सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

३४ पालकाप्यमुनिविरचितो— [१ महारोगस्थाने]
न प्रयच्छेत्तु विद्यार्थिं न वशी अवभेदकम् ॥
एवमुक्त्वा तु तं शिष्यमाचार्यस्तर्पयेद्विजान् ॥ १२ ॥
पुष्पानुलेपनेर्धूपैर्भक्षपानान्नभोजनैः ॥
भक्तैर्द्विजवरैस्तत्र देवतैश्च सुपूजितैः ॥ १३ ॥
यच्छेषमुपभोक्तव्यमिति शिष्यक्रमः स्मृतः ॥ १४ ॥ ६०४ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने महारोगस्थाने
शिष्योपनयनो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अङ्गश्चम्पाधिपः श्रीमान्बुद्ध्या परमया युतः ॥
कृतजाप्यमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ ॥
यत्पूर्वं संग्रहाध्याये त्वया प्रोक्तं महामुने ॥
विभक्तिरिति रोगाणां तन्मे व्याचक्ष्व पृच्छतः ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
आध्यात्मिकागन्तुभेदा द्विविधा व्याधयः स्मृताः ॥ ३ ॥
आध्यात्मिका दोषजाश्च मानसाश्च प्रकीर्तिताः ॥
आगन्तवोऽपि विज्ञेया आधिभूताधिदेविकाः ॥ ४ ॥
यस्माद्विभजते तांस्तु वातपित्तकफात्मिकान्* ॥
रक्तजांत्संनिपातांश्च द्वित्रिजान्मानसांस्तथा ॥ ५ ॥
† आगन्तुंश्चापि जानीयावोधिभौतिकदैविकान् ॥
साध्यानंसाध्यान्यस्यांश्च कृच्छ्रसाध्यांश्च भेदतः ॥ ६ ॥
तस्माद्रोगविभक्तेश्च नाम्नां रूपातो नराधिप ॥
तत्राऽऽदौ वातिकान्वक्ष्ये षट्सप्तमितिमान्गदान् ॥ ७ ॥
बालः पाण्डामयी च स्याद्दानाहः* सर्व एव च ॥
मूर्च्छाश्च पश्चात्पर्यशनाविदग्धाहारधान्यजाः ॥ ८ ॥
वातिकी मार्गमूर्च्छा च शिरोरोगाश्च ये स्मृताः ॥
पादरौगा दशोत्कार(ः)कार(रो)नाडीभवोऽपरः ॥ ९ ॥

  • ‘कफात्मकान्’ इति भवेत् । † आगन्तुंश्चापि जानीयादाधिभौतिकदैविकान् ।
    इति भवेत् । † ‘साध्यानाप्यांश्च’ इति भवेत् । * ‘दानाहाः’ इत्येव वरम् ।
    १ ख. ॰याद्रोधि॰ । २ गं. षड्विकारानिमान्गदान् । ३ क. ॰त्यसना॰ ।

७ रोगविभक्त्यध्यायः ] हस्तिह्यायुर्वेदः । ४९
*सराष्ट्रो मस्मभेदश्च कदम्बाक्षः सुफुल्लुकः ॥
फुल्लो भिन्ननखश्चानुद्धतः स्थाणुहतान्नुयत् ॥ १० ॥
धौन्योपधाम्यां व्यापत्ती शोफश्चाक्षिरुगौदकी ॥
अण्डाक्षो नाद्यंप्रेक्षी छर्द्यतीसारसंज्ञितौ ॥ ११ ॥
तृणशोषी विसर्पेश्च मेद्रक्षाणी च निश्चिता ॥
हस्तोन्माथाश्च षडुदावर्त उत्कर्णकोऽपि च ॥ १२ ॥
ग्रहणीदोषनामा वै आमरोगस्तथैव च ॥
तथा वातगतिर्यश्च मन्यास्तम्भो मंदक्षयः ॥ १३ ॥
कृशो बलक्षयश्चोरःक्षतो जठरकस्तथा ॥
गाढमूत्री च विज्ञेयैः सूतिकादशनामयौ ॥ १४ ॥
प्राकृतः शौरदो यश्च सप्तधातुक्षयास्तथा ॥
प्रकृत्या व्याधिभिश्चापि दुर्बलश्चौषधैरपि ॥ १५ ॥
तथाँ प्रभिन्नो द्रोणीको गुल्मो हृद्गात्रगामयौ ॥
व्रणस्योपद्रवो यश्च विद्रधिश्चाधिदन्तिकः ॥ १६ ॥
कटस्रोतो निरोधश्च गात्रातङ्कीति वातिकाः ॥
वक्ष्यन्ते पैत्तिकाः सप्तविंशतिस्तत्र पाण्डुरुक् ॥ १७ ॥
मूर्च्छा पित्ताम्बुमचैर्या शिरोरोगः कुठारकः ॥
मंद्यव्यापत्तथा शोफो वमथुः सातिसारकः ॥ १८ ॥
विसर्पोऽतः परं मेद्रक्षाणी सिद्धार्थकश्च यः ॥
परिमूत्री रुदनरुग्रोगो यः शारदस्तथा ॥ १९ ॥
पित्तप्रभिन्नो द्रोणीको गुल्मो हृद्गात्रजे रुजौ ॥
उपद्रवो व्रणस्यापि तथा विद्रधिरेव च ॥ २० ॥
नश्य(स्य) धूमप्रधमनैर्दोषो लथुनजा विपत् ॥
कवलव्यापद्दित्येते पैत्तिकाः संप्रकीर्तिताः ॥ २१ ॥
श्लैष्मिकाश्चैव वक्ष्यन्ते द्वात्रिंशत्संरूपया गदाः ॥
शुद्वस्तथा पाण्डुरोगो मूर्च्छा च कफसंभवा ॥ २२ ॥

  • संराष्ट्रो' इत्यग्रे । † 'स्थाणुहतात्तु यत्' इति स्यात् ।
    १ क. ख. ॰नुद्धत्तः स्था॰। २ क. धान्यॊस्यधाम्ब्यां। ख. धान्यॊप्यधाम्ब्यां। ३ ख.
    ॰दावर्ता उ॰। ४ क. ख. महक्षयः। ५ क. ॰यः स्तनिका॰। ६ ग. क्षारदोषश्च।
    ७ ग. ॰थाऽर्द्रभि॰। ८ ग. पाण्डुकः। ९ क. मेद्यव्या॰। ख. मेद्यव्यापात्त॰।
    *१० क. श्लेष्मका॰।
    ७

५० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
शिरोरोगौ तथा द्वौ च कफकृत्कृमिसंभवौ ॥
दर्दुर्मांसात्मकौ केशौ घृतेन बसया तथा ॥ २३ ॥
व्यापत्क्षीरेण चाप्यन्या शोफश्चाप्यथ बुद्बुदी ॥
पटलाक्षस्तथा मुञ्जच्छर्दतीसारसंज्ञितौ ॥ २४ ॥
विसर्पो मेहनक्षाणी *श्लेष्माभिष्यन्नरुक्ततः ॥
पिष्टमेही दन्तरोगो यश्चोक्तः स्थूलशारदः ॥ २५ ॥
उद्गमः कृमिकोष्ठश्च प्रभिन्नः कर्णवालजः ॥
तथा द्रोणीकशोफश्च गुल्मो हृद्गात्रजामयौ ॥ २६ ॥
व्रणोपद्रवजश्चान्यो विद्रधिश्च कफात्मकाः ॥
अतः परं प्रवक्ष्यामि रक्तात्पञ्चदशामयान् ॥ २७ ॥
शिरोरुजः प्रगुल्मी च गम्भीरो लोहितांङ्घ्रिजः ॥
क्षा(क्ष)रीकृतोऽथ निष्पिष्टः शोफो रक्ताक्ष एव च ॥ २८ ॥
मेढ्रक्षाणी क्षीरमेही तथा लोहितशारदः ॥
ततः प्रभिन्नो द्रोणीको गुल्मश्चाग्रेरुपद्रवः ॥ २९ ॥
इत्येते रक्तजाः प्रोक्ता वक्ष्यन्ते सांनिपातिकाः ॥
विंशतिर्ह्यधिकास्तेषामयमादौ मृदुग्रहः ॥ ३० ॥
ततो मूर्च्छा शिरोरोगः क्रचकेशश्च पार्थिव ॥
शोफः प्रावारकी मुञ्जजालो वमथुरेव च ॥ ३१ ॥
अतिसारो मदनको विसर्पो मेढ्रवैकृतिः ॥
तैलकाश्र्यश्मरीकक्ष दन्तरोगः किलासिता ॥ ३२ ॥
तथा प्रभिन्नो द्रोणीको गुल्मो गात्राप्रपस्तथा ॥
उपद्रवो विद्रधिश्चेत्युक्ता वै सांनिपातिकाः ॥ ३३ ॥
वार्तापित्तात्मका रोगा वक्ष्यन्ते ते चतुर्दश ॥
पकलो बहिरायामः स्नेहमूर्छा च पार्थिव ॥ ३४ ॥
पूयकेश(:)समन्तश्च तथा चर्मतिलश्च यः ॥
तैलव्यापत्तथा विद्युन्माली क्लिष्टोऽथ वर्त्मनः ॥ ३५ ॥

  • 'श्लेष्मावसन्न' इति भवेत् ।
    १ क. मेहनक्षीणी । २ क. ०भिष्यनर० । ग. ०भिछन्न०। ३ क. मेढ्रक्षीणी ।
    ४ क. ख. तल्लः का० । ५ क. किलासिना । ख. किलासिती । ग. किलासिनी ।
    ६ क. उपद्रवा । ७ क. ०यासः स्ने० । ८ क. ख. यूपकेश० । ९ ख. ०र्मतल० ।
    १० क. विद्युन्मालाक्लिष्टो ।

७ रोगविभक्त्यध्यायः ] हस्त्यायुर्वेदः । १९
पिटिकाश्च शूलश्च१ मृत्तिकाऽथ कफक्षयः ॥
अतिपात इति प्रोक्ता वातपित्तसमुद्भवाः ॥ ३६ ॥
वातश्लेष्मसमुत्थाना वक्ष्यन्ते षोडशाऽऽमयाः ॥
प्रसुप्तोऽथ महारूपोऽन्यैः स्कन्दो मूर्छा तृणोद्भवा ॥ ३७ ॥
कारक्युदकजा व्यापत्योक्तो यश्च गलग्रहः ॥
जरया दत्तरोगश्च शूलोऽन्यो दन्तशूल्यपि ॥ ३८ ॥
तृणपुष्पी क्षीणपित्तो दुर्बलो वयसा च यः ॥
अभक्तच्छन्दोग्रासोपरोधो मेढ्रुपद्रवः ॥ ३९ ॥
इति वातकफोत्पन्नाः२ सप्तमे वातरक्तजाः ॥
केशग्रन्थिश्च शोफश्च वातकुण्डलिकाऽपि च ॥ ४० ॥
रक्ताण्डी यवगण्डी च चर्मकीलो विसर्पिणी ॥
इत्युक्ता वातरक्तोत्था श्लेष्मशोणितजास्त्रयः ॥ ४१ ॥
दद्रुकी च महादन्तुरन्या मण्डलिकीति च ॥
त्रयोऽन्ये पित्तकफजाः स्रोतोन्धः३ पिटकी४ तथा ॥ ४२ ॥
वातक्षय इति प्रोक्ता वातासृक्पित्तजावुभौ ॥
पाककः पुण्डरीकाख्यस्तथा विप्लावकोऽपरः५ ॥ ४३ ॥
ज्ञेयः कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपाकरुक्६ ॥
यवगण्डः कर्णरोग इत्येतेऽपि प्रकीर्तिताः ॥ ४४ ॥
पित्तासृक्कफसंभूता स्यादेकैव विचर्चिका ॥
भूतानिलात्मकाः षट् च तत्राऽऽदौ कुक्कुटः स्मृतः ॥ ४५ ॥
तथैकाङ्गग्रहः कूटश्चान्तरामय† एव च ॥
हस्तग्रहोऽथ७ रात्र्यन्ध इत्यमी कीर्तिताः क्रमात् ॥ ४६ ॥
मानसास्तत्र पञ्चैको भयातीसारसंज्ञितः ॥
पूर्वाविद्धोऽथ* हृच्छाली तथा भ्रंशश्च चेतसः ॥ ४७ ॥
संतापद्ग्ध इत्येवमुक्ताश्चाऽऽध्यात्मिका गदाः ॥
सर्वे पिण्डेन विख्याता द्वात्रिंशच्च शतद्वयम् ॥ ४८ ॥

  • अन्यो व्याविद्धनामा ।
    † 'श्रान्तरायाम' इति भवेत् ॥
    १ ख. मूलश्च । २ क. ख. ०त्पन्नः स० । ३ क. ख. श्रोतोधः । ४ क. ख.
    पटकी । ५ क. विप्लवश्चोऽपरः । ६ क. कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपालकरुक् ।
    ७ क. हस्त्यग्रं ।

५२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
आगन्तवोऽथ वक्ष्यन्ते त्र्यशीतिः सर्व एव ते ॥
त्रयः स्युर्दैविकास्तत्र विद्युत्पोताहतोऽशिरुक् ॥ ४९ ॥
दन्तरोगोऽथ दग्धोऽन्यो विद्युतेवेति दैविकाः ॥
दश ग्रहोत्मकास्तत्र प्रग्रहोऽप्यवबाहुकः ॥ ५० ॥
मृगाक्षो रैतिकश्चैव प्रतारः स्वपितिस्तथा ॥
प्रमर्दनोऽथ काम्याक्षो वामिजस्थविराविति ॥ ५१ ॥
नैवैते पृथगुन्मानो दशमः परिकीर्तितः ॥
अवशिष्टांस्ततश्चोर्ध्वं रोगान्वक्ष्यामि संप्रतिम् ॥ ५२ ॥
अभिघातः शिरोरोगः शरनद्धः क्षतश्च यः ॥
निर्मूलेन स्थाणुहतस्तथा क्षीणतलोऽपि च ॥ ५३ ॥
शोफः काचः प्रतिन्नुन्नो निष्पेषहत एव च ॥
संतापोऽतीतमुक्तो य ऊष्मापरिगतश्च यः ॥
दण्डाक्षरच्छर्दतीसारो विषार्तो दग्धदूषितः ॥ ५४ ॥
सर्पार्तिः स्फोटकाश्चापवादर्बन्दो विसर्परुक् ॥
बलमैहनयोः क्षाण्यो योऽवसन्नश्च कीर्तितः ॥ ५५ ॥
भिन्नबस्तिर्दन्तरोगो लुप्तः शीतादितस्तथा ॥
मक्षिकादष्टमर्माभिनीतौ षोडश चाप्यमी ॥ ५६ ॥
स्तब्धं निःखातं निष्पिष्टं विहतं व्याहतं तथा ॥
स्स्रै(स्रू)नं संकुचितं भग्नं म्लानमावेष्टितं तथा ॥ ५७ ॥
निर्वे(श्रे)ष्टितं शोषितं च तथैवोन्मथितं च यत् ॥
भ्रष्टं छिन्नं च्युतं वा स्याँदाबाधा गात्रसंश्रयात् ॥ ५८ ॥
सद्यःक्षतं देहभङ्गो घृष्टं दरथं चतुर्विधम् ॥
अग्निक्षारतुषारार्कैर्मूढगर्भं ततः परम् ॥ ५९ ॥
शैल्यैर्येश्च विनिष्पिष्टो यो व्यालैरण्डकावपि ॥
लैंता कीटावचूर्णश्च व्यापदोऽष्टौ च बस्तिजाः ॥ ६० ॥
१ ख. ॰त्पातह॰ । २ क. ॰हात्मिका॰ । ३ क. रतिकाश्चै । ४ क. ॰क्षो
वणि॰ । ५ क. नैवेते । ६ क. ख. ॰शिष्टां तत॰ । ७ क. ख. ससतिः । ८ ख.
निर्मूलेत । ९ क. ॰पार्तिस्फो॰ । १० क. ॰बद्धवि॰ । ११ क. निःखादितं । १२ क.
विहितं व्याहृतं । १३ क. स्तनं । १४ ख. स्यादबोधा । १५ क. शल्यैश्चर्यवि॰ ।
१६ ख. लूताः ।

७ रोगविभक्त्यध्यायः ] हस्त्यायुर्वेदः । ५३
द्वौ ग्राहौ जलहस्ती चेत्यागन्तव उदाहृताः ॥
शतत्रयं विभज्योक्तमिति पञ्चदशोत्तरम् ॥ ६१ ॥
तेष्वसाध्याश्च बोद्धव्याः शुद्धः कूटश्च पाकलः ॥
स्कन्दो द्वावथ संसक्तः संपातानाह एव च ॥ ६२ ॥
शिरारोगोऽथ संराष्ट्रो विप्लुतो ग्रन्थिविप्लुतः ॥
समन्तोऽथ कुठाराख्यस्तथा स्थानरतोऽपि च ॥ ६३ ॥
विद्युन्निपातदग्धः स्यादूष्मापरिगतश्च यः ॥
संनिपातविसर्पश्च विसर्पः क्षतजस्तथा ॥ ६४ ॥
पूर्वापवादबद्धौ च हृदयस्फाल्यतः परम् ॥
हस्तोन्माथाश्च षडपि योऽवसन्नश्च कीर्तितः ॥ ६५ ॥
भिन्नवस्तिरतो ज्ञेयो दन्तरोगश्च दैविकः ॥
अक्रिया विक्रिया दैवी विविधारिष्टसंयुता ॥ ६६ ॥
असाध्याः स्युरतोऽन्येऽपि रोगा ये चाऽऽयुषः क्षये ॥
इत्यसाध्यास्ततो याप्याः कचकेशः कदम्बकः ॥ ६७ ॥
सुफुल्लश्चाप्फुल्लश्च यवगण्डशिरास्तथा ॥ •
तलकासी ततश्चोक्तो वृषःप्रकृतिदुर्बलौ ॥ ६८ ॥
गात्रातङ्की ततोऽन्येऽपि साध्याः सन्त उपेक्षिताः ॥
याप्याः स्युः कृच्छ्रसाध्याश्च रोगा ह्येवं विनिश्चये ॥ ६९ ॥
समस्तलिङ्गा ये जाता जाता ये गुरुवेदनाः ॥
मर्मस्था दुरधिष्ठानाः स्थानसंविषमाश्च ये ॥ ७० ॥
अरिष्टलक्षणा ये च ये महारोगरुक्तमाः ॥
इत्यसाध्याश्च याप्याश्च कृच्छ्रसाध्याश्च कीर्तिताः ॥ ७१ ॥
सात्म्यानुलोमिकं चैव तथा बालचिकित्सितम् ॥
उपसर्गे च जायन्ते रोगाः सर्वत्र एव ते ॥ ७२ ॥
दन्तरोगदाभिन्नं च दन्तशल्यमितीक्ष्यते ॥
मृदाजीर्णमृदानाहादभिन्नं च यतस्ततः ॥ ७३ ॥
१ क. ख. ॰त्यागतं व । २ क. शुद्धाः । ३ क. ॰पातं वि॰ । ४ ख.
॰सर्पक्ष॰ । ५ क. हृदयः स्फालतः । ६ क. कबन्धकः । ७ क. गतत्राकी । ८ ख.
ग. ॰वं विधाश्च ये । ९ ख. स्थासंनविषमा । १० क. साध्याश्च । ११ क. ॰न्नं
यतस्तस्य ।

