( सं + √श्रि
+अच् ) संश्रीयते इति संश्रयः ( अवलम्बः ) basis, support.
शशिमौलिः संश्रया यस्य स शशिमौलि संश्रय which has as
its basis the moon-crested God मनोरथः—अभिलाषः
desire, craving of her heart i e the longing to win
Shiva प्ररोहाभिमुखः । प्ररोहः—( प्र + √रुह् + घञ् ) प्ररोहतीति
प्ररोहः ( अङ्कुरः ) a sprout ' प्ररोहस्त्वङ्कुरः ' इति
वैजयन्तीकोशः । प्ररोहस्य अभिमुखः प्ररोहाभिमुखः towards
sprouting ; about to sprout न दृश्यते— i e does not
seem to be showing signs of sprouting, she has
not even a distant hope of the fulfilment of her object.
The contrast between the plants and the desire of
Parvati is really poetic. 60
Change of Voice :—सख्या स्वयं कृतजन्मसु तपः
साक्षिषु एषु द्रुमेषु अपि ( वयं ) फल दृष्टवत्यः, ( परं )
शशिमौलिसंश्रयं अस्याः मनोरथं च प्ररोहाभिमुखं अपि न
पश्यामः ॥ ६० ॥

( १६२ )
HINDI TRANSLATION :—हमारी सहेली द्वारा अपने आप
लगाये हुए, तप के साक्षीभूत इन वृक्षों में भी फल लग गये,
( परन्तु ) शिव सम्बन्धी इसकी इच्छा अभी अङ्कुरित होने
वाली भी नहीं दीखती ॥ ६० ॥
ENGLISH TRANSLATION :—Fruits have been seen even
on these trees which were planted by our friend
herself and which have been the witnesses of her
austerities, but the longing of her heart, which has for
its basis the moon-crested God, does not seem even
about to sprout. 60.
PURPORT IN SANSKRIT :—तपश्चरन्त्या अस्याः पार्वत्या
दीर्घः कालो जातः । अत्रागत्य चानया स्वहस्तेनैव ये वृक्षा
आरोपितास्ते फलिताः दृश्यन्ते, परमेतावत्तपस्याचरणानन्तरमपि
शिवसम्बन्धिनी अस्याः भावना लेशमात्रमपि साफल्यान्मुखी न
दृश्यते ॥ ६० ॥
न वेद्मि स प्रार्थितदुर्लभः कदा
सखीभिरस्रोत्तरमीक्षितामिमाम् ।
तपःकृशामभ्युपपत्स्यते सखीं
वृषेव सीतां तदवग्रहक्षताम् ॥ ६१ ॥
नेति। प्रार्थितः सन्दुर्लभः प्रार्थितदुर्लभः स देवः तपःकृशां तपसा
कृशां क्षीणां अतएव सखीभिः अस्रोत्तरं अश्रुप्रधानं यथा भवति
तथा ईक्षितां इमां नः सखीं तदवग्रहक्षतां तस्येन्द्रस्यावग्रहेणाना-
वृष्ट्या क्षतां पीडिताम् । ‘वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ’
इत्यमरः। ‘अवे ग्रहो वर्षप्रतिबन्धे’ इत्यप् प्रत्ययः। सीतां कृष्ट-
भुवम् । ‘सीता लाङ्गलपद्धतिः’ इत्यमरः। वृषा वासवः इव।

