हितोपदेशः (हिन्दी अनुवाद सहित)
Hitopadesha (with Hindi Translation)
नारायण पण्डित द्वारा
स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)
जहाँ राज्यका एक भाग देनेके पणसे बलवान् शत्रुके साथ जो संधि की
-१२५] सन्धि प्रकार २५९
यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः ।
संधीयते संधिविद्भिः स चादिष्ट उदाहृतः ॥ ११९ ॥
जहाँ राज्यका एक भाग देनेके पणसे बलवान् शत्रुके साथ जो संधि की
जाती है, उसको संधि जानने वाले "आदिष्टसंधि" कहते हैं ॥ ११९ ॥
स्वसैन्येन तु संधानमात्मादिष्ट उदाहृतः ।
क्रियते प्राणरक्षार्थं सर्वदानादुपग्रहः ॥ १२० ॥
अपनी सेनाके साथ जो संधि करता है वह "आत्मादिष्टसंधि" है और जो
अपनी रक्षाके लिये सर्वस्व दे कर की जाती है वह "उपग्रहसंधि" है ॥ १२०॥
कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः ।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ १२१ ॥
जो कोशसे कुछ भाग, आधे कोशसे या संपूर्ण कोशसे सज्जन मंत्रीकी
रक्षाके लिये की जाती है वह "परिक्रयसंधि" कही गई है ॥ १२१ ॥
भुवां सारवतीनां तु दानादुच्छिन्न उच्यते ।
भूम्युत्थफलदानेन सर्वेण परभूषणः ॥ १२२ ॥
सारवती अर्थात अन्नसे पूर्णा भूमिके देनेसे जो हो उसे "उच्छिन्नसंधि" कहते
हैं और भूमिमें उपजे हुए संपूर्ण फलके देनेसे जो हो उसे "परभूषणसंधि"
कहते हैं ॥ १२२ ॥
परिक्लिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।
स्कन्धोपनेयं तं प्राहुः संधिं संधिविचक्षणाः ॥ १२३ ॥
और जिसमें खेतसे लाया हुआ और स्वच्छ किया हुआ अन्न कंधोंके ऊपर लिब
ले जा कर दिया जाता है, संधि जानने वाले उसको "स्कन्धोपनेयसंधि" कहते
हैं ॥ १२३ ॥
परस्परोपकारस्तु मैत्री संबन्धकस्तथा ।
उपहारश्च विज्ञेयाश्चत्वारश्चैव संधयः ॥ १२४ ॥
परस्पर आपसमें उपकार, मित्रता, संबन्ध तथा भेट येभी चार प्रकारकी
संधि जाननी चाहिये ॥ १२४ ॥
एक एवोपहारस्तु संधिरेव मतो मम ।
उपहारविभेदास्तु सर्वे मैत्र्यविवर्जिताः ॥ १२५ ॥
केवल उपहार अर्थात् भेटही एक उपहार संधि है, यही मुझे संमत है, और
उपहारसे भिन्न अन्य सब प्रकारकी संधियां मित्रतासे रहित है ॥ १२५ ॥
अभियोक्ता बलियस्त्वादलब्ध्वा न निवर्तते ।
उपहाराहृते तस्मात् संधिरन्यो न विद्यते' ॥ १२६ ॥
और चढ़ाई करके युद्धके लिये आने वाला शत्रु बलवान् होनेसे थोड़ाभी धन
बिना लिये नहीं लौटता है इसलिये उपहारको छोड़ दूसरे प्रकारकी संधि नहीं
है' ॥ १२६ ॥
राजाह—'भवन्तो महान्तः पण्डिताश्च । तदत्रास्माकं यथा-
कार्यमुपदिश्यताम् ।' मन्त्री ब्रूते—'आः ! किमेवमुच्यते ? ।
राजा बोला—'आप लोग तो बड़े पण्डित हैं । इसलिये हमको जो करना
