कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( १०६ )
besides this—the things enumerated in the first three
lines of the verse तपः फलं—तपसः फलं the fruit of
penance
Shiva means to say that Parvati being already
in possession of all those things, namely noble birth,
excessive beauty, happiness of wealth and young
age, for the acquisition of which people generally
resort to practise penance, he failed to understand
the cause of her penance and so asked the
question 41.
CHANGE OF VOICE :—प्रथमस्य वेधसः कुले प्रसृत्या
( भूयते ), वपुषा त्रिलोकसौन्दर्येण इव उदितेन ( भूयते ), ऐश्वर्य-
सुखेन अमृग्येन ( भूयते ), वयसा नवेन ( भूयते ), अतः परं केन
तपः फलेन भूयेत इति ( त्वया ) उच्यताम् ॥ ४१ ॥
HINDI TRANSLATION :—( मनुष्य जाति के ) प्रथम
उत्पादक ब्रह्मा के वंश में ( तुम्हारा ) जन्म है, शरीर मानो तीनों
लोकों की सुन्दरता एकत्रित हो गई हो, सम्पत्ति का सुख
(तुम्हें) ढूँढना नहीं, आयु नई है, तो बताओ तो इससे बढ़ कर
और क्या तपस्या का फल हो सकता है ? ॥ ४१ ॥
ENGLISH TRANSLATION —( Thy ) birth is in the
family of Brahman, the first creator ; body is as if it
were the manifestation of the ( collected ) beauty of the
three worlds , happiness of affluence need not be
sought after ( by thee ), age is fresh Then, please
tell what else than these can be the fruit of
penance ? 41
कु० सं०—३
( ११० )
PURPORT IN SANSKRIT :— संसारे प्रायेण जनाः श्रेष्ठकुल-
जन्मार्थं, सौन्दर्यार्थं, सम्पत्त्यर्थं, यौवनार्थं वा नानाविधानि तपांसि
कुर्वन्ति, परं तानि सर्वाण्यपि ते स्वभावतः सिद्धानि—आद्यब्रह्मणः
कुले ते जन्म जातम्, तव देहस्त्रयाणामपि लोकानां एकत्रीकृतं
लावण्यमिवास्ति, तव पितुर्गृहंनस्त्रिलैश्वर्यस्य निधानम्, आयुश्च
ते नूतनम् । तर्हि त्वं किमर्थं कठिनं तप आचरसि ? त्वं बुद्धिमती
कारणं विना न तपस्यसि—तदेव कारणमहं ज्ञातुकामः ॥ ४१ ॥
भवत्यनिष्टादपि नाम दुःसहा-
न्मनस्विनीनां प्रतिपत्तिरीदृशी ।
विचारमार्गप्रहितेन चेतसा
न दृश्यते तच्च कृशोदरि त्वयि ॥ ४२ ॥
भवतीति । दुःसहात् सोढुमशक्यात् अनिष्टाद् भर्त्रादिकृतात्
अपि मनस्विनीनां धीरस्त्रीणां ईदृशी तपश्चरणलक्षणा प्रतिपत्तिः
प्रवृत्तिः । ‘ प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये ’ इति
केशवः । भवति नाम । नामेति संभावनायाम् । विचारमार्गप्रहितेन
विचारमार्ग प्रहितेन चेतसा चित्तेन तद् अनिष्टं च हे कृशोदरि
त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसंभावितत्वा-
दित्यर्थः ॥ ४२ ॥
PROSE ORDER :—दुःसहाद् अनिष्टादपि मनस्विनीनां ईदृशी
प्रतिपत्तिः भवति नाम, ( परं ) ( हे ) कृशोदरि, विचारमार्गप्रहितेन
चेतसा तत् च त्वयि न दृश्यते ॥ ४२ ॥
NOTES :—दुःसहात्—( दुर्+√सह्+खल् ) दुःखेन सह्यते
इति, तस्मात् which can be borne with difficulty.
Adjective of अनिष्टात्—(√ इष्+क्तः) न इष्टात् अनिष्टात्
from an undesirable thing; an evil ; a wrong.
( १११ )
Mallinatha says भर्त्रादिकृतान् i e, done by one's hus-
band or others. मनस्विनीनां—( मनस् + विनिः + ङीप् ) प्रशस्तं
मनो विद्यते यासां ताः मनस्विन्यः, तासां, (अभिमानवतीनाम्) high-
minded or virtuous ladies ईदृशी—( इदम् + √दृश् + कञ्
- ङीप् ) इयमिव दृश्यते इति ईदृशी such; like it. कञ् is
added by ' त्यदादिषु दृशोऽनालोचने कञ् ' पा० ३ २. ६० ।
प्रतिपत्तिः—( प्रति + पद् + क्तिन् ) प्रवृत्तिः a course of action ;
inclination. ' प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये ' इति
केशवः । नाम—संभाव्यते an indeclinable used in the
sense of possibility कृशोदरि—( कृश + उदर + ङीप् ) कृशं
उदरं ( कटिप्रदेशः ) यस्याः सा कृशोदरी, सम्बोधने कृशोदरि O
one of slender waist The suffix ङीप् is added option-
ally by ' नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ' पा० ४ १ ५५ ।
i e, a Bahuvrīhi compound ending in नासिका etc
optionally takes ङीप् So the other form is कृशोदरा ।
Some books give तनोदरि for कृशोदरि, It also means
the same विचारमार्गप्रहितेन—विचारस्य मार्गे प्रहितं विचार-
मार्गप्रहितं, तेन directed through channel of thought i e,
after thinking चेतसा—चित्तेन by the mind. तत्—
तदनिष्टं i e a wrong done to you त्वयि—with regard
to you. न दृश्यते—न ज्ञायते is not known 42.