( १६३ )
' वासवो वृत्रहा वृषा ' इत्यमरः । कदा अभ्युपपत्स्यते कदा अनु-
ग्रहीष्यति न वेद्मि । अत्र वाक्यार्थः कर्म । तद्ववग्रहक्षतामित्यत्राव-
ग्रहक्षतामित्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्यापत्तेस्तदिति भिन्नं
पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः ॥ ६१ ॥
PROSE ORDER :—प्रार्थितदुर्लभः सः तपःकृशां सखीभि-
अस्रोत्तरं ईक्षितां इमां सखीं तदवग्रहक्षतां सीतां वृषा इव कदा
अभ्युपपत्स्यते ( इति ) न वेद्मि ॥ ६१ ॥
NOTES .—प्रार्थितदुर्लभः—( प्र + √अर्थ् + कः । दुर् +
√लभ् + खल् ) प्रार्थितश्चासौ दुर्लभश्च इति प्रार्थितदुर्लभः who
is difficult to be obtained though sought after.
This is a reply to ' भविष्यति प्रार्थितदुर्लभः कथम् ? '
in verse 46 above सः—शिवः । तपःकृशां—तपसा कृशा
तपःकृशा, ताम् emaciated by austerities कृश—( √कृश् +
क्त ) Past Part of √कृश् It is formed irregularly
by dropping तः । अस्रोत्तरम्—अस्रं ( अश्रु ) उत्तरं ( प्रधानं )
यस्मिन् कर्मणि तद् अस्रोत्तरम् or अस्रैः उत्तरं यथा स्यात् तथा
अस्रोत्तरम् with tears ईक्षिताम्—दृष्टाम् seen तदवग्रहक्षताम् ।
अवग्रहः—( अव + ग्रह् + अप् ) वर्षप्रतिबन्धः drought.
' वृष्टिवर्षे तद्विघातेऽवग्राहावग्रहौ समौ ' इत्यमरः । The अप्
suffix is optionally added by ' अवे ग्रहो वर्षप्रतिबन्धे '
पा० ३. ३ ५१. The other form is अवग्राहः which is
formed by adding घञ् तस्य ( इन्द्रस्य ) अवग्रहेण क्षतां
( पीडितां ) तदवग्रहक्षताम् distressed by his holding
off the rain As अवग्रह means ' absence of rain ' there
is no use saying तद् अवग्रह, so Mallinatha takes तद्
separately as the object of न वेद्मि But this seems

( १६४ )
to be far-fetched तद् is a part of the compound and
it refers to वृषन् सीतां—लाङ्गलरेखा ; कृष्टां भुवम् a
furrow or line of a plough-share, hence ploughed
land ‘ सीता लाङ्गलरेखा स्याद् व्योमगङ्गा च जानकी ।
वृषा—वर्षति इति वृषा the showerer , Indra ; the god
of rain. ‘ वासवा वृत्रहा वृषा ’ इत्यमरः । अभ्युपपत्स्यते—
अनुग्रहीष्यति will favour. अभि+उप+√पद् means ‘to
favour ’ ; to confer a benefit or kindness The whole
sentence from प्रार्थितदुर्लभ. to अभ्युपपत्स्यते is the
object.
In the verse Shiva has been compared to Indra
and Parvati to the earth Just as the earth is
distressed by the stoppage of the rain so was
Parvati suffering from the indifference of Shiva
CHANGE OF VOICE :—प्रार्थितदुर्लभेन तेन तपःकृशा
सखीभिः अश्रोत्तरं ईक्षिता इयं सखी तदवग्रहक्षता सीता वृष्णा
इव कदा अभ्युपपत्स्यते ( इति ) ( मया ) न वेद्यते ॥ ६१ ॥
HINDI TRANSLATION :—चाहे हुए होने पर भी कठिनता
से मिलने वाला वह, तपस्या के कारण दुर्बल तथा सहेलियों
से आंसुओं के साथ देखी हुई इस सहेली ( पार्वती ) को इन्द्र
के द्वारा वर्षा के रोके जाने से दुःखी, हल चली हुई पृथ्वी
को इन्द्र की तरह कब अनुगृहीत करेगा ( यह ) मैं नहीं
जानती ॥ ६१ ॥
ENGLISH TRANSLATION :—I do not know when he,
difficult to be obtained though sought after, will favour