५४ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने-
योप्या ( अ ) मी तु संसृष्टा विभक्ता रोगसंग्रहे ॥
उपक्रमविशेषेण निर्दिष्टाश्च पृथक्पृथक् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रबोधितः ॥ ७४ ॥ ६७५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
रोगविभक्तिर्नाम सप्तमोऽध्यायः ॥ ७ ॥
अथाष्टमोऽध्यायः ।
तपस्यग्रे स्थितं विप्रं वेदविद्याविशारदम् ॥
मुनिं परमदुर्धर्षं शिष्यमण्डलमध्यगम् ॥ १ ॥
चम्पाधिपो नरपतिस्तदा पृच्छति संशयम् ॥
भगवन्किंचिदाख्याहि संशयो मे द्विजोत्तम ॥ २ ॥
ज्वरः कथं समुत्पन्नः कस्मिन्वा कारणान्तरे ॥
ज्वराभिभूताश्च कथं नश्यन्ति प्राणिनो भुवि ॥ ३ ॥
वारणा वाजिनश्चापि ये चान्ये मृगपक्षिणः ॥
तथैवान्यानि भूतानि तिर्यग्योनिगतानि च ॥ ४ ॥
प्राणेभ्यो विप्रयुज्यन्ते ज्वरेणाभिद्रुतानि च ॥
एतच्च परमं दुःखं मानसं संप्रवर्तते ॥ ५ ॥
मृत्योर्वशे वर्तमानं दृष्ट्वा तु कृपणं जगत् ॥
एतन्मे पृच्छतो ब्रूहि ज्वरस्योत्पत्तिलक्षणम् ॥ ६ ॥
विज्ञानं चाप्यशेषेण पूर्वरूपाणि यानि च ॥
एवमुक्तः स शिष्येण पालकाप्यस्ततोऽब्रवीत् ॥ ७ ॥
देवानां दानवानां च युद्धमासीत्सुदारुणम् ॥
तत्र देवा न तिष्ठन्ति दानवानां महाहवे ॥ ८ ॥
ततो विश्वेश्वरं देवं नीलकण्ठं वृषध्वजम् ॥
ईशानं सर्वभूतानां वरदं शरणं गताः ॥ ९ ॥
प्रभवं सर्वभूतानां देवं च पुरुषोत्तमम् ॥
तौ देवौ सूर्यसंकाशौ क्रुद्धौ परमदारुणौ ॥ १० ॥
दानवानां विनाशाय रुद्रः स्म सृजति ज्वरम् ॥
द्वितीयं सृष्टवान्विष्णुः प्रज्वरं घोरदर्शनम् ॥ ११ ॥
१ ख. पञ्चाप्यमी नु । ग. सप्ताप्यमी । २ ग. तच्च मे प० । ३ वरं शरणदं ।

< ज्वरोत्पत्त्यध्यायः ] हस्त्यायुर्वेदः । ५५
तौ सृष्टावग्निसंकाशौ दैत्यानीके विचेरतुः ॥
ज्वरश्च प्रज्वरश्चोभौ कालान्तकयमोपमौ ॥ १२ ॥
रुद्रनारायणमयौ दिव्यामिरिव दारुणौ ॥
अग्न्यशनिसमस्पर्शौ ब्रह्मलोकेऽप्यनुत्तमौ ॥ १३ ॥
न शक्यमसुरैः स्थातुं मुहूर्तमपि संयुगे ॥
कृशा विवर्णाः शिथिला मुक्तायुधरथध्वजाः ॥ १४ ॥
वेपमाना विमनसो निरुत्साहाः सुदुःखिताः ॥
भयार्ता मरणत्रस्ता ब्रह्माणं समुपस्थिताः ॥ १५ ॥
प्रसीद भगवन्देव त्रातुमर्हसि सुव्रत ॥
रुद्रनारायणावेतौ संहरन्तौ तु दानवान् ॥ १६ ॥
क्रुद्धौ परमदुर्धर्षौ तेजसामूहतौ भृशम् ॥
भगवन्गतिरस्माकं गतिरन्या न विद्यते ॥ १७ ॥
स एवमुक्तो भगवान्सर्वलोकपितामहः ॥
दानवानाह सुप्रीतः स्वस्थी भवत विज्वराः ॥ १८ ॥
ज्वरमुक्तास्तु ते सर्वे प्रणेमुः शिरसा प्रभुम् ॥
तौ तु कालान्तकसमौ ज्वरौ संहरतः प्रजाः ॥ १९ ॥
प्रभुस्तौ ऽप्यसृजच्चाशु जङ्गमस्थावरेषु च ॥
रुद्रनारायणमयौ कोपाग्नी त्वतिदारुणौ ॥ २० ॥
ओशीविषमिवात्युग्रं ज्वलन्तमिव पावकम् ॥
कालान्तकसमं क्रुद्धं दैवतैरपि दुस्तरम् ॥ २१ ॥
पृथिव्यां यानि भूतानि स्थावराणि चराणि च ॥
स्पर्शादेव विनश्यन्ति क्षणं विद्युदिवाम्बरे ॥ २२ ॥
ऋते मनुष्याद्राजेन्द्र नान्यो विषहते ज्वरम् ॥
तेजोधिका मनुष्यास्तु सहन्ते तेन ते ज्वरम् ॥ २३ ॥
एष घोरो महाव्याधिर्ज्वरः पाकलसंज्ञितः ॥
ज्वरस्य पूर्वरूपाणि यानि वक्ष्यामि तच्छृणुं ॥ २४ ॥
अनवस्थितमात्रश्च बहुशश्च विजृम्भते ॥
शरीरगौरवं चैव हृष्टरोमा च जायते ॥ २५ ॥
ध्यायते दुर्मनाश्चैव यवसं नाभिनन्दति ॥
पर्यश्रुः परिमूत्री च शय्यायां कुरुते मनः ॥ २६ ॥
१ ग. तेजसा महतो । २ ख. आसीविं० । ३ क. दुर्मनश्चैव ।

५६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
एतद्भवति विज्ञानं गृहीते पाकलेन तु ॥
नामभिर्बहुभिस्तैस्तैः सर्वप्राणिषु कीर्त्यते ॥ २७ ॥
कारणैर्बहुभिः प्रोक्तो दन्तिनां पाकलो भवेत् ॥
रुद्रविष्णुमयं तेजो द्वादशादित्यवर्चसम् ॥ २८ ॥
प्रलयः सर्वभूतानां तस्मान्नित्यं व्यवस्थितः ॥
एषा ज्वरसमुत्पत्तिर्यथावत्सं प्रकीर्तिता
पृच्छतस्ते महाराज यथावदनुपूर्वशः ॥ २९ ॥ ७०४ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहापाठे महारोगस्थाने ज्वरो-
त्पत्तिर्नामाष्टमोऽध्यायः ॥ ८ ॥
अथ नवमोऽध्यायः ।
अङ्गराजो महाप्राज्ञैर्नयकारैर्महात्मभिः ॥
सहोपविष्टं शालायां पालकाप्यं स्म पृच्छति ॥ १ ॥
पोक्ला *येऽन्वये ब्रह्मंस्त्वयोक्तास्तान्प्रचक्ष्व मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
पोक्लाञ्छृणु मे राजन्सनिरुक्तान्ससंभवान् ॥
रुद्रस्य क्रोधजो ह्येष (नामभिर्बहुभिर्ज्वरः ॥ ३ ॥
अन्तकः सर्वभूतानां क्षयं नयति दारुणः ॥
अनाविष्टेन तेनेह कश्चित्प्राणीविमुच्यते ॥ ४ ॥
: अन्तकाले विशत्येष) जङ्गुमाजङ्गमं जगत् ॥
ततः—एष एक एव खलु भो ज्वरो नरेषु हयेष्वभितापः, खरेषु खोरकः,
गोष्वीश्वरः, उष्ट्रेष्वलसकः, व्याडेष्वाक्षिकः, प्रलापकोऽजादिषु, सरीसृपेषु
कँष्णीषः, हारिद्रको महिषेषु, मृगरोगो मृगेषु, पक्षिष्ववतापः पतङ्गेषु थुनस्त्वे-
लर्कः, मस्त्येष्विन्द्रमदः, गुल्मेषु गुच्छकः, ओषधिवनस्पतिषु ज्योतिष्कः,
माल्येषु पर्वकः, ऋषभको नलिनीषु, धान्येषु चूर्णकः, लुलः कोद्रवेषु, मधूकः
शाकेषु, भूम्यामूषरः, अप्सु नीलिका, गजेषु पाकलः ।

