सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

द्वितीयं जवनिकान्तरम् ५९
विदूषकः—देव ! इदं परमत्थ विष्णवीअदि,—
जिस्सा दिट्ठी संरलधवला कज्जलं तीअ जोग्गं
जा णिन्थिण्णत्थणकलसिणी रेहइ तीअ हारो ।
चक्राआरे रमणफलए को वि फंचीमरट्टो
जिस्सा तिस्सा पुण वि भणिमो भूसणं दूसणं च ॥ २३ ॥
राजा—( पुनन्नामुपधाय । )
तिवलिवलियणाहीगाहमूलेसु लग्गं
थणकलसणिभगाडम्बररेसुसमंत ।
विदूषकः—
देव ! एतत्परमार्थं विज्ञाप्यते,—
यस्या दृष्टिस्तरळधवला कज्जलं तस्या योग्यं
या निस्तीर्णस्तनकलशिनी शोभते तस्या हारः ।
चक्राकारे रमणफलके कोऽपि काञ्च्याडम्बरो
यस्यास्तस्याः पुनरपि भणामो भूषणं दूषणं च ॥
यदेतादृशं दृष्ट्यादि कान्तायान्तिष्ठति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभा-
विकोऽवभासत एवेति नातिप्रयोजनवत्त्वाद्वूषणमपि दूषणमिव भवतीति दूषणभूष-
णयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमिव भवति । अयमर्थः—
एतादृशदृष्ट्यादिमत्या अष्ठमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति, शोभा-
हरित्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि
कथितम्—‘किमिव हि मधुराणां मण्डनं नाकृतीनाम्’ (शाकु० १।२०) इति ।
राजा—
त्रिवलिवलितनाभीगाढमूलेषु लग्नं
स्तनकलशनिभागाडम्बरेष्वनुसमन्तम् ।
१ विससण इदं पत्थ मिति पाठः क्वचित् पठ्यते । २ ‘तरलधवळा’ इति टीका-
युक्तः ।

६० कर्पूरमञ्जरी
जलणिबिडमिमीए लण्हअं ण्हाणपोसं
पिसुणदि तणुलच्छीलंगिमं चंगिमं च ॥ २४ ॥
विदूषकः—(सक्रोधमिव ।) भो ! मए सव्वालंकारसहिदा वण्णिदा ।
तुमं पुण जलविलुत्तपसाहणं जेव सुमरसि । ता किं ण सुदं देवेण ?
णिस्सग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं ।
मणीणं जच्चाणं वि कंचणेण विभूसणे लब्भदि का वि लच्छी ॥ २५ ॥
राजा—
मुद्धाण णाम हिअआईं हरंति हंत
णेवच्छकप्पणगुणेण णिअंबिणीओ ।
छेआ पुणो पअइचंगिमभावणिज्जा
दक्खारसो ण मधुरज्जइ सक्कराए ॥ २६ ॥
जलनिबिडमेतस्याः श्लक्ष्णं स्नानपोषं
पिशुनयति तनुयष्टितारुण्यं चङ्गिमानं च ॥
'लंगिमं' तारुण्यमिति देशी ।
विदूषकः—
भोः ! मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जंलविलुप्तप्रसाधनामेव स्मरसि ।
तत्किं न श्रुतं देवेन ?
निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ।
मणीनां जात्यानामपि काञ्चनेन विभूषणे लभ्यते कापि लक्ष्मीः ॥
राजा—
मुग्धानां नाम हृदयानि हरन्ति हन्त
नेपथ्यकल्पनगुणेन नितम्बिन्यः ।
च्छेकाः पुनः प्रकृतिचङ्गिमभावनीया
द्राक्षारसो न मधुरीयति शर्करया ॥
येषां हृदयानि नेपथ्यकल्पनगुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवे-
त्याशयः । ये पुनः प्रकृत्या स्वभावेन यच्चङ्गिमा सौन्दर्यं यासां नितम्बिनीनां सा
1 'णिरन्त...' इति टीकायुतः पाठः । 2 'मधुरि' इति टीकायुक्तः पाठः ।

द्वितीयं जवनिकान्तरम् ६१
विचक्षणा—जधा देवेण आदिद्वं,—
थोराणं थणआण कण्णकलिआलंघीए अच्छीण वा
भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स अ ।
को णेवच्छकलाअ कीरदि गुणो जं तं पि सव्वं पिअं
संजुत्तव्वं सुण तत्थ कारणमिमं रुढीअ का खंडणा ॥ २७ ॥
राजा— (विदूषकमुद्दिश्य ।) सुप्पंजल कविंजल! एस सिक्खावीअसि ।
किं कज्जं कित्तिमेणं विरअणविधिणा सो णटीणं विडंबो
तं चंगं जं णिसग्गं जणमणहरणं तेण सीमंतिणीओ ।
भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं स्वभावसौन्दर्यस्य, शर्करा-
साम्यं भूषणानामुपदर्शितम् ।
विचक्षणा—
यथा देवेनादिष्टम्,—
स्थूलानां स्तनानां कर्णकलिकाल्लङ्घिनोरक्षणोर्वा
भ्रूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च ।
को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्वं प्रियं
संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना ॥
रूढिर्यौगमपवदतीति यथा रूढेर्योगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति
भावः ।
राजा—
सुप्राञ्जल कपिञ्जल ! एष शिक्ष्यसे ।
सुप्राञ्जलः सुसरलः । तथा च चातुर्यलेशोऽपि तव नास्तीति भावः ।
किं कार्यं कृत्रिमेण विरचनविधिना स नटीनां विडम्ब-
स्तच्चङ्गं यन्निजार्ङ्ग जनमनोहारं तेन सीमन्तिन्यः ।
१ अत्र 'भूचंदरस मुहस्स कंति' इति टीकारामुद्रतः पाठः। २ अत्र 'संजुत्तं' इति
टीरायुक्तः पाठः। ३ अत्र 'णिजंगं' इति टीकारामुद्रतः पाठः ।

