सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 188, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 188

( १७१ )
PURPORT IN SANSKRIT —ब्रह्मचारिणः प्रश्नानन्तरं पार्वती
स्फटिकनिर्मितां स्वजपमालां कुङ्मलाकाराङ्गुलौ स्वहस्तस्याग्रभागे
निश्चलीकृत्य—जपमालाचालनात्किञ्चित्कालं विरम्य—चिराय
कथनीयविषयं कथनप्रकारञ्च निश्चित्य संक्षिप्तमुत्तरं दातुमुद्यता-
भूत् ॥ ६३ ॥
यथा श्रुतं वेदविदां वर त्वया
जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ॥ ६४ ॥
किमुवाचेत्याह । यथेति । हे वेदविदां वर वैदिकश्रेष्ठ । त्वया
यथाश्रुतं सम्यक् श्रुतम् । श्रुतार्थमेवाह—अयं जन स्वयमित्यर्थः ।
उच्चैः पदलङ्घनोत्सुकः उच्चैः पदस्य शिवलाभरूपोन्नतस्थानस्य
लङ्घने आक्रमणे उत्सुकः । किमत्रायुक्तमित्यत्राह—इदंतप तदवाप्ति-
साधनं किल । किलेत्यलीके । अतितुच्छत्वादसाधकमेवेत्यर्थः ।
तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चति इत्याशयेनाह—मनो-
रथानां कामानां अगतिः अविषयः न विद्यते । न हि स्वशक्तिपर्या-
लोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४ ॥
PROSE ORDER :—( हे ) वेदविदां वर ! त्वया यथा श्रुतं,
अयं जनः उच्चैःपदलङ्घनोत्सुकः, इदं तपः तदवाप्तिसाधनं किल,
मनोरथानां अगतिर्न विद्यते ॥ ६४ ॥
NOTES :—वेदविदां—( √विद् to know+क्विप्=वित् )
वेदं विदन्ति इति वेद विदः, तेषां वेदविदां of those who know
the Vedas. Decline वेदवित् as वेदवित्, वेदविदौ, वेदविदः ।
वेदविदम् etc. वर—श्रेष्ठ the best ; the chief. त्वया यथा