  • 'संग्रहाध्याये' इत्यर्थः प्रतिभाति । † धनुराकारचिह्नमध्यगतपाठः कपुस्तके
    नास्ति ।
    १ क. ख. पालकाप्यन्वयो ब्र०। २ क. ख. पालकाञ्च्छृ०। ३ क. ०प्वसलकः।
    ग. ०प्वलकसः । ४ क. ग. कुष्णीषः । ५ क. ०स्त्वलकः । ६ क. साल्येषु ।

९ पाकसाध्यायः ] हस्त्यायुर्वेदः । ५७
रुजतीति रोगः । पचतीति पाकलः । ज्वरयतीति ज्वरः । कल्पति
लोकमिति कालः । मृद्रातीति मृत्युः ।
एवमेतस्मादीश्वरात्रानाविधरूपसंभवनामकर्मण आशीविषाग्न्यशनिनिपात-
कल्पात्पाकलसंज्ञकान्नित्यमेव भेतव्यम् । महानेष व्याधिर्यत्नेनोपचर्यः । नैन-
मन्ये प्राणिनो विषहन्ते, ऋते मनुष्येभ्यः ।
गजास्त्वन्तरूष्मस्वेदत्वान्न सहन्ती, ज्वरं, बहलमांसमेदस्त्वाच्च । पुरुषास्तु
बहिःशरीरगतत्वादूष्मणो विषहन्ते ज्वरमूर्ष्मलक्षणम्, तनुमांसमेदस्त्वाच्च ।
अल्पदोषमृद्भूतं वा द्विरदाः । न चैषामन्येषामिव प्राणिनामूष्मा लक्षणम् ।
सनिदानलक्षणो ह्येष नागानां दशधा संज्ञितः । तद्यथा--शुद्धः, बालः,
पक्लः, मृदुग्रहः, कुकुटः, एकाङ्गग्रहः, प्रसुप्तः, कूटः, पुण्डरीकः, महापाकलश्चेति ।
तत्राऽऽदित एव तावच्छुद्रपाकलविकारं वक्ष्यामः--
स खलु भो दधिगुडतिलपललमत्स्याहारात्, आनूपतृणमांसरसभोजनात्,
अव्यायामात्, तथा शिशिरजलनिषेवणात्, दिवास्वप्नात्, अतिस्निग्धमधुरा-
म्ललवणभोजनात्, विशेषतः कफजननेभ्यः, श्लेष्मा प्रवृद्धः स्थानात्स्थानम-
तिवर्तमानः शिराधमनीभ्यः सर्वशरीरमभिप्रपद्यमानः शुद्धपाकलमभिनि-
र्वर्तयति ।
तस्य लक्षणानि--नीलिमा श्यागत्वं जघननिष्कोशपेचकेषु, कफाच्च निद्रां
जायते, प्रसुप्तवर्त्माध्मातत्वं दृष्टरोमस्तब्धत्वम्, लाङ्गूलश्रवणहस्तचेष्टासु निरु-
त्साहत्वम्, प्रेधमानम् । निमीलनं चाक्षणोः, स्थूलोच्छ्वसनम्, गम्भीरमभिस्वन-
नम्, अव्यञ्जनम्, मक्षिकाणामरक्षणम्, अविज्ञानम्, सलिलद्वेषः, गात्रनिः-
सङ्गः, पांशोरग्रहणम्, दन्तस्य चावधमनम्, भिन्नपुरीषता, स्थूलाश्रुप्रस्रवणम्,
हस्ततः कफप्रसेकः, मुखाच्च लालास्रावः, मद्यां विनिक्षिप्तकायोऽयं निषीदति
च, अक्ष्णोः प्राग्भागे चौष्ण्यमन्यत्र शैत्यम्, न च यवसमभिलषति, मत्तव-
त्कोशकटप्रस्रावी भवति, प्रस्तब्धहस्तो निरीह इव, सर्वगात्राणां दुर्गन्धिः,
स्तब्धाङ्गुलिः, श्यावमुखौष्ठः, श्यामनयननखः, स्तब्धाङ्गः, शुद्धकफोत्पत्तिः, तं
शुद्धपाकलमित्याचक्ष्महे ।
स गजस्तेनाभिभूतो हृदये श्लेष्मणि प्राप्त एकरात्रं वा त्रिरात्रं वा जीवति ।
नैव चतुर्थी रात्रिमभिनिवर्तत इति ।
तत्र श्लोकः--
१ ख. कुर्कुटः । २ क. ख. ०निर्वर्तयति । ३ ख. ०द्रा च जा० । ४ क.
०माधानत्वं । ५ क. प्रधानम् ।
८

५८ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने-
शुद्धात्कफात्समुत्पन्नं शुद्धपाकलमादितः ॥
प्रत्याचक्षीत मेधावी लिङ्गैरैतैः समन्वितम् ॥
( इति ) शुद्धपाकलः ( लहेतुलक्षणासाध्यत्वानि ) ॥
अथातो बालपाकलचिकित्सितं व्याख्यास्यामः । इति ह स्माऽऽह भगवा-
न्पालकाप्यः-
स खलु भो रूक्षलघुशिशिरविशदकटुकषायतिक्तविषमविरुद्धभोजनात्,
दुःस्थानशयनात्, रात्रिजागरणात्, अतिगुरुभारहरणात्, व्यायामव्यवायात्,
अध्वगमनात्, क्षयात्, मनःसंतापात्, ऋतुविपर्यासात्, लङ्घनात्, अतिब-
न्धनात्, मूत्रपुरीषधारणात्, प्रावृषि च प्रकुप्यति पवनः । स प्रकुपितः करच-
रणनयनवदनकर्णलाङ्गूलकुक्षिपक्षस्कन्धजघनमेहनशिरसामन्यतममासाद्याङ्गं
सर्वाङ्गानि वा गृहीत्वेमान्विकारानापादयति ।
तत्र करगते मारुते-नावमृशति नोन्मृशति, न हस्तं संकोचयति, न
प्रसारयति, न निर्धमति । चरणगते-युगपदेकैकशो वा गात्राणि परं स्तम्भ-
यति । ( *नयनगते-न संवर्तयति, ) नोन्मीलयति, न संमीलयति, न
स्वपिति नेत्राभ्याम् । मुखे गृहीतो-नात्ति किंचित् । कर्णगते-स्तब्धकर्णो
भवति । लाङ्गूलगते-लाङ्गूलवंशं स्तम्भयति, लोङ्गूलं शूनं च कुरुते । कुक्षि-
पक्षगतश्च-आध्मानाटोपसंकोचनपक्षघातान्निर्वर्तयति, शूलं कुरुते । स्कन्ध-
गते-न निर्णमति, नोन्नमति, नावनमति, मन्ये स्तम्भयति । जघनगते-
मूत्रपुरीषसङ्गानापादयति । मेहनगते-मेहनं स्तम्भयति, मेहनं च शूनं कुरुते,
रक्तमूत्रं वा प्रवर्तयति । शिरोगते-स्तब्धोन्नतशिरोग्रीवो भवति । पूर्वभागमा-
श्रितः-तदाश्रयां क्रियां विरोधयति, सृष्टमपि च न तत्र मर्षयति । सर्वाङ्ग-
गतः-सर्वानेवाङ्गप्रदेशानन्तर्बहिश्च प्रस्तम्भ्य तिष्ठति, ततो गजः मृध्यायते
निमीलयति, अश्रूणि प्रवर्तयति, न स्थानस्तम्भरथ्यासु मनो धत्ते कृच्छ्राद्वात-
मूत्रपुरीषश्च भवति । भोजनकवलकुवलपल्लवाहारद्वेषी वेदना चास्य सुखदुःखा-
न्वयाद्व्यामिश्री भवति । रूक्षत्वकरचरणादिषु प्रकुपितो बालचेष्टेव क्रमादभिवर्धते
यावत्सर्वाङ्गगतो भवतीति यस्मात्, तस्मात्-तं बालपाकलमित्याचक्ष्महे ॥
स खल्वेष लिङ्गबाहुल्यात्क्षीणदुर्बलवालवृद्धानां कृच्छ्रप्रतीकारो भवति ।

  • धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति ।
    १ क. °नाडुत्थानाच्छयनात् । २ क. °मान्कारा° । ३ क. मुखेन । ४ क.
    कर्णेतेः । ५ क. लाङ्गूलशूलं । ६ क. निर्णयति । ७ क. शूलं । ८ क. °णबा° ।
    ९ ख. °कारतरो ।

