कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 193, कुल 268 में से
संदर्भ में पढ़ें( १७६ )
(मैं) तो उसको अशुभ वस्तुओं से प्रेम करने वाला जान कर
तुम्हारा अनुकरण करने (अर्थात् तुम्हारी तरह सोचने) का
साहस नहीं कर सकता ॥ ६५ ॥
ENGLISH TRANSLATION :--Then the ascetic said-
Maheshwara is well-known, and yet thou has a longing
for him ; knowing him to possess fondness for the
use of inauspicious things, I dare not see eye to eye
with you. 65.
PURPORT IN SANSKRIT :—पार्वत्याः वचनमाकर्ण्य स ब्रह्म-
चारी कथयति—'अहं शिवं सम्यग्जानामि, अन्येऽपि च तं
जानन्ति । तस्य चिताभस्मकपालाद्यशुभवस्तुषु प्रीतिर्विद्यते ।
तथापि त्वं तत्प्राप्त्यर्थं तपोमग्ना तिष्ठसीत्याश्चर्यम् । अहं शिवस्य
याथार्थ्यं विचार्य तव कार्यमनुमन्तुं नोद्यतोऽस्मि ॥ ६५ ॥
अवस्तुनिर्बन्धपरे कथं नु ते
करोऽयमामुक्तविवाहकौतुकः ।
करेण शंभोर्वलयीकृताहिना
सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥
अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं
प्रधानं यस्यास्तस्याः संबुद्धिः अवस्तुनिर्बन्धपरे पार्वति । आमुक्त-
विवाहकौतुकः आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य
सः ते अयं करः । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति
शाश्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोः महादेवस्य
करेण करणभूतेन तत्प्रथमावलम्बनं तदेव प्रथमं तत्प्रथमम् । अपरि-
चितत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं