कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 81, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ७३
विचक्षणा—ता कहिं महाराओ ?
विदूषकः—तुह वअणेण मरगअपुंजे चिट्ठदि ।
विचक्षणा—ता महाराएण सह मरगअपुंजदुआरे चिट्ठ खणं,
जेण उहअदंसणे जादे सिसिरोवआरसामग्गीए जलंजली दिज्जदि ।
विदूषकः—(तामुपसृत्य ।) तर्हि गच्छ जदो णागच्छसि ।
(इति स्थितः ।) (पुनस्तां प्रति ।) ता कीस दुआरदेसे भविदव्वं ?
विचक्षणा—देवीए आदेसेण कप्पूरमंजरी समाअच्छदि ।
विदूषकः—किं तीए आदेसो !
विचक्षणा—तहि देवीए बालतरुणो तिण्णि आरोविदा ।
विचक्षणा—
तात्कुत्र महाराजः !
विदूषकः—
तव वचनेन मरकतपुञ्जे तिष्ठति ।
विचक्षणा—
तन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ठ क्षणम्, येनोभयदर्शने जाते शिशिरोप-
चारसामग्र्या जलाञ्जलिर्दीयते ।
विदूषकः—
तत्र गच्छ यतो नागच्छसि । तत्किं द्वारदेशे भवितव्यम् ?
विचक्षणा—
देव्या आदेशेन कर्पूरमञ्जरी समागच्छति ।
विदूषकः—
किं तस्या आदेशः !
विचक्षणा—
तत्र देव्या बालतरवस्त्रय आरोपिताः ।