this our friend, emaciated by penance (and) looked
at by her friends with tears, as Indra favours the
ploughed earth distressed by his holding off the
rain 61
PURPORT IN SANSKRIT :—सत्यमेवाभिलषितोऽपि शिवो
दुष्प्रापः, यतः स इयता समयेनापि पार्वत्या न लब्धः। तस्येमां
चित्तवृत्तिं दृष्ट्वा मया ज्ञातु न शक्यते यत् स कियत्कालानन्तरं
वर्षाभावादत्यन्तं पीडितां महीं इन्द्र इवेमां तपश्चरणात्कृशीभूता-
मस्माकं सखीमनुग्रहीष्यति, यां दृष्ट्वा वय तत्सख्यो निरन्तरमश्रूणि
मुञ्चामः ॥ ६१ ॥
अगूढसद्भावमितीङ्गितज्ञया
निवेदितो नैष्ठिकसुन्दरस्तया ।
अपीदमेवं परिहास इत्युमा-
मपृच्छदव्यञ्जितहर्षलक्षणः ॥ ६२ ॥
अगूढेति । इङ्गितज्ञया पार्वतीहृदयाभिज्ञया ‘ इङ्गितं हृद्गतो
भावः ’ इति सज्जनः । तया गौरीसख्या इति एव अगूढसद्भावं
प्रकाशितसद्भिप्रायं यथा तथा निवेदितः ज्ञापित । नैष्ठिकसुन्दरः
निष्ठा मरणमवधिर्यस्य स नैष्ठिकः यावज्जीवब्रह्मचारी सुन्दरो
विलासी । नैष्ठिकश्चासौ तथोक्तः । द्वयोरन्यतरस्य विशेषणत्व-
विवक्षायां विशेषणसमासः । किन्तु नैष्ठिकत्वविशेषणेन कामित्व-
विरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति
न विरोध । अव्यञ्जितहर्षलक्षणं अव्यञ्जितं हर्षलक्षणं मुखरा-
गादिहर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरी । अयीति कोमला-
मन्त्रणे । इदं त्वत्सखीभाषितं एवम् । सत्यं किमित्यर्थ । परिहासः

( १६६ )
केलिर्वा । 'द्रवकेलिपरीहासाः' इत्यमरः । इति एवं उमां अपृच्छत्
पृष्टवान् ॥ ६२ ॥
PROSE ORDER :—इङ्गितज्ञया तया इति अगूढसद्भावं
निवेदित नैष्ठिकसुन्दरः अव्यञ्जितहर्षलक्षणः (सन्) अयि !
इदं एवं ( अथवा ) परिहासः इति इमां अपृच्छत् ॥ ६२ ॥
NOTES .—इङ्गितज्ञया—( इङ्गित + √ज्ञा + कः + आ ) इङ्गितं
( हृद्गतं भावं ) जानाति इति इङ्गितज्ञा, तया इङ्गितज्ञया who
knew the real but covert purpose or intention
( of Parvati ) इङ्गितं also means ' a notion or
gesture indicating one's intention,' but here it means
'intention,' 'इङ्गितं हृद्गतो भावः' इति सज्जनः । तया—
by that friend of Parvati अगूढसद्भावं—(√गुहू to hide
+क्तः=गूढः) सन् भावः सद्भावः, न गूढः सद्भावः (यथार्था-
भिप्रायः) यस्मिन् कर्मणि यथा स्यात् तथा अगूढसद्भावं (Adv. to
निवेदितः ) not hiding her noble intentions निवेदितः—
विज्ञापितः, उक्तः addressed Passive Past Participle.
नैष्ठिकसुन्दरः । नैष्ठिकः—( निष्ठा + ठञ्—इक ) निष्ठा (मरणं),
तत्पर्यन्तं ब्रह्मचर्येण तिष्ठति इति नैष्ठिकः ( यावज्जीवब्रह्मचारी )
or निष्ठाकालं यावदस्य ब्रह्मचर्यमिति नैष्ठिकः a life-long
religious student who observes the vow of celibacy.
The word निष्ठा means ' end ; extreme point', hence
death. निष्ठानिष्पत्तिनाशान्ताः' इत्यमरः । ठञ् suffix is
added by ' तदस्य ब्रह्मचर्यम्' पा० ५.१ ५७. It is changed
into इक । नैष्ठिकश्चासौ सुन्दरश्च नैष्ठिकसुन्दरः the hand-
some Brahmachárin ( i e Shiva ). अव्यञ्जितहर्षलक्षणः
—न व्यञ्जितं (प्रकटितम्) हर्षस्य लक्षण ( चिह्नम् ) येन सः

