सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 141, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 141

( १२२ )
निवेदितं निःश्वसितेन सोष्मणा
मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते
भविष्यति प्रार्थितदुर्लभःकथम् ॥ ४६ ॥
वरवाचकाक्षरश्रवणानन्तरमेव देव्या उष्णोच्छ्वासमालक्ष्य
प्रश्नेषु च प्रत्युत्तरमनुपलभ्य स्वयमेवाशङ्क्याह—निवेदितमिति ।
सोष्मणा निःश्वसितेन निःश्वासवायुना निवेदितम् । चिन्तानुभावे-
नोष्णोच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसने-
नेत्याह । मे मन तु तथापि संशयमेव गाहते प्राप्नोति । कुतः । ते
तव । 'कृत्यानां कर्त्तरि वा' इति षष्ठी । प्रार्थयितव्य प्रार्थयितुमर्ह
एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो दुर्लभः स कथं भविष्यति ।
नास्त्येवेत्यर्थः ॥ ४६ ॥
PROSE ORDER :—( यद्यपि ) सोष्मणा निःश्वसितेन निवे-
दितम् मे मन तु संशयं एव गाहते, ते प्रार्थयितव्य एव न दृश्यते,
प्रार्थितदुर्लभः कथं भविष्यति ? ॥ ४६ ॥
NOTES :—On hearing the word husband, Parvati
instead of replying to the question simply heaved a
sigh, which led Shiva to conclude that she was prac-
tising penance in order to procure a suitable husband
But the conclusion was not without doubt, so he
continues his enquiry सोष्मणा—ऊष्मणा सह वर्तत इति
सोष्म, तेन सोष्मणा ( उष्णेन ) warm ऊष्मन् ( heat )
masc gender is declined as—ऊष्मा, ऊष्माणौ, ऊष्माणः ।
ऊष्माणं, ऊष्माणौ, ऊष्मणः । ऊष्मणा, ऊष्मभ्यां, ऊष्मभिः etc.
निःश्वसितेन—( निस्+√श्वस्+क्तः ) निःश्वासेन sigh ;