६२ कर्पूरमञ्जरी

जस्सिं सव्वंगसंगो सअलगुणगणो सो अदंभो अलंभो
तस्सिं णेच्छंति काले परमसुहअरे किं पि णेवच्छलच्छिं २८॥
विचक्षणा—देव ! इदं विण्णवीअदि—ण केवलं देवीणिअमेण
तिस्सा अणुगद म्हि । तारामेत्तीए वि सहित्तणं उंवगदा कप्पूरमंजरीए ।
तेण तकज्जसज्जा अहं पुण ओलग्गाविआ भविस्सं ।
यस्मिन्सर्वाङ्गसङ्गः सकलगुणगण सोऽदम्भोऽलभ्य-
स्तस्मिन्नेच्छन्ति काले परमसुखकरे कामपि नेपथ्यलक्ष्मीम् ॥
कृत्रिमभूषाभिर्नटीनामेवापाततः सौन्दर्यमुल्लसति, न पुनः सीमन्तिनीनामित्यर्थः ।
यच्चाङ्गं समीचीनं तदेव निजाङ्गं स्वस्यात्माह्लादकमित्याह्लादकत्वविशिष्टान्तेऽङ्गमानवान-
काङ्गपदवाच्यसक्रमादयमर्थान्तरसक्रमितवाच्यो लक्षणागूलो ध्वनि । तेन स्वाभावि-
काङ्गसौन्दर्येणैव सीमन्तिन्य कुलाङ्गना जनमनोहरणं भवन्तीत्यर्थ । यद्यपि 'जनमनो-
हरणम्' इति भिन्नलिङ्गवचनं पदं न 'सीमन्तिन्य' इति पदस्य विशेषणत्वमर्हति, तथापि
षत्तुपदाध्याहारेण योज्यम् । तस्य चाजहल्लिङ्गत्वान्न दोष इति ध्येयम् । अथवा
जनमनोहरणमिति काकाक्षिगोलकन्यायेनोभयत्र सम्बध्यते । तथा च यन्निजाङ्गं
स्वाभाविकामं यत्तदेव जनमनोहरणं भवतीत्यर्थ । यदा पूर्वेनैव सम्बध्यते तदा च
तेन स्वाभाविकाङ्गचकृत्वेनैव सीमन्तिन्यो भवन्ति । तासामुक्तसीमन्तिनीत्वं भवती-
त्यर्थः । तथा च 'सीमन्तिनी'पदवाच्यसंबधोत्तमत्वविशिष्टे तस्मिन्सक्रमादनापयर्या-
न्तरसक्रमितवाच्यो ध्वनि । यस्मिन्काले सकल सम्पूर्णो गुणाना गण समूहः सर्वाङ्ग-
सङ्ग सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः
स्वाभाविकः, अलभ्योऽप्राप्योऽस्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्य-
लक्ष्मीं नेच्छन्ति । विदग्धा इति शेष । निजाङ्कमित्येकवचनेनैकमाप स्वाभाविक-
सुन्दरमङ्गं लोकहृदयहरणसमर्थं किमुत सर्वाङ्गीणीति ध्वन्यते । अत्र च नटीसीम-
न्तिन्योर्व्यतिरेकालंकारो व्यङ्ग्यः । छेकास्त्यनुप्रासातालङ्कारावप्यत्र बोध्यौ । तल्लक्षणं
प्रागेवोक्तम् ।
विचक्षणा—
देव ! एतद्विज्ञाप्यते—न केवलं देव्या नियोगेन तस्या अनुगतास्मि । तारा-
मैत्र्यापि सखीत्वं प्राप्ता कर्पूरमञ्जर्याः । तेन तत्कार्ये सज्जाऽहं पुनः सेवरीभूय
निवेशयिष्यामि ।
1 'देवीद निओएण' इति टीकानुमारी पाठः । 2 'पत्ता कप्पूरमञ्जरीए' इति टीश-
रूपपाठः । 3 'भवित्त णिवेइस्स' इति टीशपाठः ।

