सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 77, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 77

५८ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने-
शुद्धात्कफात्समुत्पन्नं शुद्धपाकलमादितः ॥
प्रत्याचक्षीत मेधावी लिङ्गैरैतैः समन्वितम् ॥
( इति ) शुद्धपाकलः ( लहेतुलक्षणासाध्यत्वानि ) ॥
अथातो बालपाकलचिकित्सितं व्याख्यास्यामः । इति ह स्माऽऽह भगवा-
न्पालकाप्यः-
स खलु भो रूक्षलघुशिशिरविशदकटुकषायतिक्तविषमविरुद्धभोजनात्,
दुःस्थानशयनात्, रात्रिजागरणात्, अतिगुरुभारहरणात्, व्यायामव्यवायात्,
अध्वगमनात्, क्षयात्, मनःसंतापात्, ऋतुविपर्यासात्, लङ्घनात्, अतिब-
न्धनात्, मूत्रपुरीषधारणात्, प्रावृषि च प्रकुप्यति पवनः । स प्रकुपितः करच-
रणनयनवदनकर्णलाङ्गूलकुक्षिपक्षस्कन्धजघनमेहनशिरसामन्यतममासाद्याङ्गं
सर्वाङ्गानि वा गृहीत्वेमान्विकारानापादयति ।
तत्र करगते मारुते-नावमृशति नोन्मृशति, न हस्तं संकोचयति, न
प्रसारयति, न निर्धमति । चरणगते-युगपदेकैकशो वा गात्राणि परं स्तम्भ-
यति । ( *नयनगते-न संवर्तयति, ) नोन्मीलयति, न संमीलयति, न
स्वपिति नेत्राभ्याम् । मुखे गृहीतो-नात्ति किंचित् । कर्णगते-स्तब्धकर्णो
भवति । लाङ्गूलगते-लाङ्गूलवंशं स्तम्भयति, लोङ्गूलं शूनं च कुरुते । कुक्षि-
पक्षगतश्च-आध्मानाटोपसंकोचनपक्षघातान्निर्वर्तयति, शूलं कुरुते । स्कन्ध-
गते-न निर्णमति, नोन्नमति, नावनमति, मन्ये स्तम्भयति । जघनगते-
मूत्रपुरीषसङ्गानापादयति । मेहनगते-मेहनं स्तम्भयति, मेहनं च शूनं कुरुते,
रक्तमूत्रं वा प्रवर्तयति । शिरोगते-स्तब्धोन्नतशिरोग्रीवो भवति । पूर्वभागमा-
श्रितः-तदाश्रयां क्रियां विरोधयति, सृष्टमपि च न तत्र मर्षयति । सर्वाङ्ग-
गतः-सर्वानेवाङ्गप्रदेशानन्तर्बहिश्च प्रस्तम्भ्य तिष्ठति, ततो गजः मृध्यायते
निमीलयति, अश्रूणि प्रवर्तयति, न स्थानस्तम्भरथ्यासु मनो धत्ते कृच्छ्राद्वात-
मूत्रपुरीषश्च भवति । भोजनकवलकुवलपल्लवाहारद्वेषी वेदना चास्य सुखदुःखा-
न्वयाद्व्यामिश्री भवति । रूक्षत्वकरचरणादिषु प्रकुपितो बालचेष्टेव क्रमादभिवर्धते
यावत्सर्वाङ्गगतो भवतीति यस्मात्, तस्मात्-तं बालपाकलमित्याचक्ष्महे ॥
स खल्वेष लिङ्गबाहुल्यात्क्षीणदुर्बलवालवृद्धानां कृच्छ्रप्रतीकारो भवति ।

  • धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति ।
    १ क. °नाडुत्थानाच्छयनात् । २ क. °मान्कारा° । ३ क. मुखेन । ४ क.
    कर्णेतेः । ५ क. लाङ्गूलशूलं । ६ क. निर्णयति । ७ क. शूलं । ८ क. °णबा° ।
    ९ ख. °कारतरो ।