कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 67, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ५९
विदूषकः—देव ! इदं परमत्थ विष्णवीअदि,—
जिस्सा दिट्ठी संरलधवला कज्जलं तीअ जोग्गं
जा णिन्थिण्णत्थणकलसिणी रेहइ तीअ हारो ।
चक्राआरे रमणफलए को वि फंचीमरट्टो
जिस्सा तिस्सा पुण वि भणिमो भूसणं दूसणं च ॥ २३ ॥
राजा—( पुनन्नामुपधाय । )
तिवलिवलियणाहीगाहमूलेसु लग्गं
थणकलसणिभगाडम्बररेसुसमंत ।
विदूषकः—
देव ! एतत्परमार्थं विज्ञाप्यते,—
यस्या दृष्टिस्तरळधवला कज्जलं तस्या योग्यं
या निस्तीर्णस्तनकलशिनी शोभते तस्या हारः ।
चक्राकारे रमणफलके कोऽपि काञ्च्याडम्बरो
यस्यास्तस्याः पुनरपि भणामो भूषणं दूषणं च ॥
यदेतादृशं दृष्ट्यादि कान्तायान्तिष्ठति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभा-
विकोऽवभासत एवेति नातिप्रयोजनवत्त्वाद्वूषणमपि दूषणमिव भवतीति दूषणभूष-
णयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमिव भवति । अयमर्थः—
एतादृशदृष्ट्यादिमत्या अष्ठमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति, शोभा-
हरित्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि
कथितम्—‘किमिव हि मधुराणां मण्डनं नाकृतीनाम्’ (शाकु० १।२०) इति ।
राजा—
त्रिवलिवलितनाभीगाढमूलेषु लग्नं
स्तनकलशनिभागाडम्बरेष्वनुसमन्तम् ।
१ विससण इदं पत्थ मिति पाठः क्वचित् पठ्यते । २ ‘तरलधवळा’ इति टीका-
युक्तः ।