चाहिये सो आज्ञा कीजिये ।' मंत्री बोला—'अजी ! आप क्या कहते हैं ? ।
आधिव्याधिपरीतापाद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ? ॥ १२७ ॥
मनका संताप, रोग और पुत्रादिक वियोगसे उत्पन्न हुआ क्लेश इनसे आज
अथवा कल याने किसीभी क्षणमें विनाश पाने वाले शरीरके लिये कौनसा
मनुष्य धर्मरहित आचरण करेगा ? ॥ १२७ ॥
जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम् ।
तथाविधमिति ज्ञात्वा शश्वत् कल्याणमाचरेत् ॥१२८॥
देहधारियोंका जीवन निश्चय करके पानीमें दिखनेवाले चन्द्रमाका प्रतिबिंबके
समान चंचल है ऐसा इसे जान कर सर्वदा कल्याणका आचरण करना
चाहिये ॥ १२८ ॥
मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् ।
सञ्जनैः संगतं कुर्याद्धर्माय च सुखाय च ॥ १२९ ॥
मृगतृष्णाके समान क्षणभंगुर संसारको विचार कर धर्म और सुखके लिये
सज्जनोंके संग मेल करना चाहिये ॥ १२९ ॥
तन्मम संमतेन तदेव क्रियताम् ।
इसलिये मेरी समझसे वही करिये ।
यतः,—
अश्वमेधसहस्राणि सत्यं च तुलया कृतम् ।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥ १३० ॥
-१३० ] राजपुत्रोंका राजनीतिको समझ जाना २६१
क्योंकि—सहस्र अश्वमेध यज्ञ और सत्य, तराजूमें रख कर तोले गये तो
सचमुच सहस्र अश्वमेधसे सत्यहीका पलड़ा भारी रहा ॥ १३० ॥
अतः सत्याभिधानदिव्यपुरःसरमप्यनयोर्भूकालयोः काञ्चनाभि-
धानसंधिर्विधीयताम् ।' सर्वज्ञो ब्रूते—'एवमस्तु ।' ततो राज-
हंसेन राज्ञा वस्त्रालंकारोपहारैः स मन्त्री दूरदर्शी पूजितः, प्रहृष्ट-
मनाश्चक्रवाकं गृहीत्वा राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्र-
वर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद्बहुमानदारपुरःसरं संभाषितस्त-
थाविधं संधिं स्वीकृत्य राजहंससमीपं प्रस्थापितः । दूरदर्शी
ब्रूते—'देव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानमेव विन्ध्या-
चलं व्यावृत्त्य प्रतिगम्यताम् । अथ सर्वे स्वस्थानं प्राप्य मनोभि-
लषितं फलं प्राप्नुवन्त्विति ।
इसलिये सत्य वचनको स्वीकार करके इन दोनों राजाओंको कांचन नाम
संधि करनी चाहिये.' सर्वज्ञ बोला—'यही ठीक है.' फिर राजहंसराजाने वस्त्र और
अलंकारोंकी भेटसे उस मंत्री दूरदर्शीका सत्कार किया. और वह प्रसन्नचित्त
हो कर चक्रवाकको ले कर राजा मयूरके पास गया. और वहां गिद्धके वचनसे
चित्रवर्ण राजा बड़े आदरसत्कारपूर्वक सर्वज्ञसे बोल और उसी प्रकारकी
अर्थात् कांचननाम संधिको स्वीकार करके राजहंससे बिदा हुआ। दूरदर्शी
बोला—'महाराज ! हमारा मनोरथ सिद्ध हुआ, अब अपने स्थान विंध्याचलकोही
लोट कर चलना चाहिये. फिर सभीने अपने अपने स्थान पर पहुंच कर
मनोवांछित फल पाया.