( १६७ )
अव्यञ्जितहर्षलक्षणः who did not show signs of delight.
Though Shiva was rejoiced at heart to see that
Parvati had so much love for him, but he betrayed
no sign of it एवं—true, was it really so, as told
by Parvati's friend परिहास —( परि + √हस् + घञ् )
a joke अपृच्छत्—asked. √प्रच्छ् is द्विकर्मक i. e it
governs two objects ; here उमाम् is one object and
the other object is the clause ‘अयि, इदं एवं ( उत )
परिहासः ?’ 62
Change of Voice —इङ्गितज्ञया तया इति अगूढसद्भावं
निवेदितेन नैष्ठिकसुन्दरेण अव्यञ्जितहर्षलक्षणेन अयि अनेन
एवं ( भूयत ) ( अथवा ) परिहासेन इति एवं अपृच्छ्यत ॥ ६१ ॥
Hindi Translation :—( पार्वती के ) आन्तरिक भाव
को जानने वाली उससे इस प्रकार ( पार्वती के ) श्रेष्ठ अभिप्राय
को स्पष्ट करके कहे हुए उस सुन्दर आजन्म ब्रह्मचारी ने
प्रसन्नता के चिह्नों को सूचित न करते हुए ही पार्वती से पूछा—
क्यों जी, क्या यह ऐसे ही है अथवा हँसी है ? ॥ ६२ ॥
English Translation —Thus informed by her, who
knew the intentions of Parvati’s heart, not hiding her
noble thoughts, that handsome, life-long Brahmachárin,
without betraying signs of delight, asked Umá whether
it was so or a joke 62
Purport in Sanskrit —पार्वत्यभिप्रायवेदिन्या तत्सख्या
पार्वत्याः अनुरागविषये स्पष्टमुक्तः सरूपवान् स ब्रह्मचारी नितरां
हृष्टो जातः, परं स्वहर्षं निगूहन् स पार्वतीमपृच्छत्—यत्तत्सख्या
कथितं वृत्तं सत्यमासीत् उताहो हास्यमात्रमेव ॥ ६२ ॥

( १६८ )
अथाग्रहस्ते मुकुलीकृताङ्‌गुलौ
समर्पयन्ती स्फटिकाक्षमालिकाम् ।
कथंचिदद्रेस्तनया मिताक्षरं
चिरव्यवस्थापितवागभाषत ॥ ६३ ॥
अथेति । अथ अनन्तर अद्रे तनया पार्वती मुकुलीकृताङ्गुलौ
सपुटीकृताङ्गुलौ । अग्रश्चासौ हस्तश्चेति समानाधिकरण-
समास । 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदात्' इति वामनः।
तस्मिन् अग्रहस्ते स्फटिकाक्षमालिकां स्फटिकानां अक्षमालिकां
समर्पयन्ती आमुञ्चती कथञ्चित् महता कष्टेन चिरव्यवस्था-
पितवाक् चिरेण स्वीकृतवाक् । एनेन लज्जोपरोधी व्यज्यते ।
मिताक्षर परिमितवर्ण यथा तथा अभाषत बभाषे ॥ ६३ ॥
PROSE ORDER —अथ अद्रे तनया मुकुलीकृताङ्गुलौ
अग्रहस्ते स्फटिकाक्षमालिकां समर्पयन्ती चिरव्यवस्थापितवाक्
कथञ्चिद् मिताक्षरं अभाषत ॥ ६३ ॥
NOTES :—अद्रेः—पर्वतस्य of the mountain, i e,
of the Himālaya 'अद्रिगोत्राद्रिगिरिग्रावाचलशैलशिलोच्चयाः'
इत्यमरः । तनया—पुत्री the daughter, i e, Pārvatī मुकुली-
कृताङ्गुलौ । मुकुली कृता —(मुकुल+च्चिः+कृता) अमुकुला
मुकुलाः कृताः इति मुकुलीकृता. (संपुटीकृता) joined or
brought together like a bud ; formed in the shape
of a bud. मुकुल—a bud च्वि suffix is added to nouns
or indeclinables to express that a person or thing,
not being like what is denoted by the base to which
it is added, becomes or is made like it Here the