CHANGE OF VOICE :—दुःसहाद् अनिष्टाद् अपि मनस्वि-
नीनां ईदृश्या प्रतिपत्त्या भूयते नाम, ( हे ) कृशोदरि, विचारमार्ग-
प्रहितं चेतः तत् च त्वयि न पश्यति ॥ ४२ ॥
HINDI TRANSLATION :—न सहने योग्य बुराई से भी
मानिनी स्त्रियों का ऐसा (कार्य करने को) मन का झुकाव हो
( ११२ )
सकता है, (परन्तु) हे सुन्दर कटि वाली, विचार करने वाले
मन से तुम्हारे बारे में वह भी (सम्भव) नहीं दीखता ॥ ४२ ॥
ENGLISH TRANSLATION —Such a course of action
is possible in case of high minded ladies on account
of any wrong (done to them), but, O one of slender
waist, no such wrong is known in thy case by the
mind directed through the channel of thought. 42
PURPORT IN SANSKRIT.—लोके कदाचिद् भर्त्रादिभि-
सम्बन्धिभिस्तिरस्कृताः मानिन्यो नायस्तपोऽर्जन स्वीकुर्वन्ति,
परं हे सुमध्यमे, त्वामन्तरेण तु एतदपि तपस्यायाः कारणं न
ज्ञायते ॥ ४२ ॥
अलभ्यशोकाभिभवेयमाकृति—
र्विमानना सुभ्रु कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं
प्रसारयेत् पन्नगरत्नसूचये ॥ ४३ ॥
अनिष्टाभावमेव प्रपञ्चयति । अलभ्येति । हे सुभ्रु । इयं त्वदीया
आकृतिः मूर्त्तिः अलभ्यशोकाभिभवा अलभ्यो लब्धुमनर्हः शोकेन
भर्त्राद्यवमानजेन दुःखैनाभिभवस्तिरस्कारो यस्या सा तथोक्ता ।
दृश्यत इति शेष । असंभावितश्चायमर्थ इत्याह पितुर्गृहे विमानना
अवमानः कुतः । न संभाव्यत एवेत्यर्थः । न चाप्यन्यस्माद्वा-
बीत्याह पराभिमर्शः परधर्षणं तु तव नास्ति । पन्नगरत्नसूचये
फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । ‘ क्रियार्थोपपदस्य च
कर्मणि स्थानिनः ’ इति चतुर्थी । करं हस्तं कः प्रसारयेत् ।
सुभ्र इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् ‘नेयङुवङ्स्थानावस्त्री'
( ११३ )
इति नदीसंज्ञाप्रतिषेधान् ' अम्बार्थनद्योर्ह्रस्वः । इति ह्रस्वत्वं
नास्ति । तेन ह्रस्वः प्रामादिकः इति केचित् । अन्ये तु ' अप्राणि-
जातेश्चारज्ज्वादीनाम् ' इत्यत्र अलावूः कर्कन्धूः इत्युकारान्तादप्यूङ्-
प्रत्ययमुदाजहार भाष्यकार एतस्मादेव ज्ञापकात् क्वचिदूकारान्त-
स्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः । अत एवाह वामनः—
' ऊकारान्तादप्यूङ्प्रवृत्तेः इति । ' ' सुभ्रूः कुतस्तातगृहेऽवमाननम् '
इति पाठान्तरकरणं तु साहसमेवात्रोपपत्तिसम्भवात् । अन्यत्रापि
' सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम् ' इत्यादि-
प्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः
॥ ४३ ॥
PROSE ORDER :—(हे) सुभ्रु, इयं आकृतिः अलभ्यशोका-
भिभवा, (किञ्च) पितुः गृहे विमानना कुतः, तव पराभिमर्शः न
अस्ति, कः पन्नगरत्नसूचये करं प्रसारयेत् ? ॥ ४३ ॥
NOTES :—सुभ्रु—शोभने भ्रुवौ यस्याः सा सुभ्रू, तस्याः
सम्बोधने O thou of beautiful eye-brows According
to the author of Siddhántakaumudi the Vocative sin-
gular of सुभ्रू should be सुभ्रूः and not सुभ्रु as given here,
because the long ऊ is shortened in Voc sing of only
those words which are termed as नदीसंज्ञक ( i. e, the
words of feminine gender ending in long ई or ऊ ) by
'अम्बार्थनद्योर्ह्रस्वः' पा० ७ ३ ।१०७। i e, the words meaning
' mother ' and नदीसंज्ञक are shortened in the Voc.