९ पाकळाध्यायः ] हस्त्यायुर्वेदः । ५९
तं सुरक्षितं रक्षासु विहितस्थानशयनस्तम्भं रक्षोघ्नभोजनगुप्तमाज्याहुतिबलि-
कर्मप्रायश्चित्तपुरस्कृतं चिकित्सितमुपक्रमेत । ततो वायुनिग्रहणार्थं यं यं वायु-
र्गृह्णाति प्रदेशमनेकपस्य, तं तं तप्तस्नेहादिभिरुपक्रमेत । तत्रायं विशेषः-
मत्स्यांश्च शर्कुलिनो बह्वग्निःशकलीकृत्य तैलोदकेन विपाच्य बलाकांशिखि-
रोहितचर्मिणां वा सुसंस्कृतेन युक्तं रसं विपाच्य मांसं सलवणीकृत्य काल्क-
न्दोकोलविदारीपिप्पलीमरीचकल्कमिश्रं यूषं कारयेत्, तं पाययेदशेषधन्यथा-
नुकूल्यं तम् । भोजनमपि चास्मै मत्स्यमांसरससुसंस्कृतं दापयेत् । तेनापगत-
दोषो भवति । स खल्वेष तेनैव कल्पेन बिल्वाग्निमन्थश्रीपर्णीवरुणकपाटलीनां
मूलानि समाहृत्य संछिद्य प्रक्षाल्य वाराहमांसेनाकत्वं कृत्वा सलिले विपाच-
येत् । भोजनं चोपहारयेत् । तेनास्य शकृच्छुष्यति वायुश्च गुदं प्रपद्यते यथा-
वत् । अथवा बदराम्लवेतसमांसपेशीकाश्च दध्यम्लयुक्ताः प्रभूतलवणीकृताः
सलिलेन विपाचयेत् । तस्मिन्नपक्वते बिल्वमात्रं पिप्पलीकल्कं समावाप्य शीती-
कृतं तथैव रसं पाययेत् । द्विपञ्चमूलवरुणकनिष्क्वाथे वराहमांसमुपसाध्य रसं
तं त्रिकटुकविदारीचूर्णमिश्रं सतैलं लवणीकृत्य पानभोजनयोर्दद्यात् । तेनास्य
करकर्णलाङ्गूलकोष्ठस्कन्धशिरोग्रीवागां*त्रात्परगतश्वानिलः प्रशान्तिमुपगच्छति ।
कर्णिकारोरुबूकशाककरवीराणां पत्राणि बृहतीं च समूलपत्रस्कन्धां संक्षुद्य
तिलपिष्टयुक्तां महास्थाल्यां वा लौह्यां क्वाथयित्वा विधिवत्तैलाभ्यक्तस्य नाडी-
स्वेदं कुर्यात् । ततोऽस्य मूत्रं प्रवर्तयेत्, गात्राणां च मार्दवमुपजायते, व्याधिश्च
नश्यति, अरुक्शरीरश्च भवति । अथवा बिल्वसुरसैरण्डपत्रैश्च सह तिलचूर्णैर्ब-
दराम्लदधिस्थूल(त्थ)शूकरमांसैर्नाडीस्वेदं कुर्यात् । एतैरेवौषधैः सार्धं मांसं
संस्कारयेत् । सुसंस्कृतैश्चैनं भोजयेत् । रसं चैनं पाययेत् । शाल्योदनं च
भोजयेत् । ततः प्राणोऽस्य वर्धते, व्याधिर्निवर्तते। भवत्यपि च शीघ्रं स्वस्थी ।
कृतस्वेदस्यास्य च शीतीकरणं विदध्यात् । ( †उशीरोत्पलपद्मपत्रैर्दधिमिश्रैः
प्रदेहं कुर्यात् । भूयश्च मरिचपिप्पलीभिर्घृतमण्डं विपाच्य तेन सर्वसेकं विद-
ध्यात् ) पयस्याटरूषकश्वेतकिणिही+तुष्टन्मरीचानां निर्यूहे पादावशिष्टे तैलं
विपाच्य विधिवदनुवासनं विदध्यात् । ततः क्षिप्रतरमेव स्वस्थो भवति । महा-

  • 'गात्रापर' इत्येव साधुः । † धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति ।
  • तुवत्स्थाने त्रिवृत्साधुः ।
    १ क. ॰तं भवति र॰ । २ क. ॰स्तम्बर॰ । ३ क. वायुं गृह्णा॰ । ४ क. ॰तं
    सप्त॰ । ५ ख. कुशलिनो । ६ ख. चोपाहरेत् । ७ ख. सलिले । ८ क. समवाप्य ।
    ९ क. लौह्या । १० ख. ग. ॰ति, नीरू॰ । ११ क. ॰षकश्वेति किं॰ ।

६० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
पञ्चमूलं बिल्वफलपत्राणि तरुणान्याम्रातकस्याऽऽढकपाञ्च पत्रभङ्गाञ्छता-
वर्या विदार्याश्च मूलैर्भद्रमुस्ताशाकफलानि च निष्क्वाथ्य तत्र वराहमहिषयोः
प्रभूततैलं रसं कृत्वा स्वर्जिकालवणाभ्यां संस्कृतं पाययेत् । तेनैव चैनं भोज-
येत्, सद्यः सुखी भवति । अथ बदरामलकयोर्निष्क्वाथस्य त्रीन्भागान्दध्नश्चाष्टच-
तुर्थमम्लस्य तैलभागं पञ्चमं चात्र कृत्वा पिप्पलीमरिचपोश्च कल्केन यूषं
विपाच्य व्यक्तलवणीकृतं दद्यात् । भोजयेच्च वारणं व्याधिप्रशमनार्थम् ।
( *अथवा यवगोधूमतिलकलकतर्कार्यु रूषकार्कभङ्गैः शार्ङ्गष्टा(?) कल्कयुक्तैर्जलेनैव
नाडीस्वेदं कुर्यात् । पृश्निपर्ण्यंशुमतीफणिज्जकमेषशृङ्गीमुस्तानां निष्क्वाथै रोहित-
तमत्स्यस्य कृष्णमत्स्यस्य च वा रसं पाययेत् । भोजयेच्चैनं व्याधिप्रशमनार्थं )
विधीयते । निवातस्थस्य स्वभ्यक्तं चैनं नाडीस्वेदपिण्डस्वेदैरुपक्रमेत् । विषाणिकां
चार्कपर्णीं त्रिकटुकं चित्रकं प्रियङ्गुं च गुग्गुलुतगरफणिज्जकफलानि च सूक्ष्म-
चूर्णानि कृत्वा नस्यं प्रधमनं दद्यात्, कर्णिकारोरुबूकाशोकबदरकरवीरखदिर-
शल्लकीनीपासनमुस्तमधुशिग्रुवेणुकपित्थबिल्वपाटलाधातकीवासन्तीश्रीपर्णीसु-
मनासुरसानवमालिकास्फोतापञ्चमूलबलानागबलाद्विपुनर्नवाचूर्णकानां बृह-
त्याश्च पत्रभङ्गान्संक्षुद्य द्विहस्तपरिणाहं चतुर्हस्तावगाढमवेंटं दृढकूलं खान-
यित्वा पत्रभङ्गानेतान्प्रक्षिपेदुत्तरोदके । ततोऽग्निवर्णैरयोगुडैरुष्णीकृत्य तदुदकं
हस्तिनं तैलेनाभ्यज्य गोण्या प्रतिच्छाद्य स्वेदयेत् । अथवा हस्तिप्रमाणमवंटं
कारयित्वा पूर्ववदुष्णेनावगाह्य स्वेदयेत् । भूयश्चैनं रोहितमत्स्यमहिषौजहरिण-
वराहाणामन्यतमस्य रसेन स्नेहकल्क लवणयुक्तेन भोजयेत् । सर्वाश्च क्रिया
निवातस्थस्याभ्यक्तस्य कुर्यात् ॥
तत्र श्लोकः—
कष्टो ह्येष भृशं व्याधिर्वारणप्राणनाशकः ॥
उपचरेद्यथाशास्त्रं यत्नतो बालपाककम् ॥
. इति बालपाकलहेतुलक्षणचिकित्सितम् ।
अथातः पकलपाकलचिकित्सितं व्याख्यास्यामः-इति ह स्माऽऽह भगवा-
न्पालकाप्यः—
४अथ यदा द्विरदः ५शुक्ताम्लक्षारलवणकटुतिक्तकषायरूक्षाहारप्रसक्तोऽयोग-

  • धनुराकारमध्यगतपाठः कपुस्तके नास्ति ।
    १ ख. °वटुं दृ° । २ क. ख. °वटुं का° । ३ क. °पाजाह° । ४ क.
    अथवा । ५ क. ख. शुक्लाम्ल° । •

९ पाकलाध्यायः ] हस्त्यायुर्वेदः । ६१
व्यायामव्यवायप्रवातोष्णस्थानशयनपरिसरणचेष्टारतः, तस्य वातपित्ते प्रकुपिते
हृदयमुपेत्यागम्य हढमुद्वान्तं पकलं नाम पाकलमभिनिर्वर्तयतः ॥
स तेनाऽऽविष्ट आटोपितकरनयनकर्णवालधिर्मुहुर्मुहुः कर्णौ स्फोटयति निश्च-
सिति विजृम्भते संवीजते । सगदे विक्षिपति संरमते गुडुगुडायते, अश्रूणि मुञ्चति
कवलाभिनन्दी भवति । तं पुनर्निरुत्स्मर्त पुनर्भक्षयितुमिच्छति । तं पुनरुत्सृजति
(क्रुध्यति विक्कूजति) विधुनोति शरीरम्, प्राकारगृहतरुवृक्षकपाटकुड्यवल्मीक-
स्तम्भादीन्हन्तुमिच्छति, पुरुषपशुहयरथगजयानशकटदीनि च । विशेषतश्च
वैद्यमभिक्रुध्यति । यन्तृपरिकर्मभिश्च नियन्तुं शक्यते वाग्दण्डाङ्कुशप्रतोदै-
र्निर्भर्त्सनैः । पकल इति कोपः । तेनोपसृष्ट इति पर्कलसमेतैर्लिङ्गैरुपलभ्य
पकलपाकलं चिकित्सितुमुपक्रमेत त्वरमाणः ॥
पयः पञ्चमूलशृतमुपाहृत्य सुखोष्णं बदरमिश्रं सलवणं पाययेत् । अथवा
वचाबिल्वजशृङ्गीभ्यां वराहवसाया सह शृतं पयः सौवर्चलेन कपालभृ-
ष्टेन सह संयोज्य पाययेत् । अथवा मूर्वापिचुमन्दगवाक्षीगिरिकर्णिकामू-
लानि बाह्लीहरीतकीकपित्थेन च संक्षुद्य पयसाऽऽलोड्य सह तिलचू-
र्णेन पाययेत् । अथवा-सप्तकृत्वो भृष्टान्यष्टौ लवणानि सामुद्रबिडसै-
न्धवसौवर्चलौद्भिदयवक्षारारामकघटीलवणानि सूक्ष्मचूर्णानि कृत्वा प्रसन्ना
सह संयोज्य पाययेत् । आध्मातं शोणितमेहनमतिजातं कृच्छ्रमुत्रिणं
चैतेन योगेन चिकित्सयेत् । दन्त्यामलकगवाक्षिकाकालातृवृच्छृङ्गिनी-
नीलिकाफलपिप्पलीः संक्षुद्य गोमूत्रे रात्रि build [L20 continued: पर्युषितं पाययेत् । ततः]
पीतैव सपुरीषे वातपित्ते निरूहति । विरक्तं चैनं कालाविदारीसुग्हा-
गोलोमीक्वाथेन स्वेदयेत् । नीपश्वेताकिर्णिहीनैलसुरसावंशाङ्कर्णाणां पत्राणि यव-
कोलकुलत्थनिष्पावाढकीसणमूलकबीजानि + दधिनि शिशिरे जले निष्क्वाथ्य
ससौवर्चलेनाऽऽस्थापनं विधिवद्दद्यात् । अथ वा दधि लवणमधुमधूकपयस्याम-
त्स्यवसाभिः शृताभिरास्थापयेत् । ततः प्रत्यागतास्थापनमपहृतदोषगुप्तमुष्णे-
नैव वारिणा पानपरिवेकैरुपचरेत् । ततस्तं घृतेनाभ्यंज्य कुक्कुटान्कदलीक-
न्दकैः सह प्रसाध्य पृष्ठं मन्ये च स्वेदयेन्नागस्य । मुस्तामरिचदेवदारुविडङ्गा-

  • 'दधनि' इति तूचितम् ।
    १ क. °मुपग° । २ क. ख. °निर्वतयतः । ३ क संसरन्तो गुड्गु° । ४ क.
    तं तु न निर° । ५ क. °कुड्यं च व° । ६ क. °तोदेन नि° । ७ ख. °लः । तमे°।
    ८ क. ख. °त्सृष्ट° । ९ क. ख. सृतं । १० क. °ध्मानशोणितं मे° । ११ क.
    विचित्सयेत् । १२ ग. °णिहिङ्गल° । १३ क. मृताभि° ।

जङ्गैर्ऋद्भिः सह पयः शृतशीतं त्रिवृच्चित्रककल्कसंयुक्तं पाययेदामाशयविशुद्ध्य-
र्थम् । अथवा गोपगुन्द्रामेषशृङ्गीनिम्बत्वग्गोमतीत्रिवृद्द्विकडूचित्रकैः पयः साध-
यित्वा पायितो नागो विशुद्धकोष्ठो भवति । अथवा सूक्ष्मैलासर्षपफणिज्जकक-
ट्फललशुनविडङ्गमरिचवचापटोलक्षुद्रमत्स्यपिप्पलीकुलत्थकुक्कुटाण्डादीनां
निर्यूहं पादावशिष्टमवतार्य परिस्राव्य पुनर्महिषमांसवसास्थूलाद्यैः सह विपाच्य
पाययेद्भोजयेच्च वारणम् । भूयश्च शतपत्रैर्विदुलामलकोदुम्बरशमीजम्बुकपित्थ-
पुत्रश्रेण्यश्मन्तकानि संक्षुद्य त्रिरात्रमासवमासुतुपादौमूत्रे । ततश्चैनं पाययेत्पा-
नानिं पञ्च पञ्चरात्रम् । लामज्जकोशीरहरीतकीशतपुष्पप्रियङ्गुरोध्रमधुककट्-
फलानां चूर्णैरासवं कृत्वा विधिवत्सप्तरात्रादूर्ध्वमष्टौ पानान्यहान् दद्यात् । ततोऽ-
नुलोममारुतोऽपेह्तपित्तः स्वस्थो वारणो भवति । ततश्चास्य शतावरीस्फूर्जक-
फणिज्जकमेषशृङ्गचाटरूषककोविदारानिम्बार्कनीपपटलीकुटजकपित्थशक्रयवपु-
नर्नवासोमवल्कान्कल्पयित्वा तिलचूर्णेन सह निष्क्वाथ्य नाडीस्वेदं विधिवत्कु-
र्यात् । सपत्रेण चैनं निष्क्वाथेन स्वेदयेत् । ततश्चैनं गोधाया रसेन मागधी-
किराततिक्तैकटुकषाययुक्तेन भोजयेत् । मरिचपिप्पलीचूर्णेन श्लक्ष्णीकृतेन
श्वाविच्छल्यकयोर्भरिरसं पाययेत् । भूयश्च तैरेव मांसैर्भोजयेत् ।
तत्र श्लोकः-
द्विदोषकोपात्खलु पकलोऽयं वाताच्च पित्ताच्च भवेदुदीर्णात् ॥
स्निग्धं च तिक्तं च सदाऽस्य कार्यं पानं च भोज्यं च चिकित्सकेन ॥
इति पकलपाकः ( लहेतुलक्षणचिकित्सितानि ) ॥
अथातो मृदुग्रहपाकलचिकित्सितं व्याख्यास्यामः-इति ह स्माऽऽह भग-
वान्पालकाप्यः ।
यदा तु खलु वारणो व्यायाममुष्णेऽतिमात्रं कारितो भवति । अतिगुरुभा-
रस्खिन्नोऽध्वकर्मणि वा योक्ताऽधिष्ठितोऽतिमात्रं बलहीनो वातल्यान्याहारयते ।
अथवा क्षीणः प्रक्षीयमाणधातुर्वा कथंचित्सात्म्यविरोधीनि वा सेवते । सलिलं
चातिमात्रं पिबति कलुषं दुष्टामगन्धं निवातस्थानशय्यासनसुखं न लभते
जाग्रर्ति वा । कथंचित्तस्य वायुर्विमार्गमपन्नो व्यापादयति कफपित्ते रसादीन्वा
धातूनस्य देहे । स तु तन्निमित्तं व्यापन्नेऽन्यतरस्मिन्धातौ प्रकृतौ चापि विप-
र्यस्तायां श्लेष्मोपलिप्तवातधातुः । पित्ते च विमार्गगते प्रक्षीयते श्वसिति च्छर्द्द-
१ क. ॰शृङ्गाभिः । २ क. ॰पकाञ्चकक॰ । ३ क. ॰त्रवदराम॰ । ४ क. ॰नि
पञ्चरा॰ । ५ क. ॰कोलेशी॰। ६ ख. ॰पहत॰ । ७ क. ॰क्कक॰ । ८ ख. ॰ति ।
नाथाज्यते । तापाद्याहतः । अथवा क्षी॰ ।

९ पाकलाध्यायः ]' हस्त्यायुर्वेदः । ६३
यस्येभीक्ष्णं वमथुम्, यवसकवलकुवलपल्लवं च नाभिनन्दति, न मृदुग्रहाभिभूतः
स्वपिति, ध्यायति गुरुमक्षिकः । गात्राणि च निरस्यति स्विन्न इव दुर्मना
निकर्षति पूर्वकायम्, कृशश्च हारिद्रवर्ण इव दृश्यते । कथंचित्कवलमेकं द्वौ वा
ग्रसते परं त्रीन, ग्रसित्वा श्लेष्मणा रक्तेन वा सह निरस्यते । शनैः शनैः
क्षीयत इति मृदुग्रहः । तं राजयक्ष्मेत्याहुः । केचिद्गृहीतमात्रमेवोपक्रमेत, उपे-
क्षितो हि न शक्यश्चिकित्सितुमिति ॥
काश्मर्यप्रियङ्गुगोमेदकीच संक्षुद्य शीतेन वारिणा संयोज्य परिस्राव्यं
द्रोणमात्रं कषायं यावद्वा॑ साधु मन्यते, तावत्तन्मधुसंयुक्तं पाययेत् । वमथुप्रश-
मनार्थं सोभाञ्जनकाजगृष्टीबिल्वानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथु-
प्रशमनार्थं कर्णिकारत्वक्शल्लकीबीजमृणालिकातालीशपत्रप्रियङ्गुविदारीकन्दह-
रीतकीबर्बरतृणानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथुनाशनो भूयश्चैष
गणः-कर्णिकारादिरर्केक्षारसंयुक्तः समधुर्वमथुमुपहन्ति । अथवा शार्ङ्गेष्टाबि-
ल्वातिन्दु कीमधुरसानां मूलैः कषायं कृत्वा मधुसंयुक्तं पाययेत्, वमथुप्रशमना-
र्थम् । तस्य प्रशान्तवमथोरभ्यञ्जनस्नेहनसेचनस्वेदनबृंहणानि योगतः कुर्यात् ।
काम्बोजीकसेरुकोशीरनालिकाविशमृद्वीकानां निष्क्वाथेन सर्पिर्मण्डं विपाच्य
तेन स्नेहेन विधिवदनुवासनं दद्यात् । यवबदरचूर्णानां मधुसंयुक्तं द्रोणमात्रं तु
भोजयेत् । निस्तुषांस्तु माषान्दध्युदश्विदम्लसिद्धान्सर्पिषा प्रभूतेन युक्तान्स-
लवणान्भोजयेत् । वेणुपर्णाशिनमथैनं कृशरां सुस्निग्धसलवणां भोजयेत् । सायं
चैनं वाराहेण मांसेन सुस्निग्धेन सुलवणेन भोजयेत् । अथवा स्वरैकरभतुरग-
शशकपुवंगोरभ्रशूकराणां मांसैर्दधिमस्तुसुरासौवीरकघृतमण्डेषु रसं कृत्वा पाय-
येत् । एतेषामेव यथोपपत्त्या बेसवारैर्भोजयेत्ससर्पिष्कैः । कङ्गुयवगोधूमचूर्णानि
तिलमाषयोश्च निस्तुषयोः कृत्वा तेषां. नव भागान्दशमं पिप्पलीशृङ्गवेरयोश्चू-
र्णभागमेतानि विधिवत्पयसि पक्त्वा मधुघृताभ्यां सह भोजयेत् । शृङ्गाटकोशी-
र शतावरीमूर्वाविशमृणालविदारीकशेरुकाः पयसि समावाप्य दधि जातरसं
कृत्वा सौवीरकघृतमण्डेषु बदरक्षोदमिश्रेषु च्छागमृगमांसं साधयित्वा रसं पाय-
येत् । मांसेन चैनं भोजयेत् । बिल्वतिन्दु कीघोण्टामलकफलानि प्रियङ्कुकुभा-
शोकवल्लीनां त्वक्चूर्णैरासु॑नुयात् । आसवं तं मांसस्थितं जातप्रमाणमासायंभो-
जनादष्टभागं दद्यात् । काचमाचीपत्रफणिज्जकाश्मन्त कफलचूर्णैश्च नस्यप्रधमा-
पने कुर्यात् । श्वशृगालखरनकुलानां मांसोष्मणा स्कन्धे स्वेदं कुर्यात् । एकस्य
१ क. °द्वा सामधु मन्येत । तावत्तन्मध्ये सं° । २ क. °रतुर°। ३ क. ख.
°सुनया° । ४ ख. स्कन्धस्वेदं ।

६४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
द्वयोः सर्वेषां वा यथोपपत्त्या, अजस्य सर्वश्वेतस्य सर्वलोहितवर्णस्य वा
पिङ्गलस्य शूनस्तरक्षोर्वा रोहितकृष्णमत्स्ययोर्वा हृदयेन सघृतेन धूपयेत् ।
मूषकैस्य क्षारकायस्य वो लावककाकयोर्वा मेदसा नेत्रयोरञ्जनं धूपनं च
कुर्यात् ॥
तत्र श्लोकाः—
दुश्चिकित्स्यतमो ह्येष पांकलः प्राणनाशनः ।
मृदुग्रहः समारुयातो राजयक्ष्मा सुदारुणः ॥
मृदु पूर्वं गृहीत्वैष क्रमाद्भवति दारुणः ।
यस्मात्क्षपयति प्राणांस्तस्मादेष मृदुग्रहः ॥
जीवेत्स चतुरो मासान्षडष्टौ वाऽपि जीवति ।
जीवेत्संवत्सरं वाऽपि न च रोगात्प्रमुच्यते ॥
शान्तिस्वस्त्ययनैर्धूपैरभ्यङ्गैः पानभोजनैः ।
नस्यप्रधमापनैः स्वेदैः सुप्रयुक्तैस्तु साध्यते ॥
य ऐतं साधयेद्वैद्यः पाकलं तु मृदुग्रहम् ।
स भिषग्दानपूजाभिः पूज्यस्तु सततं नृपैः ॥
इति मृदुग्रहः ( हपाकलहेतुलक्षणचिकित्सितानि ) ।
अथातः कुक्कुटपाकलचिकित्सितं व्याख्यास्यामः—इति ह स्माऽऽह भगवा-
न्पालकाप्यः ।
स यदा वारणः पुरप्रमर्दनादिभिः कर्मभिरतियोगेन पीडितोऽतिमात्रं वात-
प्रकोपहरमाहारमलवणमस्नेहमतिक्रान्तो भोज्यते हन्यते बध्यते वा गाढं तस्य
व्यायामादतिमात्रमभिरूक्षकटुकषायाहारस्य वातः प्रकुपितोऽत्यर्थमेतानि
लिङ्गानि दर्शयति—
प्रवेपते प्रहृष्यति पतति परिवर्ततेऽश्ववत्, नदति ताडयते ध्यायति शिर-
सा भूमितलमाहन्ति, कूजति निःश्वसिति, संरक्तनयनः प्रेक्षते, अष्ठीलिकाभ्यां
धरणीतलमाहन्ति, ललाटेन वा, *तिष्ठते, कुण्डलीकरोत्यात्मानं समन्तात्परि-
कर्षति, व्याददाति मुहुर्मुहुर्मुखम्, अतिसार्यते, मत्त इव भवति भूतोपसृष्ट इव
* स्थेयाख्यायां प्रकाशने वा तङ् ।
१ क. ॰कस्याक्षा॰ । २ क. वा वाचक॰ । ३ क. पाल्कः । ४ क. एनं ।
५ क. पुरः प्र० । ६ क. ध्यापयति । ७ ख. ०टेनावतिष्ठ० । ८ ख. अतिसीर्यते ।

९ पाकळाध्यायः ] हस्त्यायुर्वेदः । ६५
च लक्ष्यते ध्यायति कुप्यति, कुक्कुट इव कूजतीति कुक्कुटपोकलः । तं वैद्य
एतैर्लिङ्गैरुपलभ्य कुक्कुटपाकलगृहीतमिति विज्ञाय चिकित्सितुमुपक्रमेत—
यवक्षारसमुद्रलवणबदरबिडङ्गहरिद्रामरिचपिप्पलीः समभागाः संक्षुद्य दधि-
मधुघृतसंयुक्तान्षोडश कवलान्भोजयेद्यथाग्निवर्ण विभज्य वारणम् । अथार्का-
रूबूकवत्सकतर्कारीशोभाञ्जनकाढकीनां मूलफलपत्राणि संहृत्य मधुरसापाठा-
चित्रकांशुमतीपृश्निपर्णीनां च मूलानि कुटजनीपनिर्गुण्डीनां फलानि संक्षुद्य
सैन्धवसामुद्रबिडयवक्षारकुलत्थाम्लदधिमस्तुसौवीरकैः सह संयोज्य भोजनायो-
पाहूरेत् । (*अथवा न्यग्रोधाढक्युरूबूकपाटलीकर्पासीनां मूलफलपत्राणि संहृत्य
मधुरसापाठाचित्रकांशुमतीपृश्निपर्णीनां च मूलानि कुटजनीपासनशल्लकीनां
फलानि संक्षुद्य सैन्धवसामुद्रबिडयवक्षारैः संयोज्य नाडीस्वेदं कुर्यात् । एतेषां
च पत्रभङ्गेन सुखोष्णेन स्वेदयेत्) । कुक्कुटस्य कृष्णमत्स्यस्य वा रुधिरेणाञ्जन-
धूपनम् । पश्चाङ्गस्य निम्बस्य वा मुखे शिरसि शरीरे च कृत्वा नक्तमालफलश्वेत-
सर्षपकुलत्थहिङ्गवजाजी(व)र्बरतृणाश्वगन्धापूतिगन्धार्कविषाणिकाकौशिकैः
सह वानररुधिरैर्धूपयेत् । भद्रमुस्ताकाश्मर्यकुस्तुम्बुरी (रु) सुरसपत्रबिडङ्गेस्तैलं
विपाच्य विधिवदनुवासनं कुर्यात् । सर्पनिर्मोकवानररोमकुक्कुटमेदोभिरजाघृतसंयु-
क्तैर्धूपयेत् । काकमाचीपत्रफणिज्जककाश्मर्यकट्फलचूर्णैश्च नस्यं प्रधमनं कुर्यात् ।
अञ्जनं यवक्षारं काककुक्कुटयो रुधिरेण शिरीषफलैःसंयुक्तैन कुर्यात् । अतसी-
शीतशिवाकृष्णकन्दारितालमनःशिलासुवर्णपुष्पीमहाकन्दासर्जरसैः सूर्यसंक-
रणीकैरातमूलनदवोरकसंयुक्तैः पुराणघृतेन संयोज्य धूपयेत् । आमोक्षाच्चैनं
व्याधिमुष्णेनाम्बुना कम्बलैः प्रतिच्छाद्य विना शिरसा योगतः स्वेदयेत् ।
बिल्वफलानि सलवणानि निम्बपत्रपरिवेष्टितं च पिण्याकं भोजनकाले कवला-
न्दद्यात् । अथवा यवनालक्षारं सप्तकृत्वः परिस्रुतं सौवीरकं दधि चेत्येतेषामे-
कैकस्याऽऽढकमुपकल्प्य संयोज्य पाययेत् । भूयश्च मत्स्यरसं मयूररसं पाय-
येत् ॥
तत्र श्लोकौ—
गजप्राणहरो ह्येष व्याधिः कुक्कुटपाककः ।
अनेन विधिना राजन्यथोक्तेन प्रशाम्यति ॥
* धनुराकारचिह्नद्वयान्तर्गतपाठो नास्ति कपुस्तके ।
१ क. °पालकः । २क. °ञ्जनं धू° । ३ क. ख. नश्यं । ४ क. °ल्यु° ।
क. सूर्यकर्ण° । ६ क. °वक्षा° । ७ क. ख. °रिश्रुतं । ८ क. °पालकः ।