द्वितीयं जवनिकान्तरम् ६३
तिस्सा तापपरिक्खणाअ णिहिदो हत्थो थणुत्थंगदो
दाहुट्टामरिदो सहीहि बहुसो हेलाअ कट्ठिज्जदि ।
किं सेणावि इमं णिसागय गिरं संतोसणिं तासिणिं
हत्थच्छत्तणिवारिदिन्दुकिरणा बोलेइ सा जामिणीं ॥ २९ ॥
कज्जसेसं कविंजलो णिवेदइस्सदि । तं च देवेण सहा कादव्वं । ( इति
परिक्रम्य निष्क्रान्ता ।)
राजा—वअस्स ! किं पुण तं कज्जसेसं ?
विदूषकः—अज्ज हिंदोलअचउत्थी । तहिं गोरिं कट्टुअ देवीए
तस्यास्तापपरीक्षणाय निहितो हस्तः स्तनोत्सङ्गगतो
दाहोत्तामरितः सखीभिर्बहुशो हेलया कृष्यते ।
किं सैनापीमां निशामय गिरं संतोषिणीं त्रासिनीं
हस्तच्छत्रनिवारितेन्दुकिरणानिवाहयति सा यामिनीम् ॥
हेलयाऽवज्ञया कृष्यते तयेति शेषः । स्वसरन्धिविरहार्तिभाजनत्वेन । त्रासिनी-
मिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरा निवारयतीति त्रेषा हस्तस्प-
र्शोऽशङ्कनीयमपि मरणादिकं समाधत्त इति त्रासकरत्वम् । अथवा बलात्कारेण यथेन्दु-
किरणस्पर्शो भवति तथा विधत्त इत्यतिदुष्करमिति त्रासकरणं ज्ञेयम् । यद्वा हस्त-
च्छत्रेत्यनेन हस्तस्य सम्पूर्णशरीरे चन्द्रकरस्पर्शानिवारकत्वासंभवादात्मानवच्छन्नप्रदेशे
शशिकरस्पर्शावश्यभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसन्ध्यङ्गमु-
क्तम् । तल्लक्षणं दशरूपके (१।२८)—'विधानं सुखदुःखकृत्' इति । अत्रापि
रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा ऊह्याः । लक्षणं तूक्तम् ।
कार्यशेषं कपिञ्जलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् ।
कपिञ्जलो विदूषकः ।
राजा—
वयस्य ! किं पुनस्तत्कार्यशेषम् !
विदूषकः—
अद्य हिन्दोलनचतुर्थी । यत्र गौरीं कृत्वा देव्या कर्पूरमञ्जरी हिन्दोलके आरोह-

६४ कर्पूरमञ्जरी
कप्पूरमंजरी हिंदोलए आरोइदव्वा । ता मरगअपुंजट्ठिदेण ज्जेव देवेण
कप्पूरमंजरी हिंदोलयंती दट्ठव्वा । एदं तं कज्जसेसं ।
राजा—( विचिन्त्य ।) ता अदिणिउणा वि छलिदा देवी ।
विदूषकः—पाइदा जुण्णमज्जारिआ दुद्धं त्ति तकं ।
राजा—वअस्स ! को अण्णो तुम्हाहिंतो मे कज्जसज्जो ? को
अण्णो चंदाहिंतो समुद्दवड्ढणणिट्ठो ?
( इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः । )
विदूषकः—इअं उत्तुंगा फलिहमणिवेदिया । ता इह उवविसदु
पिअवअस्सो ।
( राजा तथा करोति ।)
विदूषकः—( हस्तमुद्यम्य ) भो दीसदु पुण्णिमाचंदो ।
राजा—( विलोक्य ।) अए ! दोलारूढाए मह वल्लहाए वअणं
पुण्णिमाचंदो त्ति णिद्दिसदि । ( समन्तादवलोक्य । )
यितव्या । तन्मरकतपुञ्जस्थितेनैव देवेन कर्पूरमञ्जरी हिन्दोलयंती द्रष्टव्या । एतत्-
त्कार्यशेषम् ।
राजा—तदतिनिपुणापि छलिता देवी ।
विदूषकः—पायिता जीर्णमार्जारिका दुग्धमिति तक्रम् ।
मरकतपुञ्जः प्रासादविशेषः ।
राजा—कोऽन्यो युष्मत्तो मम कार्यसज्जः ? कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्ठः ?
विदूषकः—
इयमुत्तुङ्गा स्फटिकमणिवेदिका । तदिहोपविशतु प्रियवयस्यः ।
विदूषकः—
भोः ! दृश्यतां पूर्णिमाचन्द्रः ।
राजा—
अए ! दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशति ।

द्वितीयं जवनिकान्तरम् ६५
विच्छाअंतो णअररमणीमंडलस्साणणाई
विच्छालँतो गअणकुहरं कंतिजोण्हाजलेण ।
पेच्छंतीणं हिअअणिहिदं णिद्दलंत्तो अ दप्पं
दोलालीलासरलतरलो दीसए से मुहेंदू ॥ ३० ॥
अवि अ,—
उत्तोहिं गोउरेहिं धुअवधवलवडाडंयरिल्लावलीहिं
घंटाहिं विंदुरिल्हासुरतरणिविमाणाणुसारं लहंती ।
पाआरं लंघअंती कुणदि रववसा उण्णमंती णमंती
एंती जंती अ दोला जणमणहरणी चुट्टँणुव्वुट्टणेहिं ॥ ३१॥
विच्छाययन्नगररमणीमण्डलस्याननानि
प्रक्षालयन् गगनकुहरं कान्तिज्योत्स्नाजलेन ।
प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्पं
दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः ॥
विच्छाययन् विगतच्छायानि कुर्वन्, म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना
चन्द्रिका तया जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रक्षालयन् । जलेन
क्षालनमुचितमेवेति भावः । 'सरलतरल' इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः ।
अत्र रूपकश्लेषानुवृत्त्यनुप्रामरूपाः शब्दार्थालंकारा विभाव्याः । स्पष्टमन्यत् ।
अपि च,—
उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरवद्धावलीषु
घण्टाभिर्विदारणसुरतरणिविमानानुसारं वहन्ती ।
प्राकारं लङ्घयन्ती करोति रववशादुन्नमन्ती नमन्ती
आयान्ती यान्ती च दोला जनमनोहरं कर्णोत्पत्यणैः ॥
धवलध्वजपटाडम्बराणां बद्धा आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु
घण्टाभिर्दर्शितं विदारं वेगेन गच्छत्सुरतरणिविमानं देवाहनावमानं तदनु-
रूपं तत्तुल्यं प्राकारं वहन्ती विभावा । कर्णोत्पत्यणैः रववशाल्लङ्घयन्ती । राहत्वम-
१ 'पच्छावेन्तो' इति टीकानुगतः पाठः । २ 'धवलध्वजपडाडम्बरी' इति टीकानुगतः
पाठः । ३ 'करणे कहुणुवट्ठणेहिं' इति टीकानुगतपाठः ।
क० ग० ०