( १६६ )
fingers, which were not joined in the form of a
bud, were joined in that manner ' ( अभूततद्भावे )
कृभ्वस्तियोगे संपद्यकर्त्तरि च्वि ' पा० ५ ४ ५० Before च्वि
the ending अ or आ is changed to ई, but not that
of indeclinables. इ or उ is lengthened and ऋ changed
to री । Then the termination ( च्वि ) is dropped and
the verbal or other forms of कृ, भू and अस् roots
are added to the base regarded as a preposition
मुकुलीकृताङ्गुलौ—मुकुलीकृताः अङ्गुलयो यस्य सः, तस्मिन्
of which the fingers were joined like a bud अग्रहस्ते-
अग्रश्वासौ हस्तश्च इति अग्रहस्तः, तस्मिन् in her forehand
The compound is Karmadháraya But in a
Karmadharaya compound both the members are
identical with each other, for instance in श्वेतकमल,
श्वेतत्व ( whiteness ) and कमल ( a lotus ) are
identical, while in अग्रहस्त, अग्र is a part of हस्त and
they are not identical with each other. They may,
however, be regarded as such metaphorically,
through their relation of अवयव and अवयविन् Cf.
' हस्ताग्र अग्रहस्तयोः गुणगुणिनोर्भेदाभेदात् ' वामनः । or
हस्तस्य अग्रे इति अग्रहस्ते. The compound may be
regarded a member of the group of राजदन्तादि and
thereby हस्त can be made the second member of
the compound instead of the first स्फटिकाक्षमालिकाम्
—स्फटिकानां स्फटिकनिर्मिता वा अक्षमालिका स्फटिकाक्षमा-
लिका, ताम् a rosary made of crystal beads or, a

( १७० )
crystal rosary. Here अक्षमालिका means simply
‘a rosary.’ समर्पयन्ती—( सम् + √अर्प् + णिच् + शतृ +
ङीप् ) आमुञ्चती putting : holding. चिरव्यवस्थापितवाक्—
चिरेण व्यवस्थापिता वाक् यया सा चिरव्यवस्थापितवाक् having
put in order (in her mind) the speech for a long
time, i. e., having pondered for a long time as to
what to say and what not. कथञ्चित्—with great
difficulty. Because she was moved very much, or
she was feeling shy of speaking in such a matter.
मिताक्षरम्—( √मा + क्तः = मितम् ) मितानि अक्षराणि यस्मिन्
कर्मणि यथा स्यात्तथा मित्ताक्षरम् in limited words.
अभाषत—spoke. Imperfect third pers. sing. of
√भाष्. 63.
Change of Voice :—अथ अद्रेः तनयया मुकुलीकृता-
ङ्गुलौ अग्रहस्ते स्फटिकाक्षमालिकां समर्पयन्त्या चिरव्यव-
स्थापितवाचा कथञ्चिद् मिताक्षरं अभाष्यत ॥ ६३ ॥
Hindi Translation :—इसके अनन्तर पर्वत की पुत्री
(पार्वती) स्फटिक की जपमाला को जुड़ी हुई (एकत्रीकृत)
अंगुलियों वाले हाथ के अग्रभाग में पकड़ कर, देर तक वचनों
को ठीक करके, जैसे तैसे, थोड़े से अक्षरों में बोली ॥ ६३ ॥
English Translation :—Then the daughter of the
mountain (i. e., Párvati), putting the crystal rosary
into her forehand, of which the fingers had been drawn
together in the shape of a bud, spoke with great
difficulty, in measured words, having adjusted her
speech (in her mind) for a long time. 63.

( १७१ )
PURPORT IN SANSKRIT —ब्रह्मचारिणः प्रश्नानन्तरं पार्वती
स्फटिकनिर्मितां स्वजपमालां कुङ्मलाकाराङ्गुलौ स्वहस्तस्याग्रभागे
निश्चलीकृत्य—जपमालाचालनात्किञ्चित्कालं विरम्य—चिराय
कथनीयविषयं कथनप्रकारञ्च निश्चित्य संक्षिप्तमुत्तरं दातुमुद्यता-
भूत् ॥ ६३ ॥
यथा श्रुतं वेदविदां वर त्वया
जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ॥ ६४ ॥
किमुवाचेत्याह । यथेति । हे वेदविदां वर वैदिकश्रेष्ठ । त्वया
यथाश्रुतं सम्यक् श्रुतम् । श्रुतार्थमेवाह—अयं जन स्वयमित्यर्थः ।
उच्चैः पदलङ्घनोत्सुकः उच्चैः पदस्य शिवलाभरूपोन्नतस्थानस्य
लङ्घने आक्रमणे उत्सुकः । किमत्रायुक्तमित्यत्राह—इदंतप तदवाप्ति-
साधनं किल । किलेत्यलीके । अतितुच्छत्वादसाधकमेवेत्यर्थः ।
तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चति इत्याशयेनाह—मनो-
रथानां कामानां अगतिः अविषयः न विद्यते । न हि स्वशक्तिपर्या-
लोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४ ॥
PROSE ORDER :—( हे ) वेदविदां वर ! त्वया यथा श्रुतं,
अयं जनः उच्चैःपदलङ्घनोत्सुकः, इदं तपः तदवाप्तिसाधनं किल,
मनोरथानां अगतिर्न विद्यते ॥ ६४ ॥
NOTES :—वेदविदां—( √विद् to know+क्विप्=वित् )
वेदं विदन्ति इति वेद विदः, तेषां वेदविदां of those who know
the Vedas. Decline वेदवित् as वेदवित्, वेदविदौ, वेदविदः ।
वेदविदम् etc. वर—श्रेष्ठ the best ; the chief. त्वया यथा

( १७२ )
श्रुतम्—त्वया सम्यक् आकर्णितम् you have heard the right
thing According to Mallinatha यथा is used in the
sense of 'truth ; correct thing' It may also be
taken with the following words viz, त्वया यथा श्रुतं अयं
जन: etc, as you have heard this person is anxious
to attain the highest post Or, तथा may be provided
after यथा, then it will be construed as यथा श्रुतं तत्तथा
it is so as as you have heard उच्चैः पदलङ्घनोत्सुकः—उच्चैः
पदस्य (स्थानस्य) लङ्घने (प्राप्तौ) उत्सुक anxious to
attain the lofty post This lofty post is none but
to be the wife of Shiva लङ्घन means 'crossing', as
well as 'rising to or towards' तदवाप्तिसाधनं—तस्य
(उच्चैःपदस्य) अवाप्तेः (प्राप्तेः) साधनं (उपायः) तदवाप्ति-
साधनम् a means of obtaining that किल—indeed.
But Mallinatha takes it in the sense of 'falsely'
(अलीके) i. e., the penance which is a means of
attaining it, does not seem to be so. अगतिः—अव-
रोधः, विश्रान्तिः non-reaching ; unsuccessfulness 'मनो-
रथानां अगतिर्न विद्यते' is a general statement meaning
that nothing is inaccessible to desire 64
CHANGE OF VOICE:—(हे) वेदविदां वर ! त्वं यथा श्रुत-
वान् अनेन जनेन उच्चैः पदलङ्घनोत्सुकेन (भूयते) अनेन तपसा
तदवाप्तिसाधनेन (भूयते) किल, मनोरथानां अगत्या न
विद्यते ॥ ६४ ॥
HINDI TRANSLATION :—हे वेद के ज्ञाताओं में श्रेष्ठ ! तुम
ने जैसा सुना है (वह ठीक है), यह व्यक्ति ऊँचे पद की प्राप्ति

( १७३ )
का इच्छुक है ; यह तपस्या उसकी प्राप्ति का उपाय है ; इच्छाओं
की विरून्नता नहीं होती ॥ ६४ ॥
English Translation —O one, who is the best
among those who know the Vedas, ( it is so ) as you
have heard , this person is anxious to attain the high
post This penance is a means of getting that , nothing
is beyond the reach of desire 64
Purport in Sanskrit:—वर्णिना. प्रश्नमाकर्ण्य पार्वती
तं प्रतिवदति—' हे वेदज्ञातॄणां श्रेष्ठ ! साधो ! त्वया मे सखी-
मुखात् यत्किञ्चिदप्याकर्णितं तत् यथार्थमेव , अहं सत्यमेव
शिवप्राप्तिरूपमुच्चस्थानमधिगन्तु कृतनिश्चया उन्मनाश्चास्मि ।
इयं मे तपस्या निश्चयमेव तस्य मे मनोरथस्य पूर्त्त्यर्थं विद्यते,
मम कामना चावश्यं सफला भविष्यति यतो मनोरथेन सर्वमपि
लब्धुं शक्यते ॥ ६४ ॥
अथाह वर्णी विदितो महेश्वर-
स्तदर्थिनी त्वं पुनरेव वर्तसे ।
अमङ्गलाभ्यासरतिं विचिन्त्य तं
तवानुवृत्तिं न च कर्तुमुत्सहे ॥ ६५ ॥
अथेति । अथ वर्णी ब्रह्मचारी । 'वर्णिने ब्रह्मचारिणः' इत्यमरः ।
आह उवाचेत्यर्थः 'आहेति भूतार्थे लट् प्रयोगो भ्रान्तिमूलः' इत्याह
वामनः । । किमित्याह—महेश्वरः महादेवः विदितः । मया ज्ञात
इत्यर्थः । बुद्धयर्थत्वात् वर्त्तमाने क्तः प्रत्ययः । तद्योगात् षष्ठी च ।
येन त्वं प्राग्मग्नमनोरथा कृतेति भावः । पुनरेव त्वं तमीश्वरमर्थयते
तदर्थिनी एव तत्कामैव वर्तसे । तत्प्रभावमनुभूयापीति भावः ।
अनुसरणे को दोषस्तत्राह—अमङ्गलाभ्यासरतिं अमङ्गलाचारे