sing, and as the word सुभ्रू is not termed as such
because of the rule ' नेयङुवङ्स्थानावस्त्री ' पा० १.४.४ ।
which means that the words of which ई or ऊ are
replaced by इयङ् or उवङ्, with the exception of स्त्री
( ११४ )
are not termed as नदी, its ऊ should not have been
shortened But Mallinatha defends it by saying that
according to the Bhashyakara (Patanjali) the shorten-
ing of the final vowel may be allowed in rare cases,
for in his commentary on ‘अप्राणिजातेश्चारज्जवादीनामुप-
संख्यानम्’ he has given the instance of अलाबु, कर्कन्धू।
thereby indicating that sometimes ऊकारान्त words
may take ऊङ् and be नदीसंज्ञक so that they can shorten
their vowel in the Voc sing Vamana also supports
this view by saying ‘ऊकारान्तादप्यूङ्प्रवृत्तेः’ Thus ऊङ्
will be added to सुभ्रू and then its ऊ not being replaced
by उवङ् it will be termed as नदी, which means it will
be shortened in Voc sing Other poets also have used
it in short उ, for instance Cf ‘सुभ्रु त्वं कुपितेत्यपास्त-
मशनं०’ quoted by Mallinatha इय—this, i e, yours.
अलभ्यशोकाभिभवा—(√लभ्+यत्) न लभ्यो शोकश्च अभि-
भवश्च (तिरस्कारश्च) यया सा अलभ्यशोकाभिभवा which is
incapable of grief and humiliation Or, न लभ्यः शोकेन
अभिभवो यया सा which is incapable of the humiliation
of grief It is a supposition that beautiful persons can
not be subject to misery विमानना—(√मान्+युच्)
अपमानः insult, disrespectful treatment. In कुतः (किम्
+तसिल्) किम् is changed to कु by ‘कु तिहोः पा०
७.२.१४। परामर्शः—(√मृश् to touch+घञ्) परेण अभि-
मर्शः परामर्शः being touched or outraged by others.
पन्नगरत्नसूचये। पन्नगः—(पन्न+√गम्+डः) पन्नं गच्छतीति
( ११५ )
पन्नग (सर्पः) creeping low, i e, a serpent. रत्नस्य सूचिः
रत्नसूचिः (the sharp point of the gem ), पन्नगस्य रत्न-
सूचिः पन्नगरत्नसूचिः. तस्यै पन्नगरत्नसूचये ( सर्पमणिशलाकामा-
दातुं ) the sharp point of the serpent's gem, i e.,
in order to catch it by its end. The Dative in सूचये
is used because of ‘क्रियार्थोपपदस्य कर्मणि स्थानिनः’ पा०
२.३.१४ । i e, the object governed by an infinitive
mood not actually used but implied, is put in the
Dative Thus सूचये means सूचिं ग्रहीतुम् । करं—हस्त an
arm प्रसारयेत्—(प्र + √सृ + णिच् + लिङ्) may extend or
stretch out As it is not possible to catch hold of the
gem of a serpent's hood, so it was imposible for any
one to threaten the person of Parvati 43
CHANGE OF VOICE :—(हे) सुभ्र, अनया आकृत्या अलभ्य-
शोकाभिभवया (भूयते), पितुः गृहे विमाननया कुतः (भूयते),
तव पराभिमर्शेन न भूयते, केन पन्नगरत्नसूचये करः प्रसार्येत ?
॥ ४३ ॥
HINDI TRANSLATION :—हे सुन्दर भौं वाली, यह तुम्हारा
रूप दुःख से पीडित होने योग्य नहीं है, ( और फिर ) पिता के
घर पर अपमान कैसा ? तुम्हें कोई दूसरा व्यक्ति छू (धमका) भी
नहीं सकता, (क्योंकि) कौन साँप की मणि की नोक के (लेने
के) लिये हाथ बढ़ायेगा ? ॥ ४३ ॥
ENGLISH TRANSLATION —O one of beautiful eye-
brows, this ( thy ) form is incapable of the humiliation
of grief, and whence can there be any disrespectful
treatment at the father's house? Nor can there be any
( ११६ )
insult from others , ( for ) who can stretch his arm
for ( snatching away ) the pointed end of a serpent's
gem ? 43.