६६ कर्पूरमञ्जरी
अवि अ,—
रणंतमणिणेउरं झणझणंतहारच्छडं
कलक्कणिदकिंकिणीमुहरमेहलाडंबरं ।
विलोलवलआवलीजणिदमंजुसिंजारवं
ण कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ ३२ ॥
विदूषकः—भो ! सुत्तआरो तुवं । अहं पुण वित्तिआरो भविअ
वित्थरेण वण्णेमि ।
नादुज्जमन्ती ऊर्ध्वं गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला
कस्य कामिनो मनोहरं न करोति ? अपि तु सर्वस्य विधत्त इति काक्वर्थः । इयं
च दोलारूपवर्णनाजातिः । तल्लक्षणं काव्यादर्शो दण्डिनोक्तम् ( २।८ )—
'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या साऽलंकृति-
*र्यथा ॥' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः ।
अपि च,—
रणन्मणिनूपुरं झणझणायमानहारच्छटं
कलक्वणितकिङ्किणीमुखरमेखलाडम्बरम् ।
विलोलवलयावलीजनितमञ्जुशिञ्जारवं
न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥
शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न, मनो मानसं मोहयति
तदेतादृशं न ? अपि तु सर्वस्यापीति यावत् । किम्भूतम् ? रणन्तो मणयो ययोस्ते
रणन्मणी, रणन्मणी नूपुरे यत्र तत् । झणझणायमाना हारच्छटा यत्र । इत्यादी-
नामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा,—शशिमुख्या रणन्नू-
पुरादिभ्यस्य मनोमोहनं नेति प्रत्येकमत्र विधिः । तदा दोलनाशे प्रचण्डमन्थाने
स्परगम् । 'रण शब्दे' । 'झणझणायमानं' इत्यादि शब्दानुकरणम् । अत्राप्यनुप्रास-
जात्याद्याः शब्दार्थालंकारा ज्ञेयाः ।
विदूषकः—
भोः ! सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि ।
सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव तल्लक्षणमुक्तमभियुक्तैः—
'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो
विदुः ॥' इति ।

द्वितीयं जवनिकान्तरम् ६७
उत्तरिट्टिअथणग्गब्भारचेपिअं चरणपंकआण जुअं ।
पुक्कारइ व मअणं रणंतमणिणेउररवेण ॥ ३३ ॥
हिंदोलणलीलाललणलंपडं रह चकयकलं रमणं ।
किलिकिलइ व सहरिसं कंचीमणिकिंकणिरवेण ॥ ३४ ॥
तारंदोलणहेलामलंतसरिअच्छलेण से हारो ।
विक्किरइ व कुसुमाउहणरवइणो कित्तिवल्लीओ ॥ ३५ ॥
संमुहपवणपओहिययरिल्लदरदंसिआई अंगाई ।
हक्कारिऊण मअणं पासम्मि णिवेसअंति व ॥ ३६ ॥
ताडंकजुअं गंटेसु बहलघुसिणेसु घडणलीलाहिं ।
देइ व दोलंदोलणरेहाओ गणणकोट्टेण ॥ ३७ ॥
उत्तरिखितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः ।
पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥
एतन्मणिनूपुररवश्रवणसमकालमेव रागिणां मदनकृता मनोविद्रुदना भवतीति
भावः । अत्रापि जात्युत्प्रेक्षे अलङ्कारौ ।
हिन्दोलनलीलाललनलम्पटं चक्रवकुलं रमणम् ।
किलिकिलायतीव सहर्षं काञ्चीमणिकिङ्किणीरवेण ॥
अत्रापि किलिकिलायति शब्दानुकरणम् । रमणं जपनम् ।
दोलान्दोलनलीलामलत्सरिदाच्छलेनास्या हारः ।
विसारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥
सरित् मुक्तापङ्क्तिः । अत्रोत्प्रेक्षालेङ्कारः ।
संमुखपवनप्रेरितोपरिग्रहे दरदर्शिताम्यङ्गानि ।
आह्वाय मदनं पार्श्वे निवेशयन्तीव ॥
अत्रापि स एवालङ्कारः ।
ताटङ्कयुगं गण्डयोर्बहलघुसृणसंर्घटनलीलाभिः ।
ददातीव दोलान्दोलनरेखा गणनाकोष्ठकेन ॥
अत्राप्युत्प्रेक्षालङ्कारः ।
१ "उत्तरिट्ठिअथणवग्गभारचेपिअं" इति रीशपाठः । २ 'दोलंदोलन' इति टी० पाठः ।