४. सर्ग ८-११ (कैलास विहार व कार्तिकेय जन्म)

( १७४ )
रतिर्यस्य तं तथोक्तं तं ईश्वरं विचिन्त्य विचार्य तवानुवृत्तिं अनु-
सरणं कर्तुं न उत्सहे च । नानुमन्तुं शक्नोमीत्यर्थः ॥ ६५ ॥
PROSE ORDER : — अथ वर्णी आह—महेश्वरः विदितः,
त्वं पुन एव तदर्थिनी वर्तसे, च तं अमङ्गलाभ्यासरतिं विचिन्त्य
तव अनुवृत्ति कर्तुं न उत्सहे ॥ ६५ ॥
NOTES —वर्णी—Brahmachárin See notes on
वर्णिन् in verse 52 आह—उवाच said It being Present
tense, third person, sing, its use in the sense of the
Past tense is open to question. But according to
some commentators आह may be used with अथ on
the authority of 'तदादौ च' । भोजसूत्रम् । आह is the
alternative substitute for √ब्रू 'to speak' in all the
numbers of the third person and, sing and dual of
the second person 'ब्रुवः पञ्चानामादित आहो ब्रुवः' पा०
३ ४ ८४ Thus √ब्रू is conjugated in the present tense
as—ब्रवीति—आह, ब्रूत —आहतुः, ब्रुवन्ति—आहुः । ब्रवीषि
—आत्थ, ब्रूथः—आहथुः, ब्रूथ । ब्रवीमि, ब्रूव., ब्रूम । महेश्वरः—
( महा + ईश्वर ) महांश्चासौ ईश्वरः महेश्वर (महादेव ) Shiva
The word महत् is changed to महा when it forms the
first member of a Karmadháraya or a Bahuvríhı
compound, or when the termination जातीय follows
'आन्महतः समानाधिकरणजातीययोः, पा० ६.३ ४६. विदितः—
ज्ञातः is known In विदितः (√विद् + क्तः ) क्त suffix is
added by 'मतिबुद्धिपूजार्थेभ्यश्च' पा० ३ २ १८८. in the
sense of the present tense The subject of विदितः
viz., मन is understood. The Brahmachárin means to

( १७५ )
say that he knew Maheshwara as one who against
the desire of Párvatí burnt Kámadeva and did
not agree to marry her एव—अपि । तदर्थिनी—( तत् +
अर्थ + इनिः + ङाप् ) अर्थ. अस्या अस्तीति अर्थिनी, तस्य
अर्थिनां तदर्थिनां ( तदभिलाषिणी ) longing for him;
seeking him. अमङ्गलाभ्यामरतिं—न मङ्गलं अमङ्गलं, तस्य
( अशुभस्य ) अभ्यासे ( निरन्तरसेवने ) रति यस्य सः अमङ्ग-
लाभ्यासरतिः, तम् who is fond of using inauspicious
things (such as funeral pyre, ashes, skull-bone, etc.)
Cf. 'आलेपो भसितं विभूषितमहिर्वास पितॄणां घने, वेताला-
परिचारका प्रतिदिन वृत्तिश्च भिक्षामयी । इत्थं यस्य शुभेतराणि
चरितान्याख्यान्ति सर्व्वेजन।स्तस्मिन्मौग्ध्यवशान्मनस्तव रुचिं
बध्नाति किं ब्रूमहे ।' पार्वतीपरिणय ४।१२ अनुवृत्तिं—अनुसरणं,
अनुमोदनम् to follow; to give my approval. न उत्सहे—
I dare not √सह् 'to bear' means 'to dare' with
the preposition उत्. The ascetic says when Shiva
had insulted Párvatí once and he had inborn
fondness for inauspicious things he was not ready
to approve of the idea of Párvatí to marry
him. 65.
CHANGE OF VOICE :—अथ, वर्णिना ( ऊचे )—( अहं )
महेश्वरं विदितवान्, त्वया पुनरेष तदर्थिन्या वृत्यते, च तं
अमङ्गलाभ्यासरति विचिन्त्य ( मया ) तव अनुवृत्तिं कर्तुं न
उत्सह्यते ॥ ६५ ॥
HINDI TRANSLATION :—तब ब्रह्मचारी बोला—महादेव
को मैं जानता हूँ ; तू फिर भी उसी के लिये इच्छा वाली है ;