विष्णुशर्मणोक्तम्—'अपरं किं कथयामि ? कथ्यताम् ।'
राजपुत्रा ऊचुः—'तव प्रसादाद्राज्यव्यवहाराङ्गं ज्ञातम् । ततः
सुखिनो भूता वयम् ।'
विष्णुशर्माने कहा—'और क्या कहूं ? कहिये ।' राजपुत्र बोले—'आपके
प्रसादसे राज्यके व्यवहारका अंग ( राजनीति ) जाना । और उसीसे हम
सुखी हुये ।
विष्णुशर्मोवाच—'यद्यप्येवं तथाप्यपरमपीदमस्तु,—
तब विष्णुशर्मा बोले—'यद्यपि ऐसा है तथापि यह और हो,—
२६२ हितोपदेशः [ संधिः १३१-
संधिः सर्वमहीभुजां विजयिनामस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् ।
नीतिर्वारविलासिनीव सततं वक्षःस्थले संस्थिता
वक्त्रं चुम्बतु मन्त्रिणामहरहर्भूयान्महानुत्सवः'॥ १३१॥
विजयशील राजाओंको संधि सदा प्रसन्न करने वाली हो, सज्जन मनुष्य
विपत्तिरहित हों, सत्कर्म करने वालोंका यश बहुत काल तक बढ़े, नीति वेश्याके
समान सर्वदा मन्त्रियोंके हृदय पर शोभायमान रह कर मुखचुम्बन करती रहे
अर्थात् मुख और हृदयमें निवास करे और प्रतिदिन अधिक आनन्द हो ॥१३१॥
अन्यच्चास्तु,—
यह और भी हो कि,—
प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स याव-
द्यावलक्ष्मीर्मुरारेर्जलद इव तडिन्मानसे विस्फुरन्ती।
यावत् स्वर्णाचलोऽयं दवदहनसमो यस्य सूर्यः स्फुलिङ्ग-
स्तावन्नारायणेन प्रचरतु रचितः संग्रहोऽयं कथानाम् ॥१३२॥
जब तक चन्द्रशेखर महादेवजी हिमाचलकी कन्या पार्वतीजीके साथ स्नेहपूर्वक
बसें, जब तक मेघमें बिजलीके समान श्रीविष्णु भगवान्के हृदयमें लक्ष्मी
निवास करे, और जब तक जिसके चिनगारीके समान सूर्य है ऐसा दावानलके
समान मेरु पर्वत स्थित रहे तब तक नारायणपण्डितका बनाया हुआ यह
कथाओंका संग्रह प्रचलित रहे ॥ १३२ ॥
अपरं च,—
श्रीमान् धवलचन्द्रोऽसौ जीयात् माण्डलिको रिपून् ।
येनायं संग्रहो यत्नाल्लेखयित्वा प्रचारितः ॥ १३३ ॥
और यह चक्रवर्ती श्रीमान् राजा धवलचन्द्र शत्रुओंको पराजित करें, कि
जिन्होंने यह संग्रह यत्न पूर्वक लिखवा कर प्रचार किया ॥ १३३ ॥ इति ॥
पं० रामेश्वरभट्टका किया हुआ हितोपदेशग्रंथके संधिप्रकरण चतुर्थ
भागका भाषा अनुवाद समाप्त हुआ. शुभम्.