६८ | कर्पूरमञ्जरी

णअणाईं पसइसरिसाईं झत्ति फुल्लाईं कोदूहलेण ।
अप्पेंति व कुवलअसिलिम्मुहे पंचवाणस्स ॥ ३८ ॥
दोलारअविच्छेओ कहं पि मा होदि इत्ति पडइ व ।
पिट्ठिम्मि वेणिदंडो मम्महचम्मट्टिआअंतो ॥ ३९ ॥
इअ एआई विलासुज्जलाईं दोलापवंचचरिआईं ।
कस्स ण लिहइ व चित्ते णिउणं कंदप्पचित्तअरो ॥ ४० ॥
राजा—(सविषादम् ।) ²अंवइण्णा कप्पूरमंजरी ? रिक्ता दोला, रित्तं
अ मज्झ चित्तं, रित्ताईं दंसणुस्सुअजणणअणाईं ।
विदूषकः—ता विज्जलेह व खणदिट्ठणट्ठा ।
नयने प्रसृतिसदृशे झटिति फुल्ले कौतूहलेन ।
अर्पयत इव कुवलयशिलीमुखे पञ्चबाणस्य ॥
कुवलये एव शिलीमुखौ शरौ । कुसुमशरत्वादस्येति भावः । रूपकमुत्प्रेक्षा
चालंकारः । तल्लक्षणं तु पूर्वोक्तमेव ।
दोलारसविच्छेदः कथमपि मा भवत्विति पततीव ।
पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः ॥
अत्रापि रूपकोत्प्रेक्षे ।
इत्येतानि विलासोज्ज्वलानि दोलाप्रपञ्चचरितानि ।
कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः ॥
इत्यमुना प्रकारेणैतानि दोलाप्रपञ्चचरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता
कस्य कामिनश्चित्ते न लिखति ? अपि तु सर्वस्यापीत्यर्थः । किंभूतानि ? विलासा
उज्ज्वलाः शुचयो येषु तानि । विलास उज्ज्वलश्च येषु तानीति वा । 'शृङ्गारः शुचि-
रुज्ज्वलः' इति कोषात् । अत्र रूपकम् ।
राजा—
कथमवतीर्णा कर्पूरमञ्जरी ? रिक्ता दोला, रिक्तं च मम चित्तम्, रिक्तानि दर्श-
नोत्सुकानि मम नयनानि ।
विदूषकः—
तद्विद्युल्लेखेव क्षणदृष्टनष्टा ।
१ 'इह चित्ते' इति टीकापाठः । २ 'कथमवइण्णा' इति टीकाभिमतः पाठः ।

द्वितीयं जवनिकान्तरम् ६९
राजा—मा एवं भण । हरिअंदपुरी व दिट्ठा पणट्ठा अ ।
( स्मृतिनाटिकेन । )
मंजिट्ठी ओट्ठमुद्दा णवघडिसुवण्णगुज्जला अंगलट्ठी
दिट्ठी वालेंदुलेहाधवलिमजअणी कुंतला कज्जलाहा ।
इत्थं वण्णाण रेहा विहरइ हरिणीचंचलच्छी अ एसा
कंदप्पो ^२जायदप्पो जुअजणजअणे पुण्णलक्खो ^३विभाइ ॥४२॥
राजा—
मैवं भण ! हरिश्चन्द्रपुरीव दृष्टा प्रनष्टा च ।
स्मृतीरिति । स्मृतिलक्षणमुक्तं प्राक् ।
मंजिट्ठी इति ।
माञ्जिष्ठी ओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टि-
र्दृष्टिर्बालेन्दुरेखाधवलिमजयिनी कुन्तलाः कज्जलाभाः ।
इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैषा
कन्दर्पो दीर्घदर्पो युवजनजये पूर्णलक्ष इव भाति ॥
माञ्जिष्ठीत्यनेन मञ्जिष्ठानिष्ठरक्ततानिशमयवत्पमयोष्ठमुद्रायां व्यज्यते । नवा घटना
यस्येति बहुव्रीहिः । तथा च तादृशस्वर्णनिर्मितत्वान्निश्चयस्तदतिशयवत्त्वमङ्गेषु व्यज्यते।
यष्टिरूपरेख च तन्निष्ठाधिककृशत्वमङ्गेषु द्योत्यते । 'इन्दुरेखा' इत्यनेन चारुलङ्घित्वं
ज्ञाय्यते । 'कज्जलाभा' इत्यनेन कज्जलनिष्ठनीलिमातिशयवत्त्वं कुन्तलेष्वभिव्यज्यते ।
अथवा कज्जले आभा येषामिति विपर्यासोपमा, तल्लक्षणं काव्यादर्शो दण्डिनोक्तम्
(२।१७) 'सा प्रसिद्धिविपर्यासाद्विपर्यासोपमोच्यते ।' इति । इत्थमनिर्वचनीयाः ।
'रेखा'पदेन शोभापरम्परानिष्ठोऽतिशयो विशिष्यो लक्ष्यते । दीर्घो दर्पोऽस्यास्तीति दीर्घदर्पः ।
अनेन च लक्ष्यसाधनीकरणे क्लेशलेशस्याप्यभावात्प्रकर्षवत्त्वेऽपि न क्षीण इति भावः ।
पूर्णलक्ष्यत्वं स्वाधीनं यावल्लक्ष्यत्वमेव । अत्रापि रूपकोपमोत्प्रेक्षानुक्रमलक्षणाः
शब्दार्थालङ्कारा ज्ञेयाः ।
१ 'नवघटनसुवर्णगुज्जला' इति टीकासम्मतः पाठः । २ 'दीर्घदप्पो' इति टीकानुसारी
पाठः । ३ 'व्व भादि' टीकापाठः ।