Here is the accurate transcription of the text from the provided image:

पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
य एनं साधयेद्वैद्यः कष्टं कुक्कुटपाकलम् ।
पूजयेत्तं सदा राजा ब्रह्माणमिव वासवः ॥
इति कुक्कुटपाकलः ( लहेतुलक्षणचिकित्सितानि ) ॥
अथात एकाङ्गग्रहपाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह
भगवान्पालकाप्यः ॥
इह खलु भो वरुणग्रहो नाम दैवाद्ववति दोषादित्येके । तस्य दैवादुत्पन्नस्य
तावत्कारणं ब्रूमः । अथ यदा नगनदीनदसरस्तडागपल्वलादीनां तीर्थेष्वविशे-
षेष्वज्ञातनामकर्ममर्मस्वदृष्टपूर्वेषूदकेषु हस्तिनं वरुणानुचरसेवितेष्वकृतनदीपज्ञेषु
नैगबन्धनेषु पाययन्त्यवगाहयन्ति वा हस्तिजीविनः प्रमादान्मोहादज्ञानाद्वा,
तदा वरुणस्तेनाभिभूयते । अथ वा देवतायतनपाखण्ड्यावसथाश्रमभञ्जनाद-
मर्दनाच्छून्यागारचतुष्पथमहानीसंकटनिर्झरनिकुञ्जेषु सुदारुणेषु ( *महाप-
थनगरसंगमपथेषूग्रदारुणेषु ) तिथिनक्षत्रेषु श्मशानपरिवांसाद्भवति । अथवा
मन्त्रयोगादुग्रसिद्धचारणमातङ्गशाकिनीन्द्रजालिकशबरबर्बरादिभिरेवंविधैरन्यैश्च
मायाविभिरुपहारार्थं गृह्णतस्तथा भवति । भवति च भूतपिशाचयक्षराक्षसनिररी-
षणात् । तस्यैवं दैवादुत्पन्नस्य निदानमुपवक्ष्यामः—
हस्तगात्राणामन्यतममङ्गं न शक्नोति संकोचयितुमुत्क्षेप्तुमासितुं परिकु(क्र)प्तुं
वा बद्ध इव भवति, निःश्वसिति ( *भ्रमति परिणमति ) संकुचति नदति
ध्यायति पर्यश्रुनयनः, तस्यैकाङ्गग्रहणादेकाङ्गग्रहणपाकल इत्याख्यातः । तस्य
स्थले जले वा निषण्णस्य निवृत्तं चिकित्सतम् । अथापिं पन्तारमिति विचिन्त-
यन्धावति स्थलाज्जलाद्वा । यदा चै कमलकुमुदकुवलयतामरसकल्हारोत्प(*ला-
नामन्येषां वा ज)लजातानां कुसुमानां समानगन्धः, तदाऽप्यस्य निवृत्ता प्रति-
क्रिया । प्रकृतिस्थगन्धस्यापि सतो यदि ( *भवति ) हरितालहिङ्गुलमनः-
शिलानामन्यतमेन सवर्णता, तदाऽप्यस्य निवृत्तः प्रतीकारः । अविवर्णस्यापि
विगन्धस्य प्रभावतः .करगात्रापरोदीनां व्यापाराणां पक्षस्तनस्तब्धस्यापि
सतोऽङ्गस्य प्रतीकारं वक्ष्यामः—
स्वस्तिकापूपसंयावपूषोल्लापिकापरमान्नगन्धधूपसंयुक्तानि स्थलजलजानि
कुसुमान्याहृत्य सौवर्णान्स्वस्तिकांश्चोपहृत्य कन्याः संतोष्यित्वा कृतमङ्गला अहते
वाससी परिहिता नद्या बलिमुपहरेत्ततूर्यघोषैः । वैद्यश्चाप्युपवासं (स) प्रयतोऽ-

  • 'धनुराकारचिह्नचतुष्टयान्तर्गतपाठः कपुस्तके नास्ति ॥
    १ क. ०ष्वविशेष्व० । २ क. नागबन्धेपु । ३ क. ०वासवङ्ग० । ४ ख.
    ०पि यातार० । ५ क. ०वृत्तप्र० । ६ क. ०राण्या० । ७ ख. ०हंतवा० ।

९ पाकल्याध्यायः ] हस्त्यायुर्वेदः । ६७
हतवासास्तत्र यथोक्तमुपहृत्याग्निं प्रागुत्तराग्रैर्दर्भैर्हस्तिनीसमीपे स्थण्डिलं परि-
स्तीर्योदुम्बरशाखाभिः कुसुममालाभिश्च परिवार्य तत्रौदुम्बरीभिः समिद्भिर्वह्निं
प्रज्वाल्य सौवर्णस्वस्तिकादिभिरर्चयित्वा गोदधिमधुघृततिलैर्वरुणाय हुत्वा
प्रसन्नां मैरेयं सीधुमुपहृत्य बलिं ब्राह्मणान्स्वस्ति वाचयित्वा वैद्यः प्राङ्मुखो
रात्रौ मन्त्रेणानेन जुहुयात् — 'नमोऽस्तु वरुणदेवाय सह नदीभिः स्वाहा ।
नमोऽस्तु पाशेभ्यो नागेभ्यो ग्रहेभ्यः स्वाहा । स्वस्त्यस्तु ते हस्तिने स्वाहा'
हुत्वा ब्राह्मणान्स्वस्ति वाच्य हस्तितीर्थे बलिं वरुणायापहरेत् । सीधुं मैरेयं
प्रसन्नां सुरामुद्धृत्य बलिं रात्रौ कृताञ्जलिर्वैद्यः प्रयतो हस्तितीर्थाभिमुखो मन्त्र-
मिमं ब्रूयात् —
इन्द्रेण दत्तां पृथिवीं राजा पाति स्वकर्मणा ।
तमिन्द्रं पार्थिवं देवा गोपायन्ति सवाहनम् ॥
येनैष धर्षितो हस्ती तं क्रुद्धः पृथिवीपतिः ।
शक्तो निर्विषयं कर्तुमिन्द्रदत्तो न संशयः ॥
मुक्ते ग्रहेण मातङ्गे पूजां राजा करिष्यति ।
तस्मान्मुञ्चतु मातङ्गं मा हिंसीष्ट (स्त्वं) नमोऽस्तु ते ॥
रक्षोभिस्तु गृहीतानां ददाति पिशितौदनम् ।
गन्धर्वैर्किन्नरेभ्यस्तु गीतवादित्रनिःस्वनम् ॥
नागेभ्योऽपि नृपो दद्याद्दधि कुल्माषमोदनम् ।
इति त्रिरुक्त्वा† भूयश्चिकित्सितुमुपक्रमेत् ॥
कालकन्दाविदारीकुम्भीकानि तिलपिष्टं च सहोत्क्वाथ्य नाडीस्वेदं कुर्यात् ।
अथवा नीलोत्पलकुमुदशृङ्गाटककसेरुकशालूकशैवालनलिनकुवलयानि निष्क्वाथ्य
नाडीस्वेदं कुर्यात् । उदक्यो हृत्पलकन्दैश्च घृतेन संसृज्य धूपयेच्छ्रो(त्सो)तोभ्यः।
अथवा मत्स्यकच्छपकुक्कुटैः सघृतैर्यवहिङ्गुभिर्धूपयेत् । जलचराणां च सत्त्वानां
शिशुमारादीनां रसेन भोजयेत् । अथवाऽजगरमकरचर्मराजीरसेन भोजयेत् ।
जलचराणां च पक्षिणां यथालाभं रसेन भोजयेत् । अयोगुडैरुष्णमम्भः पाययेत् ।
आव्याधिप्रमोक्षाच्च वेल्लनलङ्घनप्रसारणचङ्क्रम‌णानि शनैःशनैः कारयेत् ।
नदीं चैनं न गमयेदिति ॥
अत्र श्लोकौ—
† इति त्रिरुक्त्वाऽसौ भूय इति पाठः कदाचिद्भवेत् ।
१ क. °न्नां सुरा° । २ क. °मिन्द्रपा° । ३ क. शक्रो । ४ क. °कुम्भि-
कानिल° । ५ क. °क्याद्युत्प° । ६ क. °न्तं विग° ।