Purport in Sanskrit — हे शोभनभ्रूयुक्ते पार्वति,
‘सामुद्रिकलक्षणयुक्ता आकृतयोऽनिष्टभाजो न दृष्टाः’ इति न्यायात्
शुभलक्षणोपेतं ते सुन्दरं रूपं दुःखयोग्यं नास्ति । कुमारित्वात्
भर्तृकृतानिष्टस्य तु शङ्केव नास्ति, परं ते पिताऽपि त्वयि नितरां
स्निह्यति अतस्तव जनकस्य गृहेऽपि तेऽपमानः केनापि कर्तुं न
शक्यत । भर्तृपित्राद्यतिरिक्तः कश्चिदन्यस्त्वां तिरस्कुर्यादिति
शङ्कायाप्यलम्, न हि कश्चिदपि सर्पस्य शिरोमणिं ग्रहीतुं उद्यमं
करोति। यथा हि सर्पमणेर्ग्रहणं दुष्करमेवमेव ते धर्षणमपीति
तात्पर्यम् ॥ ४३ ॥
किमित्यपास्याभरणानि यौवने
धृतं त्वया वार्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका
विभावरी यद्यरुणाय कल्पते ॥ ४४ ॥
किमिति । हे गौरि किमिति केन हेतुना यौवने त्वया आभर-
णानि अपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वात्
वुञ्प्रत्ययः । ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः ।
तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे
स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी
रात्रिः अरुणाय सूर्यसुताय कल्पते यदि अरुणं गन्तुं कल्पते किम् ।
वद ब्रूहि । ‘क्रियार्थोपपदस्य’ इत्यादिना चतुर्थी । दीप्यमान-
शशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव
वल्कलधारणं संघटत इति भावः ॥ ४४ ॥ ‘
( ११७ )
PROSE ORDER :—( हे गौरि ), त्वया यौवने आभरणानि
अपास्य वार्द्धकशोभि वल्कलं किं इति धृतम् ? यदि स्फुटचन्द्र-
तारका विभावरी प्रदोषे अरुणाय कल्पते ( तर्हि ) वद ॥ ४४ ॥
NOTES :—यौवने—( युवन् + अण् ) यूनो भावः यौवनम्,
तस्मिन् in young age अपास्य—( अप + √ अस् to throw
- ल्यप् ) त्यक्त्वा having cast वार्द्धकशोभि । वार्द्धकम्—
( वृद्ध + वुञ्—अक् ( वृद्धस्य भावः वार्द्धकम् old age The
suffix वुञ् which is replaced by अक् is added by ‘ द्वन्द्व-
मनोज्ञादिभ्यश्च ’ पा० ५ १ १३३ । वार्द्धके शोभते इति वार्द्धकशोभि
(√ शुभ् to shine + णिनिः) which looks good in old
age, suitable in old age Adj of वल्कलम्—a bark
garment, which is generally put on by ascetics स्फुट-
चन्द्रतारका—स्फुटाः ( प्रकाशमानाः ) चन्द्रः तारकाश्च यस्यां सा
स्फुटचन्द्रतारका in which the moon and the stars are
shining विभावरी—( वि + √ भा to shine + वनिप् + ङीप् )
विभाति इति विभावरी, रात्रिः night. ‘ विभावरीतमस्विन्यौ
रजनी यामिनी तमी ’ इत्यमरः । The suffix ङीप् is added to
make it fem. by ‘ वनो र च ’ पा० ४ १.७ । which is also
responsible for changing the न of वनिप् into र । प्रदोषे—
रात्रिमुखे; रात्रे पूर्वभागे during the first part of night,
{ i e, when the night is in its youth ) ‘ प्रदोषो रजनी-
मुखम् ’ इत्यमरः । अरुणाय—for the dawn. अरुण is
described as the son of कश्यप and विनता and the
elder brother of गरुड । He has no thighs and so is
known as अनूरु । He is also personified as the charioteer
of the sun. Note that अरुण also means ‘ red ’
( ११८ )
hence the red colour which pervades the sky before
the sunrise This gives it the title of ' the harbinger
of the dawn.' In अरुणाय the Dative is used because
the sense of infinitive is understood अरुणाय—अरुणं
गन्तुं , अरुणोदयं कर्त्तुम् । Cf ‘ क्रियार्थोपपदस्य च० ’ quoted
in the notes on पन्नगरत्नसूचये in the 43rd verse above.
कल्पते—प्रभवति to be able or fit for
Shiva means to say as the night in its youth can
not think of the dawn, so Parvati also should not
have thought of putting on bark garments in her
youth The connection between the moon and the
stars and Aruna on one hand and the ornaments
and bark garment on the other is made all the more
effective when their respective lustre and colour are
taken into consideration Ornaments glitter like the
moon and the stars, while bark is of the same colour
as the dawn 44
CHANGE OF VOICE :—( हे गौरि ) त्वं यौवने आभरणानि
अपास्य वार्धकशोभि वल्कल किमिति धृतवती ? यदि स्फुटचन्द्र-
तारकया विभावर्या प्रदोषे अरुणाय कल्प्यते तर्हि ( त्वया ) उद्य-
ताम् ॥ ४४ ॥
HINDI TRANSLATION :—( हे पार्वति ) तुम ने युवावस्था
में आभूषणों को छोड़ कर वृद्धावस्था में अच्छी लगने वाली वृक्ष
की छाल क्यों धारण कर ली है ? बता तो सही, कहीं चमकते
हुए चन्द्रमा तथा तारों वाली रात्रि प्रारम्भ में ही प्रभात में
परिणत हो सकती है ? ॥ ४४ ॥
( ११६ )
ENGLISH TRANSLATION — How is it that having aban
doned ornaments, thou hast, in youth, put on a bark-
garment fit for the old age? Say if the night at its
beginning, full of shining moon and stars, is fit to
receive the dawn 44
PURPORT IN SANSKRIT :— एष ते भूषणधारणसमयो न तु
वल्कलधारणस्य, तर्हि, हे पार्वति ! केन कारणेन त्वया भूषणानि
त्यक्त्वा वृद्धावस्थायोग्यं वल्कलधारणं कृतम् ? किं कदाचिदेतद्
भवितुं शक्नोति यच्चन्द्रतारकैः शोभमाना रात्रिःअकाल एव प्रभाते
परिणता भवेत् ? यथा हि रात्रे प्रारम्भ एव शशाङ्कतारका अस्तं
गच्छेयु अरुणांश्चोदय गच्छेदिति असंगतमेवमेव नवे वयसि तव
आभरणानि त्यक्त्वा वल्कलधारणमसंगतम् ॥ ४४ ॥
दिवं यदि प्रार्थयसे वृथाश्रमः
पितुः प्रदेशास्तव देवभूमयः ।
अथोपयन्तारमलं समाधिना
न रत्नमन्विष्यति मृग्यते हि तत् ॥ ४५ ॥
तप प्रयोजनं निराकर्तुमाह । दिवमिति । दिवं स्वर्गं प्रार्थयसे
कामयसे यदि तर्हि श्रम तपश्चरणप्रयास वृथा निष्फलः । यदि
स्वर्गार्थं तप्यसे तत श्रमं मा कार्षी । कुत । तव पितुः हिमवतः
प्रदेशा देवभूमय । स्वर्गपदार्था तत्रत्या इत्यर्थः । अथ उपयन्तारं
वरं प्रार्थयसे तर्हि समाधिना तपसा अलम् । न कर्त्तव्यमित्यर्थ ।
निषेध्यस्य निषेधं प्रति करणात्वात्तृतीया । तथा हि । रत्नम् । कर्तृ ।
न अन्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किन्तु तत् रत्नं
मृग्यते । ग्रहीतृभिरिति शेषः । न हि वरार्थे त्वया तपसि वर्तितव्यं
किन्तु तेनैव त्वदर्थमिति भावः ॥ ४५ ॥
( १२० )
PROSE ORDER —यदि दिवं प्रार्थयसे ( तर्हि ) श्रमः वृथा,
( यतः ) तव पितुः प्रदेशाः देवभूमयः ( सन्ति ), अथ उपयन्तारं
( प्रार्थयसे ताह् ) समाधिना अलम्, रत्नम् न अन्विष्यति हि तद्
मृग्यते ॥ ४५ ॥
NOTES —दिव—स्वर्ग heaven. प्रार्थयसे—अभिलषसि
seek श्रमः—effort ; penance ‘ अभ्यासे शस्त्रविद्यादौ वेदे
तपसि च श्रमः ’ इति भोजः । पितुः — जनकस्य i e., of the
Himalaya देवभूमयः—देवानां भूमय देवभूमयः the land of
gods, i. e, where the gods live So, when the regions
of your father are the land of gods it is no use trying
to seek heaven उपयन्तार—( उप+√यम्+तृच् ) वरं
husband √यम् to restrain, when preceded by उप
means ‘ to marry. ’ समाधिना—तपसा austerities Instru-
mental is used with अलम्, when it means ‘ enough
of ‘ अलं—न कर्त्तव्यमित्यर्थ i e., do not practise it न
अन्विष्यति—न मृगयते does not seek रत्नं is the subject of
अन्विष्यति and its object ग्राहकं ( a customer ) is under-
stood Similarly in the clause तद् मृग्यते, तद् ( a jewel )
is the object and the subject ग्राहकैः ( by the customers )
is understood मृग्यते—अन्विष्यते is sought for Passive
voice present tense of √मृग् to seek The expression
‘ न रत्नमन्विष्यति मृग्यते हि तत् ’ is a general statement
which means that it is not the business of jewels or
other valuable things to find out customers for them-
selves, but they are sought for by customers So
Shiva means to say that Parvati being possessed
( १२१ )
of extreme beauty and other virtues she did not
need practise any penance to procure a suitable
husband 45
CHANGE OF VOICE :—यदि ( त्वया ) द्यौः प्रार्थ्यते तर्हि
श्रमेण वृथा ( भूयते ), ( यतः ) तव पितुः प्रदेशैः देवभूमिभिः
( भूयते ), अथ उपयन्ता ( प्रार्थ्यते तर्हि ) समाधिना अलम्,
रत्नेन ( ग्रहीता ) न अन्वेष्यते हि ( ग्रहीता ) तत् मृग्यते ॥ ४५ ॥
HINDI TRANSLATION :—यदि तुम स्वर्ग की इच्छा करती
हो तो तपस्या व्यर्थ है ( क्योंकि ) तुम्हारे पिता की भूमि देव-
ताओं का निवास स्थान है। और यदि किसी वर को ( चाहती
हो ) तो तपस्या मत करो, ( क्योंकि ) रत्न ( या श्रेष्ठ वस्तु )
खोजा नहीं करती अपि तु वह तो ( ग्राहक से ) खोजी जाती
है ॥ ४५ ॥
ENGLISH TRANSLATION —If thou art seeking heaven
the effort is in vain, (since) the regions of thy father
are the land of gods And if thou dost seek a husband,
cease from this penance , ( for ) a jewel has not to seek,
but it is sought after 45
PURPORT IN SANSKRIT :—जनाः स्वर्गप्राप्त्यर्थमपि तपः
कुर्वन्ति, परं यदि त्वं तत्प्राप्त्यर्थं तपस्यामाचरसि तर्हि ते प्रयासो
वृथैव, यतस्ते पितुर्हिमालयस्य भूमयो देवानां स्थानानि सन्ति ।
स्वर्गश्च तदेव यत्र देवा निवसन्ति । यदि च त्वं योग्यवरप्राप्त्यर्थं तपः
करोषि तदप्यकरणीयम्, यतस्त्वं रूपादिगुणयुक्ता रत्नभूतासि ;
त्वामेव जना एषिष्यन्ति न तु त्वया तेषामन्वेषणे प्रयत्नः करणीयः ।
तथा हि—महार्घं रत्नादिकं ग्राहकान् न मृगयतेऽपि तु ग्राहका एव
तन्मृगयन्ते ॥ ४५ ॥
३. सर्ग ६-७ (सप्तर्षि संवाद व शिव-पार्वती विवाह)
( १२२ )
निवेदितं निःश्वसितेन सोष्मणा
मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते
भविष्यति प्रार्थितदुर्लभःकथम् ॥ ४६ ॥
वरवाचकाक्षरश्रवणानन्तरमेव देव्या उष्णोच्छ्वासमालक्ष्य
प्रश्नेषु च प्रत्युत्तरमनुपलभ्य स्वयमेवाशङ्क्याह—निवेदितमिति ।
सोष्मणा निःश्वसितेन निःश्वासवायुना निवेदितम् । चिन्तानुभावे-
नोष्णोच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसने-
नेत्याह । मे मन तु तथापि संशयमेव गाहते प्राप्नोति । कुतः । ते
तव । 'कृत्यानां कर्त्तरि वा' इति षष्ठी । प्रार्थयितव्य प्रार्थयितुमर्ह
एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो दुर्लभः स कथं भविष्यति ।
नास्त्येवेत्यर्थः ॥ ४६ ॥
PROSE ORDER :—( यद्यपि ) सोष्मणा निःश्वसितेन निवे-
दितम् मे मन तु संशयं एव गाहते, ते प्रार्थयितव्य एव न दृश्यते,
प्रार्थितदुर्लभः कथं भविष्यति ? ॥ ४६ ॥
NOTES :—On hearing the word husband, Parvati
instead of replying to the question simply heaved a
sigh, which led Shiva to conclude that she was prac-
tising penance in order to procure a suitable husband
But the conclusion was not without doubt, so he
continues his enquiry सोष्मणा—ऊष्मणा सह वर्तत इति
सोष्म, तेन सोष्मणा ( उष्णेन ) warm ऊष्मन् ( heat )
masc gender is declined as—ऊष्मा, ऊष्माणौ, ऊष्माणः ।
ऊष्माणं, ऊष्माणौ, ऊष्मणः । ऊष्मणा, ऊष्मभ्यां, ऊष्मभिः etc.
निःश्वसितेन—( निस्+√श्वस्+क्तः ) निःश्वासेन sigh ;
( १२३ )
breathing निःश्वसितं also means 'breathing out',
and its opposite is उच्छ्वसितं 'drawing in deep
breath' निवेदितम्—सूचितम् indicated गाहते—प्राप्नोति
plunges into The root is √गाह् to dive into प्रार्थयि-
तव्य—( प्र+अर्थ्+णिच्+तव्य ) प्रार्थयितुमर्हः to be sought
after ; to be requested ते—तव of thee In the case
of Potential passive participles the agent of the action
is put in the genitive or in the Instrumental case
Cf 'कृत्यानां कर्त्तरि वा' पा० २ ३ ७१ । प्रार्थितदुर्लभः—प्रार्थित-
श्चासौ दुर्लभश्च प्रार्थितदुर्लभः unavailable when sought
for Shiva means—you need not seek the husband,
the husband must seek you ; and if you seek after
him it should not be difficult to obtain him 46
CHANGE OF VOICE :—( यद्यपि ) सोष्म निःश्वसितं
निवेदितवत्, मे मनसा तु संशय एष गाह्यते, ते प्रार्थयितव्यं एव
( अहं ) न पश्यामि, प्रार्थितदुर्लभेन कथं भविष्यते ॥ ४६ ॥
HINDI TRANSLATION —यद्यपि ( तुम्हारी ) गर्म सांस ने
( मुझे ) बता दिया, परन्तु फिर भी मेरा मन सन्देह करता है ।
तुम से चाहने योग्य कोई दीखता ही नहीं ( तो ) चाहा हुआ
कठिनता से मिले ऐसा कैसे हो सकता है ? ॥ ४६ ॥
ENGLISH TRANSLATION --( Thy ) hot sigh have
indicated to me, yet my mind plunges deep into doubt,
there is none who is to be sought after by thee, how
can there be one, who is unavailable when sought
after ? 46.