( १७६ )
(मैं) तो उसको अशुभ वस्तुओं से प्रेम करने वाला जान कर
तुम्हारा अनुकरण करने (अर्थात् तुम्हारी तरह सोचने) का
साहस नहीं कर सकता ॥ ६५ ॥
ENGLISH TRANSLATION :--Then the ascetic said-
Maheshwara is well-known, and yet thou has a longing
for him ; knowing him to possess fondness for the
use of inauspicious things, I dare not see eye to eye
with you. 65.
PURPORT IN SANSKRIT :—पार्वत्याः वचनमाकर्ण्य स ब्रह्म-
चारी कथयति—'अहं शिवं सम्यग्जानामि, अन्येऽपि च तं
जानन्ति । तस्य चिताभस्मकपालाद्यशुभवस्तुषु प्रीतिर्विद्यते ।
तथापि त्वं तत्प्राप्त्यर्थं तपोमग्ना तिष्ठसीत्याश्चर्यम् । अहं शिवस्य
याथार्थ्यं विचार्य तव कार्यमनुमन्तुं नोद्यतोऽस्मि ॥ ६५ ॥
अवस्तुनिर्बन्धपरे कथं नु ते
करोऽयमामुक्तविवाहकौतुकः ।
करेण शंभोर्वलयीकृताहिना
सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥
अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं
प्रधानं यस्यास्तस्याः संबुद्धिः अवस्तुनिर्बन्धपरे पार्वति । आमुक्त-
विवाहकौतुकः आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य
सः ते अयं करः । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति
शाश्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोः महादेवस्य
करेण करणभूतेन तत्प्रथमावलम्बनं तदेव प्रथमं तत्प्रथमम् । अपरि-
चितत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं

( १७७ )

नु सहिष्यते । न कथंचिदपि सहिष्यते इत्यर्थः । अग्रतो यद्भावि
तद्दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ॥ ६६ ॥
PROSE ORDER -(हे) अवस्तुनिर्बन्धपरे । आमुक्तविवाह-
कौतुकः अयं ते करः शंभोः वलयीकृताहिना करेण तत्प्रथमाव-
लम्बनं कथं नु सहिष्यते ? ॥ ६६ ॥
NOTES —अवस्तुनिर्बन्धपरे—न वस्तु अवस्तु (तुच्छवस्तु),
तस्मिन् निर्बन्ध (आग्रहः ) परः (प्रधानः ) यस्याः सा अवस्तु-
निर्बन्धपरा, तस्याः सम्बोधने अवस्तुनिर्बन्धपरे one who is
solely attached to an unworthy object , who is
desirous of an unworthy object अवस्तु an unworthy
object, i.e., Shiva. Here the negative अ ( न )
is in the sense of अप्राशस्त्य ( not good : disparage-
ment ), which is one of its six senses—' तत्सादृश्यम-
भावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट्
प्रकीर्तिताः ।' निर्बन्ध—persistence in ; obstinacy for.
आमुक्तविवाहकौतुकः—आमुक्तं (धारित ) विवाहस्य कौतुकं
(मङ्गलसूत्रं ) यस्मिन् स आमुक्तविवाहकौतुकः round which
the nuptial string has been tied. आमुक्तं—( आ+
√मुञ्च्+क्तः ) tied विवाहकौतुकम्—the nuptial thread.
‘ कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः । A
coloured thread is tied round the wrist on the
occasion of marriage and other solemn ceremonies.
शंभो —of Shiva. वलयीकृताहिना—( वलय+च्वि·+कृतः=
वलयीकृतः ) अवलयो वलयो यथा संपद्यते तथा कृतः वलयी
कृतः ( वलयरूपेण धृतः ) ; वलयीकृतः अहिः ( सर्पः ) यस्मिन् स
वलयीकृताहि. तेन round which a snake has been borne