समाप्तोऽयं हितोपदेशः।
परिशिष्ट पहला
परीक्षाप्रश्नपत्रसंग्रहः
Bengal Sanskrit Association
प्रथमपरीक्षा १९४७
१. अधस्तनेषु सन्दर्भेषु द्वयोरनुवादो मातृभाषया कार्यः—
(१) अनन्तरं स सिंहो यदा कदाचिदपि मूषिकशब्दं न शुश्राव
तदोपयोगाभावात् तस्य बिडालस्याहारदाने मन्दादरो बभूव । ततोऽसावा-
हारविरहाद्दुर्बलो दधिकर्णोऽवसन्नो बभूव ।
(२) तत्र करपत्रविदार्यमाणकाष्ठस्तम्भस्य कियद्दूरविदीर्णखण्डद्वयस्य
मध्ये कीलकः सूत्रधारेण निहितः । तत्र च वनवासी महान् वानरयूथः
क्रीडनार्थमागतः । तेष्वेको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां
धृत्वोपविष्टः ।
(३) एतच्चिन्तयित्वा सञ्जीवक आह—भो मित्र ! कथमसौ मां जिघां-
सुरिति ज्ञातव्यः ? । दमनको ब्रूते—यदासौ स्तब्धकर्णः समुद्धतलाङ्गूलः
समुन्नतचरणो विकृतास्यस्त्वां पश्यति, तदा त्वमपि स्वविक्रमं दर्शयिष्यसि ।
२. (क) स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ १ ॥
यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु ।
काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ २ ॥
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ ३ ॥
न परस्यापवादेन परेषां दण्डमाचरेत् ।
आत्मनावगमं कृत्वा बध्नीयात् पूजयेत वा ॥ ४ ॥
समुल्लिखितश्लोकेषु द्वयोः सरलदेवभाषया व्याख्या क्रियताम् ।
(ख) प्रथमप्रश्ने रेखाङ्कितपदेषु त्रयाणां ससूत्रं सन्धिविश्लेषः कार्यः ।
(ग) “चञ्च्वा” इति पदस्य चतुर्थ्येकवचने “परेषाम्” इति पदस्य
प्रथमाबहुवचने परिवर्तनं कार्यम् ।
अथवा
“आत्मना” इति पदस्य सप्तम्येकवचने “शिरसा” इति पदस्य च
प्रथमाबहुवचने परिवर्तनं कार्यम् ।
२
(घ) द्वितीयप्रश्ने “यस्मिन्” इत्यत्र “स्थान एव” इत्यत्र च कथं का
विभक्तिः ?
(ङ) अधोलिखितपदेषु त्रीणि सूत्राण्युल्लिख्य साध्यन्ताम्—
निहितः; शुश्राव; कुरुते; असौ; म्रियते ।
प्रथमपरीक्षा १९४८
१. अधोलिखितेषु सन्दर्भेषु त्रयाणामनुवादो मातृभाषया कार्यः—
(१) ततो दिनेषु गच्छत्सु स पक्षिशावकान् आक्रम्य स्वकोटरमानीय
प्रत्यहं खादति । अथ येषामपत्यानि खादितानि तैः शोकार्तैर्विलपद्भिः इत-
स्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः
पलायितः ।
(२) अथ प्रभाते स क्षेत्रपतिर्लगुडहस्तस्तत्प्रदेशं गच्छन् काकेनावलोकि-
तः । तमालोक्य काकेनोक्तम्—“सखे मृग ! तमात्मानं मृतवत् सन्दर्श्य
वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ, अहं तव चक्षुषी चञ्च्वा
किमपि विलिखामि । यदाहं शब्दं करिष्यामि तदा त्वमुत्थाय सत्वरं
पलायिष्यसे ।”
(३) अथ कदाचिदवसन्नायां रात्रावस्ताचलचूडावलम्बिनि भगवति कुमु-
दिनीनायके चन्द्रमसि, लघुपतनकनामा वायसः प्रबुद्धः कृतान्तमिव द्वितीय-
मटन्तं व्याधमपश्यत् । तमवलोक्याचिन्तयत्—“अद्य प्रातरेवानिष्टदर्शनं
जातं, न जाने किमनभिमतं दर्शयिष्यति” इत्युक्त्वा तदनुसरणक्रमेण
व्याकुलश्चलितः ।
(४) ततो हिरण्यकश्च सर्वदापायशङ्कया शतद्वारं विवरं कृत्वा निवसति ।
ततो हिरण्यकः कपोतावपातभयाच्चकितस्तूष्णीं स्थितः । चित्रग्रीव
उवाच—“सखे हिरण्यक ! कथमस्मान् न सम्भाषसे ?” । ततो हिरण्यकस्तद्
वचनं प्रत्यभिज्ञाय ससम्भ्रमं बहिर्निःसृत्याब्रवीत्—आः ! पुण्यवानस्मि,
प्रियसुहृन्मे चित्रग्रीवः समायातः ।
२. शोकस्थानसहस्त्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १ ॥
शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ २ ॥