( १२४ )
PURPORT IN SANSKRIT —वरशब्दश्रवणेन पार्वत्या किञ्चि-
दुत्तरमदत्त्वैव दीर्घोष्णो निःश्वासो गृहीतस्तद् दृष्ट्वा शिषः कथयति
—यद्यपि तव दीर्घोष्णनिःश्वासेनाह विज्ञापितो यत्त्वं वरप्राप्त्यर्थ-
मेव तप आचरसि, तथाप्यस्मिन् विषये मे चित्त सन्देहरहितं
नास्ति, यतो मन्मतौ तु संसारे कश्चिदपि नैतादृश पुमान् यस्त्वया
प्रार्थ्येत ( अभ्यर्थनामर्हति ), पुनरेतादृशस्तु को यस्तव प्रार्थनान्त-
रमपि सुलभतया न लभ्येत । सर्वोत्कृष्टगुणोपेता त्वमेव प्रार्थनीया
न तु त्वयान्ये प्रार्थनीयाः । यदि च त्वं कमपि विशेषं जनमिच्छसि
तर्हि तेन सुलभेन भवितव्यम् ॥ ४६ ॥
अहो स्थिरः कोऽपि तवेप्सितो युवा
चिराय कर्णोत्पलशून्यतां गते ।
उपेक्षते यः श्लथलम्बिनीर्जटाः
कपोलदेशे कलमाग्रपिङ्गलाः ॥ ४७ ॥
अथ पतिप्रार्थनामेव सिद्धवत्कृत्याह । अहो इति । अहो
चित्रम् । तव ईप्सित आप्तुमिष्टः युवा कः अपि स्थिरः कठिनः ।
वर्तत इति शेषः । यः युवा चिराय चिरात्प्रभृति कर्णोत्पलशून्यतां
गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धनाः अत एव
लम्बिन्यस्ताः श्लथलम्बिनीः कलमाग्रपिङ्गलाः कलमाः शालि-
विशेषास्तेषामग्राणि तद्वत्पिङ्गलाः जटाः उपेक्षते । यस्त्वामीदृशीं
दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ॥ ४७ ॥
PROSE ORDER :—तव ईप्सितः कः अपि युवा स्थिरः
(अस्ति) अहो, यः चिराय कर्णोत्पलशून्यतां गते कपोलदेशे
श्लथलम्बिनीः कलमाग्रपिङ्गला जटाः उपेक्षते ॥ ४७ ॥
NOTES :—ईप्सितः—( √ आप् to obtain +सन् +क्तः )
प्राप्तुं काङ्क्ष्यमाण. Desired to be obtained. This is Past
( १२५ )
Passive Participle, used in the sense of the present
tense, of the Desiderative of √ आप् । आ of √ आप् is
changed to ई before सन् suffix by ' आप् ज्ञप्यृधामीत् '
पा० ७ ४ ५५ । In तव, Genitive case is used because the
past passive participle has been used in the sense
of the present tense. Cf ' कस्य च वर्त्तमाने ' पा०
२ ३ ६७ । कः अपि—अविज्ञातनामधेयः, यः कोपि भवेत्
whosoever he may be. स्थिरः—अतिकठिनहृदयः firm ; not
easily moved ; hard अहो—आश्चर्यं इदम् it is strange ;
alas चिराय—बहोः कालात् since long. It is an indeclin-
able word and not the Dative sing. of चिर । Cf.
' चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ' इत्यमरः । कर्णोत्प-
लशून्यताम्—कर्णयोः उत्पलाभ्यां (कर्णावतंसीकृताभ्यां कमलाभ्यां)
शून्य (रहितः) कर्णोत्पलशून्यः, तस्य भावः कर्णोत्पलशून्यता,
ताम् Or, कर्णालङ्कारभूतमुत्पलं तेन शून्य. कर्णोत्पलशून्यस्तस्य
भाव कर्णोत्पलशून्यता, ताम् from which the ear-lotus has
been absent. At times flowers are used particularly
by women living in hermitages, as ornaments. Par-
vati also did so, but since her assuming the life of an
ascetic she gave up the practice. गते—Loc. sing. of
गत past part. Adj. of कपोलदेशे over which the ear-lotus
used to hang. कपोलदेशे—कपोल एव देशः कपोलदेशः,
तस्मिन् over her cheeks. श्लथजम्बिनीः—श्लथाश्च ताः
लम्बिन्यश्च श्लथलम्बिनीः, ताः loose or untied and
(or, therefore hanging लम्बिनीः (√लम्ब्+णिनिः+
ङीप्) is in Acc. plu., declined like नदी । Some books
कु० सं०—१०
( १२६ )
read श्लथबन्धिनोः—श्लथः बन्धो यासां विद्यते ताः श्लथ-
बन्धिन्यः, ताः with their tie loosened कलमाग्रपिङ्गलाः—
कलमानां ( शालिविशेषाणां ) अग्रवत् पिङ्गलाः tawny like
the tips of the blades of paddy कलम is a kind of rice,
known as paddy Both these are Adjectives of जटाः
—Matted hair उपेक्षते—अनादरेण सहते tolerates , is
indifferent towards √ईक्ष् ' to see ' when preceded by
उप means ' to see indifferently ' Shiva means to say
that the bridegroom who is sought after by her must
be very hard-hearted who does not take pity on this