७० कर्पूरमञ्जरी
विदूषकः— एदं तं मरगअपुंजं । इह उवविसिअ पिअवअस्सो
पडिवालिदु तं । सञ्झा वि संणिहिदा वट्टदि ।
( उभौ तथा कुरुतः । )
राजा— अइसिसिरं पि हिमार्णि संतावदाइणिं मज्झण्णवेलं अणु-
हवामि ।
विदूषकः— ता लच्छीसहअरो खणं चिट्ठदु देवो, जाव अहं सिसि-
रोवआरसामग्गिं संपादेमि । ( इति नाट्येन निष्क्रम्य पुरोऽवलोक्य च । ) किं
पुण एसा विअक्खणा इदो णिअडिआ आगच्छदि ।
राजा— संणिहिदो सकेदकालो कहिदो $^१$मंतीहिं पि । ( स्मृत्वा ।
मदनावस्थामभनीय । )
किसलअकरचरणा वि हु कुवलअणअणा मिअंकवअणा वि ।
अहह णवचंपअंगी तह वि हु तावेइ अच्चरिअं ॥ ४२ ॥
विदूषकः—
एतत्तन्मरकतपुञ्जम् । इहोपविश्य प्रियवयस्यः प्रतिपालयतु ताम् । संध्यापि
संनिहिता वर्तते ।
वयस्येति समुद्दिष्टः । 'विदूषकेण वक्तव्यो वयस्येति च भूपतिः ।' इत्युक्तेः ।
राजा—
अतिशिशिरामपि हिमानीं संतापदायिनीं ( मध्याह्नवेलां ) अनुभवामि ।
'हिमानी हिमसंहति ' इति त्रिकाण्डी ।
विदूषकः—
तल्लक्ष्मीसहचरः क्षणं तिष्ठतु देवः, यावदहं शिशिरोपचारसामग्रीं संपादयामि ।
किं पुनरेषा विचक्षणा इतो निकटा आगच्छति ।
तल्लक्ष्मीः तत्कान्तिः, तन्मात्रसहाय इत्यर्थः ।
राजा—
सन्निहितः संकेतकालः कथितो मन्त्रिभ्यामपि ।
किसलयकरचरणापि खलु कुवलयनयना मृगाङ्कवदनापि।
अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥
१ 'सहीहिं' इति पाठः ।

द्वितीयं जवनिकान्तरम् ७१
विदूषकः— ( सम्यगवलोक्य । ) अहो, विअक्खणा सिसिरोवआरेसा-
मग्गीसहिदा आवदा ।
( तत प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा । )
विचक्षणा— ( परिक्रम्य । ) अहो, पिअसहीए महंतो खु विरहदा-
हज्जरो ।
विदूषकः— ( उपसृत्य । ) भोदि ! किं एदं !
विचक्षणा—सिसिरोवआरसामग्गी ।
विदूषकः—कस्स कदे ?
अत्रापि छेकानुप्रासविभावना रूपका ऽहेतुसङ्कररूपा शब्दार्थालङ्कारा ऊह्या ।
विभावनालक्षणमुक्तमभियुक्तै —'कारणाभावेऽपि कार्योत्प्नेशे विभावना' इति ।
अहेतुलक्षणमप्युक्तम्—'कारणे सत्यपि कार्याभावोऽहेतु' इति । अन्येव सञ्ज्ञा
विशेषोक्तिरिति काव्यप्रकाशे । सङ्करलक्षणमप्युक्तम्—'स्वातन्त्र्येणाङ्गभावेन गदाद्ये-
नेऽप्येन वाऽलङ्काराणामेकत्रोपस्थानं सङ्कर' इति ।
विदूषकः—
अये, विचक्षणा शिशिरोपचारसामग्रीसहितहस्तागता ।
'नानुचितस्य पात्रस्य प्रवेश' इति पूर्वमेव विदूषकमुखेन सूचनम् ।
विचक्षणा—
अहो, प्रियसख्या महान्खलु विरहदाहज्वर ।
विदूषकः—
भवति ! किमेतत् ?
विचक्षणा—
शिशिरोपचारसामग्री ।
विदूषकः—
कस्य कृते ?
१ 'सामग्गीसहिदहत्था' इति टीकानुगुण पाठः ।

७२ कर्पूरमञ्जरी
विचक्षणा—पिअसहीए कदे ।
विदूषकः—ता मह वि अद्धं देहि ।
विचक्षणा—किं णिमित्तं ?
विदूषकः—महाराअस्स कदे ।
विचक्षणा—कि पुण कारणं तस्स ?
विदूषकः—कप्पूरमंजरीए वि कि ?
विचक्षणा—किं ण जाणासि महाराअस्स दंसणं ?
विदूषकः—तुवं पि किं ण जाणासि महाराअस्स कप्पूरमंजरीए
दंसणं ?
( इत्युभौ हसतः । )


विचक्षणा—
प्रियसख्याः कृते ।
विदूषकः—
तन्माप्यर्धं देहि ।
विचक्षणा—
किं निमित्तम् ?
विदूषकः—
महाराजस्य कृते ।
विचक्षणा—
किं पुनः कारणं तस्य ?
विदूषकः—
कर्पूरमञ्जर्या अपि किम् ?
कारणमिति पूर्वतनाध्याहारः ।
विचक्षणा—
किं न जानासि महाराजस्य दर्शनम् ?
विदूषकः—
त्वमपि किं जानासि महाराजस्य कर्पूरमञ्जर्या दर्शनम् ?

