सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 185, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 185

( १६८ )
अथाग्रहस्ते मुकुलीकृताङ्‌गुलौ
समर्पयन्ती स्फटिकाक्षमालिकाम् ।
कथंचिदद्रेस्तनया मिताक्षरं
चिरव्यवस्थापितवागभाषत ॥ ६३ ॥
अथेति । अथ अनन्तर अद्रे तनया पार्वती मुकुलीकृताङ्गुलौ
सपुटीकृताङ्गुलौ । अग्रश्चासौ हस्तश्चेति समानाधिकरण-
समास । 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदात्' इति वामनः।
तस्मिन् अग्रहस्ते स्फटिकाक्षमालिकां स्फटिकानां अक्षमालिकां
समर्पयन्ती आमुञ्चती कथञ्चित् महता कष्टेन चिरव्यवस्था-
पितवाक् चिरेण स्वीकृतवाक् । एनेन लज्जोपरोधी व्यज्यते ।
मिताक्षर परिमितवर्ण यथा तथा अभाषत बभाषे ॥ ६३ ॥
PROSE ORDER —अथ अद्रे तनया मुकुलीकृताङ्गुलौ
अग्रहस्ते स्फटिकाक्षमालिकां समर्पयन्ती चिरव्यवस्थापितवाक्
कथञ्चिद् मिताक्षरं अभाषत ॥ ६३ ॥
NOTES :—अद्रेः—पर्वतस्य of the mountain, i e,
of the Himālaya 'अद्रिगोत्राद्रिगिरिग्रावाचलशैलशिलोच्चयाः'
इत्यमरः । तनया—पुत्री the daughter, i e, Pārvatī मुकुली-
कृताङ्गुलौ । मुकुली कृता —(मुकुल+च्चिः+कृता) अमुकुला
मुकुलाः कृताः इति मुकुलीकृता. (संपुटीकृता) joined or
brought together like a bud ; formed in the shape
of a bud. मुकुल—a bud च्वि suffix is added to nouns
or indeclinables to express that a person or thing,
not being like what is denoted by the base to which
it is added, becomes or is made like it Here the