कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 85, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ७७
राजा—ईदिसो जेव दोहलस्स पहावो ।
विचक्षणा—अअं तिलअदुमो ।
( कर्पूरमञ्जरी चिरं निर्वर्ण्यलोकयति । )
राजा—
तिक्खाणं तरलाणं कज्जलकलासंवग्गिदाणं पि से
पासे पंचसरं सिलीमुहधरं णिच्चं कुणंताणँ अ ।
णेत्ताणं तिलअदुमे णियडिदा धाडी मअच्छीअ जं
तं सो मंजरिपुंजदंतुरसिरो रोमंचिदो व ट्ठिओ ॥ ४६ ॥
विचक्षणा—एसो वि असोअसाही ।
( कर्पूरमञ्जरी चरणताडनं नाटयति । )
राजा—
ईदृश एव दोहदस्य प्रभावः ।
विचक्षणा—
अयं तिलकद्रुमः ।
राजा—
तीक्ष्णयोस्तरलयोः कज्जलकलासंवेलितयोरप्यस्याः
पार्श्वे पञ्चशरं शिलीमुखधरं नित्यं कुर्वतोश्च ।
नेत्रयोस्तिलकद्रुमे निपतिता धाटी मृगाक्ष्या य-
त्तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥
तीक्ष्णयोर्दीर्घदृष्टयाद्योः, कज्जलकलो मूर्ध्नि कज्जले तरङ्गवल्गितयोर्मन्मथबदयोः,
पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा
कुर्वतोः, मृगाक्ष्या नेत्रयोर्धाटी रचनास्थानरातिविशेषाभितिलकद्रुमे यदस्मात्कारणात्प-
तितमस्या तिलकमञ्जरीनां पुञ्ज- रागदृभेन दन्तुरं साङ्कुरं शिरोऽग्रं यस्य सः ।
अत एव रोमाञ्चित इव रोमाञ्चगोमांस इव वर्तत इत्यर्थः । शिलीमुखधरं पञ्चशरं
पार्श्वे नित्यं कुर्वन्तोरित्यनेन मँदर्भवाग्भ्यास्ये नेत्रयोर्दर्शिताम् । तेन च कामित्वाभ-
लाषेणादकार्यं काममार्गप्रथमेऽनयोर्व्यज्यते । अत्रापि सोत्प्रेक्षारूपकानुप्रासेनोन्मेषिता-
दोहदच्छाया श्वेताः ।
विचक्षणा—
एषोऽप्यशोकशाखी ।