द्वितीयं जवनिकान्तरम् ७३
विचक्षणा—ता कहिं महाराओ ?
विदूषकः—तुह वअणेण मरगअपुंजे चिट्ठदि ।
विचक्षणा—ता महाराएण सह मरगअपुंजदुआरे चिट्ठ खणं,
जेण उहअदंसणे जादे सिसिरोवआरसामग्गीए जलंजली दिज्जदि ।
विदूषकः—(तामुपसृत्य ।) तर्हि गच्छ जदो णागच्छसि ।
(इति स्थितः ।) (पुनस्तां प्रति ।) ता कीस दुआरदेसे भविदव्वं ?
विचक्षणा—देवीए आदेसेण कप्पूरमंजरी समाअच्छदि ।
विदूषकः—किं तीए आदेसो !
विचक्षणा—तहि देवीए बालतरुणो तिण्णि आरोविदा ।
विचक्षणा—
तात्कुत्र महाराजः !
विदूषकः—
तव वचनेन मरकतपुञ्जे तिष्ठति ।
विचक्षणा—
तन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ठ क्षणम्, येनोभयदर्शने जाते शिशिरोप-
चारसामग्र्या जलाञ्जलिर्दीयते ।
विदूषकः—
तत्र गच्छ यतो नागच्छसि । तत्किं द्वारदेशे भवितव्यम् ?
विचक्षणा—
देव्या आदेशेन कर्पूरमञ्जरी समागच्छति ।
विदूषकः—
किं तस्या आदेशः !
विचक्षणा—
तत्र देव्या बालतरवस्त्रय आरोपिताः ।

७४ कर्पूरमञ्जरी

विदूषकः—के के ?
विचक्षणा—कुरवअतिलअसोआ ।
विदूषकः—ता. किं तेहि ?
विचक्षणा—भणिदा सा देवीए । जधा,—
कुरवअतिलअअसोआ आलिंगणदंसणग्गचलणहआ ।
विअसन्ति कामिणीणं ता ताणं देहि दोहलअ ॥ ४३ ॥
एण्हि तं संपादिस्सदि ।
विदूषकः—
कः कः ?
विचक्षणा—
कुरबकतिलकाशोकाः ।
विदूषकः—
तत्किं तैः ?
विचक्षणा—
भणिता सा देव्या । यथा,—
कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः ।
विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ॥
यतस्मात्कारणात्कामिनीनामालिङ्गनदर्शनाग्रचरणहता सन्तः कुरबकादयो वृक्षा
विकसन्ति उत्फुल्ला भवन्ति, तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम् ।
यद्वा,—तदिदमिति तच्छब्देन पूर्वोक्तालिङ्गनादि परामृश्य योज्यम्, तदा न
यत्पदाध्याहारः । कुरबकद्रुमस्य कामिन्यालिङ्गनादिश्रयेणैव विकासो योग्येन इति
कविप्रदायः । तथोक्तम्—'पादाहतः प्रमदया विगलत्प्रसूनः शोकं जहाति
बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकासमालोकितस्तिलक
उत्कलिको विभाति ॥' इति । 'आलिङ्गनेनैव गुणानुरागाः प्रफुल्तां ये तिलकः

द्वितीयं जवनिकान्तरम् ७५
विदूषकः—ता मरगअपूंजादो पिअवअस्सं आणिअ तमालविड-
वंतरिअं ठाविअ एदं पच्चक्खं करइस्सं । (तथा नाटयित्वा । राजानं प्रति । )
भो भो, उट्ठिअ पेक्ख णिअहिअअसमुद्दचंदलेहं ।
( राजा तथा करोति । )
( ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमञ्जरी । )
कर्पूरमञ्जरी—कहि पुण विअक्खणा ?
विचक्षणा—( सामुपसृत्य । ) सहि ! कीरदु देवीए समादिट्ठं ।
राजा—वअस्स ! किं पुण तं ?
विदूषकः—तमालविडवंतरिदो भविअ जाण ।
( राजा तथा करोति । )
प्रयाति । अधोवशापी पुनरद्विपार्तिर्निवेशाशी विरलो हि लोके ॥' इति च ।
अत्रापि देशानुरागः ।
इदानीं रूपेपादयिष्यति ।
विदूषकः—
तन्मरकतपुञ्जात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतत्प्रत्यक्षं
कारयिष्यामि । भो भोः, उत्थाय प्रेक्षस्व निजहृदयसमुद्रचन्द्रलेखाम् ।
निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कर्पूरमञ्जरी ताम् ।
कर्पूरमञ्जरी—
क्व पुनर्विचक्षणा ?
विचक्षणा—
सखि ! क्रियतां देव्या समादिष्टम् ।
कुरबकादीनां दोहददानमित्यर्थः ।
राजा—
वयस्य ! किं पुनस्तत् ।
विदूषकः—
तमालविटपान्तरितो (भूत्वा) जानीहि ।

