कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 79, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ७१
विदूषकः— ( सम्यगवलोक्य । ) अहो, विअक्खणा सिसिरोवआरेसा-
मग्गीसहिदा आवदा ।
( तत प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा । )
विचक्षणा— ( परिक्रम्य । ) अहो, पिअसहीए महंतो खु विरहदा-
हज्जरो ।
विदूषकः— ( उपसृत्य । ) भोदि ! किं एदं !
विचक्षणा—सिसिरोवआरसामग्गी ।
विदूषकः—कस्स कदे ?
अत्रापि छेकानुप्रासविभावना रूपका ऽहेतुसङ्कररूपा शब्दार्थालङ्कारा ऊह्या ।
विभावनालक्षणमुक्तमभियुक्तै —'कारणाभावेऽपि कार्योत्प्नेशे विभावना' इति ।
अहेतुलक्षणमप्युक्तम्—'कारणे सत्यपि कार्याभावोऽहेतु' इति । अन्येव सञ्ज्ञा
विशेषोक्तिरिति काव्यप्रकाशे । सङ्करलक्षणमप्युक्तम्—'स्वातन्त्र्येणाङ्गभावेन गदाद्ये-
नेऽप्येन वाऽलङ्काराणामेकत्रोपस्थानं सङ्कर' इति ।
विदूषकः—
अये, विचक्षणा शिशिरोपचारसामग्रीसहितहस्तागता ।
'नानुचितस्य पात्रस्य प्रवेश' इति पूर्वमेव विदूषकमुखेन सूचनम् ।
विचक्षणा—
अहो, प्रियसख्या महान्खलु विरहदाहज्वर ।
विदूषकः—
भवति ! किमेतत् ?
विचक्षणा—
शिशिरोपचारसामग्री ।
विदूषकः—
कस्य कृते ?
१ 'सामग्गीसहिदहत्था' इति टीकानुगुण पाठः ।