condition of Parvati 47
CHANGE OF VOICE :—तव ईप्सितेन केन अपि यूना स्थिरेण
( भूयते ), अहो, येन चिराय कर्णोत्पलशून्यतां गते कपोलदेशे
श्लथलम्बिन्यः कलमाग्रपिङ्गलाः जटा उपेक्ष्यन्ते ॥ ४७ ॥
HINDI TRANSLATION :—तुम्हारा चाहा हुआ युवक,
चाहे कोई सा हो, कठोर हृदय का है, (क्योंकि) आश्चर्य है
कि वह दीर्घ काल से कर्णफूल की तरह प्रयुक्त कमलों से रहित
गालों पर खुली हुई लटकने वाली तथा धानविशेष की नोक
के समान कपिश वर्ण की जटाओं को उदासीनता से देखता
है ॥ ४७ ॥
ENGLISH TRANSLATION —The young man, who is
desired by thee, must be hard-hearted, (since) it is a
wonder, he can tolerate the matted hair, tawny like
the tips of the blades of paddy, hanging loosely on
(thy) cheeks which have been devoid of ear-lotus since
long. 47
( १२७ )
PURPORT IN SANSKRIT :-यं लक्ष्यीकृत्य त्वं तपः करोषि
स जनो नितरां पाषाणवन् कठोरहृदयः प्रतीयते, यतो यद्यपि त्वया
दीर्घकालं कमलादीनां पुष्पैः कर्णयोर्मण्डनं त्यक्तं तत्स्थाने च
कपोलयोरुपरि कान्तिविशेषवद्दीपद्रकवर्णाः शिथिलबन्धनाः जटाः
धार्यन्ते - सर्वप्रकारेण ते तपस्विनामिव दयनीयाकृतिः-तथापि
स त्वयि दयां न दर्शयति ॥ ४७ ॥
मुनि व्रतैस्त्वामतिमात्रकर्शितां
दिवाकराप्लुष्टविभूषणास्पदाम् ।
शशाङ्कलेखामिव पश्यतो दिवा
सचेतसः कस्य मनो न दूयते ॥ ४८ ॥
मुनिव्रतैरिति। मुनिव्रतै चान्द्रायणादिभिः अतिमात्रकर्शितां
अतिमात्रमत्यन्तं कर्शितां कृशीकृतां दिवाकराप्लुष्टविभूषणास्पदां
दिवाकरेण सूर्येण आप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाच्च
श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां
तथोक्ताम् । अत एव दिवा अहनि शशाङ्कलेखामिव स्थितां त्वां
पश्यतः सचेतस जीवतः कस्य पुंसः मनः न दूयते न परितप्यते ।
अपि तु सर्वस्यैवेत्यर्थः ॥ ४८ ॥
PROSE ORDER :-मुनिव्रतैः अतिमात्रकर्शितां दिवाकराप्लुष्ट
विभूषणास्पदां दिवा शशाङ्कलेखां इव त्वां पश्यतः सचेतसः कस्य
मनः न दूयते ? ॥ ४८ ॥
NOTES :-मुनिव्रतैः-मुनिजनोचितैः व्रतैः by the vows
observed by ascetics (and not by ordinary people.
अतिमात्रकर्शितां-अत्येव अतिमात्रम्, or अतिक्रान्ता मात्रा
यस्मिन् कर्मणि तदतिमात्रम् (अव्ययीभावः), अतिमात्रं कर्शितां
( १२८ )
अतिमात्रकर्शिताम् very much emaciated दिवाकरा'प्लुष्ट-
विभूषणास्पदाम् । दिवाकरः- ( कृ+टः ) दिवा करोति इति
दिवाकरः ( सूर्यः ) the sun आप्लुष्टं - ( आ + √प्लुष् to burn
+क्त. ) दग्धं scorched विभूषणं - ( वि + भूष्-ल्युट् +अन )
विभूष्य त्यनेन इति विभूषण an ornament आस्पदं - स्थानं
a place दिवाकरेण आप्लुष्टानि विभूषणानां आस्पदानि यस्याः
सा दिवाकग'प्लुष्टविभूषणास्पदा, ताम् the places of ornaments
of whose ( body ) have been scorched by the sun
दिवा-दिवसे during the day-time It is an indeclinable
( अव्यय ) । शशाङ्कलेखां-शशः विद्यते अङ्के यस्य सः शशाङ्कः
( चन्द्रः ) तस्य लेखा शशाङ्कलेखा ( चन्द्रकला ), ताम् the
crescent of the moon The simile is very effective—
just as the crescent of the moon is very thin and is
dimmed by the light of the sun so did appear Parvati
who was emaciated and sun-burnt during her observ-
ance of hard vows पश्यतः-अवलोकयतः who sees you.
Genitive sing of पश्यत् pres part. of √दृश् । सचेतसः
—चेतसा सह वर्त्तते इति सचेता, तस्य सचेतसः ( सहृदय )
possessing consciousness or heart; full of feeling.
दूयते—( √डूङ् परितापे +लट् ) suffers pain. It is implied
that Shiva’s mind also was pained at this condition of
Parvati. 48.
CHANGE OF VOICE :—मुनिव्रतैः अतिमात्रकर्शितां दिवा-
कराप्लुष्टविभूषणास्पदां दिवा शशाङ्कलेखामिव त्वां पश्यतः सचे-
तसः कस्य मनसा न दूयते ? ॥ ४८ ॥
HINDI TRANSLATION :—मुनियों के योग्य व्रतों ( के करने )