७६ कर्पूरमञ्जरी
विचक्षणा—एस कुरवअतरू ।
( कर्पूरमञ्जरी तमालिङ्गति ।)
राजा—
णवकुरवअरुक्खो कुंभथोरत्थणीए
रहसविरइदेणं णिब्भरालिंगणेणं ।
तह कुसुमसमिद्धिं लंभिदो सुंदरीए
जह भसलउलाणं पेत्थ जत्ता समत्ता ॥ ४४ ॥
विदूषकः—भो, पेक्ख पेक्ख महेंदजालं । जेण,—
बालो वि कुरअवतरू तरुणीए गाढमुवगूढो ।
सहस त्ति कुसुमणियरं मंअणसरे विअ समुग्गिरइ ॥ ४५ ॥
विचक्षणा—
एष कुरवकतरुः ।
राजा—
नवकुरवकवृक्षः कुम्भस्थूलस्तन्या
रभसविरचितेन निर्भरमालिङ्गनेन ।
तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या
यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥
जातेति यावत् । 'अथ च तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं
समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यद्वा,—असमाप्तेति नञ्प्रश्लेषः ।
सप्तेति विषयसप्तमी । तथा च तद्विषये यात्रा वृत्तान्तरात्प्रागमनं तन्न समाप्त-
मित्यर्थ । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो व्यङ्ग्यते । अत्रापि छेकानुप्रा-
सरूपकोपमासंकरा अलंकाराः ।
विदूषकः—
भोः, प्रेक्षस्व प्रेक्षस्व महेन्द्रजालम् । येन,—
बालोऽपि कुरवकतरुस्तरुण्या गाढमुपगूढः ।
झेति कुसुमनिकरं मदनशरमिव समुद्गिरति ॥

  • इति टीकाकृतः पाठः । १ 'मदनमरे' इति टीकाकारः ।

द्वितीयं जवनिकान्तरम् ७७
राजा—ईदिसो जेव दोहलस्स पहावो ।
विचक्षणा—अअं तिलअदुमो ।
( कर्पूरमञ्जरी चिरं निर्वर्ण्यलोकयति । )
राजा—
तिक्खाणं तरलाणं कज्जलकलासंवग्गिदाणं पि से
पासे पंचसरं सिलीमुहधरं णिच्चं कुणंताणँ अ ।
णेत्ताणं तिलअदुमे णियडिदा धाडी मअच्छीअ जं
तं सो मंजरिपुंजदंतुरसिरो रोमंचिदो व ट्ठिओ ॥ ४६ ॥
विचक्षणा—एसो वि असोअसाही ।
( कर्पूरमञ्जरी चरणताडनं नाटयति । )
राजा—
ईदृश एव दोहदस्य प्रभावः ।
विचक्षणा—
अयं तिलकद्रुमः ।
राजा—
तीक्ष्णयोस्तरलयोः कज्जलकलासंवेलितयोरप्यस्याः
पार्श्वे पञ्चशरं शिलीमुखधरं नित्यं कुर्वतोश्च ।
नेत्रयोस्तिलकद्रुमे निपतिता धाटी मृगाक्ष्या य-
त्तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥
तीक्ष्णयोर्दीर्घदृष्टयाद्योः, कज्जलकलो मूर्ध्नि कज्जले तरङ्गवल्गितयोर्मन्मथबदयोः,
पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा
कुर्वतोः, मृगाक्ष्या नेत्रयोर्धाटी रचनास्थानरातिविशेषाभितिलकद्रुमे यदस्मात्कारणात्प-
तितमस्या तिलकमञ्जरीनां पुञ्ज- रागदृभेन दन्तुरं साङ्कुरं शिरोऽग्रं यस्य सः ।
अत एव रोमाञ्चित इव रोमाञ्चगोमांस इव वर्तत इत्यर्थः । शिलीमुखधरं पञ्चशरं
पार्श्वे नित्यं कुर्वन्तोरित्यनेन मँदर्भवाग्भ्यास्ये नेत्रयोर्दर्शिताम् । तेन च कामित्वाभ-
लाषेणादकार्यं काममार्गप्रथमेऽनयोर्व्यज्यते । अत्रापि सोत्प्रेक्षारूपकानुप्रासेनोन्मेषिता-
दोहदच्छाया श्वेताः ।
विचक्षणा—
एषोऽप्यशोकशाखी ।

७६ कर्पूरमञ्जरी
विचक्षणा—एस कुरवअतरू ।
( कर्पूरमञ्जरी तमालिङ्गति । )
राजा—
णवकुरवअरुक्खो कुंभथोएत्थणीए
रहसविरइदेणं णिब्भरालिंगणेणं ।
तह कुसुमसमिद्धिं लंभिदो सुंदरीए
जह भसलकुलाणं पंथ जत्ता समत्ता ॥ १४ ॥
विदूषकः—भो, पेक्ख पेक्ख महेंदजालं । जेण,—
वालो वि कुरवअतरू तरुणीए गाढमुवगूढो ।
सहस त्ति कुसुमणिअरं मंअणसरे व्विअ समुग्गिरइ ॥ ४५ ॥
विचक्षणा—
एष कुरबकतरुः ।
राजा—
नवकुरबकवृक्षः कुम्भस्थूलस्तन्या
रभसविरचितेन निर्भरालिङ्गनेन ।
तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या
यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥
जातेति यावत् । 'अथ वा तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं
समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यद्वा,—असमानेति गन्धप्रभेदः ।
तथेति विषयाप्तौ । तथा च तद्विषये यात्रा देशान्तरादागमनं रात्र समाप-
मित्यर्थः । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो व्यज्यते । अत्रापि परिकरानुकू-
लरूपश्चेशमार्गत्वेन अलंकारः ।
विदूषकः—