हितोपदेशः (हिन्दी अनुवाद सहित)
नारायण पण्डित द्वारा
स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)
पृष्ठ 283, कुल 302 में से
संदर्भ में पढ़ेंपरिशिष्ट पहला
परीक्षाप्रश्नपत्रसंग्रहः
Bengal Sanskrit Association
प्रथमपरीक्षा १९४७
१. अधस्तनेषु सन्दर्भेषु द्वयोरनुवादो मातृभाषया कार्यः—
(१) अनन्तरं स सिंहो यदा कदाचिदपि मूषिकशब्दं न शुश्राव
तदोपयोगाभावात् तस्य बिडालस्याहारदाने मन्दादरो बभूव । ततोऽसावा-
हारविरहाद्दुर्बलो दधिकर्णोऽवसन्नो बभूव ।
(२) तत्र करपत्रविदार्यमाणकाष्ठस्तम्भस्य कियद्दूरविदीर्णखण्डद्वयस्य
मध्ये कीलकः सूत्रधारेण निहितः । तत्र च वनवासी महान् वानरयूथः
क्रीडनार्थमागतः । तेष्वेको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां
धृत्वोपविष्टः ।
(३) एतच्चिन्तयित्वा सञ्जीवक आह—भो मित्र ! कथमसौ मां जिघां-
सुरिति ज्ञातव्यः ? । दमनको ब्रूते—यदासौ स्तब्धकर्णः समुद्धतलाङ्गूलः
समुन्नतचरणो विकृतास्यस्त्वां पश्यति, तदा त्वमपि स्वविक्रमं दर्शयिष्यसि ।
२. (क) स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ १ ॥
यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु ।
काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ २ ॥
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ ३ ॥
न परस्यापवादेन परेषां दण्डमाचरेत् ।
आत्मनावगमं कृत्वा बध्नीयात् पूजयेत वा ॥ ४ ॥
समुल्लिखितश्लोकेषु द्वयोः सरलदेवभाषया व्याख्या क्रियताम् ।
(ख) प्रथमप्रश्ने रेखाङ्कितपदेषु त्रयाणां ससूत्रं सन्धिविश्लेषः कार्यः ।
(ग) “चञ्च्वा” इति पदस्य चतुर्थ्येकवचने “परेषाम्” इति पदस्य
प्रथमाबहुवचने परिवर्तनं कार्यम् ।
अथवा
“आत्मना” इति पदस्य सप्तम्येकवचने “शिरसा” इति पदस्य च
प्रथमाबहुवचने परिवर्तनं कार्यम् ।