सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 76, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 76

९ पाकसाध्यायः ] हस्त्यायुर्वेदः । ५७
रुजतीति रोगः । पचतीति पाकलः । ज्वरयतीति ज्वरः । कल्पति
लोकमिति कालः । मृद्रातीति मृत्युः ।
एवमेतस्मादीश्वरात्रानाविधरूपसंभवनामकर्मण आशीविषाग्न्यशनिनिपात-
कल्पात्पाकलसंज्ञकान्नित्यमेव भेतव्यम् । महानेष व्याधिर्यत्नेनोपचर्यः । नैन-
मन्ये प्राणिनो विषहन्ते, ऋते मनुष्येभ्यः ।
गजास्त्वन्तरूष्मस्वेदत्वान्न सहन्ती, ज्वरं, बहलमांसमेदस्त्वाच्च । पुरुषास्तु
बहिःशरीरगतत्वादूष्मणो विषहन्ते ज्वरमूर्ष्मलक्षणम्, तनुमांसमेदस्त्वाच्च ।
अल्पदोषमृद्भूतं वा द्विरदाः । न चैषामन्येषामिव प्राणिनामूष्मा लक्षणम् ।
सनिदानलक्षणो ह्येष नागानां दशधा संज्ञितः । तद्यथा--शुद्धः, बालः,
पक्लः, मृदुग्रहः, कुकुटः, एकाङ्गग्रहः, प्रसुप्तः, कूटः, पुण्डरीकः, महापाकलश्चेति ।
तत्राऽऽदित एव तावच्छुद्रपाकलविकारं वक्ष्यामः--
स खलु भो दधिगुडतिलपललमत्स्याहारात्, आनूपतृणमांसरसभोजनात्,
अव्यायामात्, तथा शिशिरजलनिषेवणात्, दिवास्वप्नात्, अतिस्निग्धमधुरा-
म्ललवणभोजनात्, विशेषतः कफजननेभ्यः, श्लेष्मा प्रवृद्धः स्थानात्स्थानम-
तिवर्तमानः शिराधमनीभ्यः सर्वशरीरमभिप्रपद्यमानः शुद्धपाकलमभिनि-
र्वर्तयति ।
तस्य लक्षणानि--नीलिमा श्यागत्वं जघननिष्कोशपेचकेषु, कफाच्च निद्रां
जायते, प्रसुप्तवर्त्माध्मातत्वं दृष्टरोमस्तब्धत्वम्, लाङ्गूलश्रवणहस्तचेष्टासु निरु-
त्साहत्वम्, प्रेधमानम् । निमीलनं चाक्षणोः, स्थूलोच्छ्वसनम्, गम्भीरमभिस्वन-
नम्, अव्यञ्जनम्, मक्षिकाणामरक्षणम्, अविज्ञानम्, सलिलद्वेषः, गात्रनिः-
सङ्गः, पांशोरग्रहणम्, दन्तस्य चावधमनम्, भिन्नपुरीषता, स्थूलाश्रुप्रस्रवणम्,
हस्ततः कफप्रसेकः, मुखाच्च लालास्रावः, मद्यां विनिक्षिप्तकायोऽयं निषीदति
च, अक्ष्णोः प्राग्भागे चौष्ण्यमन्यत्र शैत्यम्, न च यवसमभिलषति, मत्तव-
त्कोशकटप्रस्रावी भवति, प्रस्तब्धहस्तो निरीह इव, सर्वगात्राणां दुर्गन्धिः,
स्तब्धाङ्गुलिः, श्यावमुखौष्ठः, श्यामनयननखः, स्तब्धाङ्गः, शुद्धकफोत्पत्तिः, तं
शुद्धपाकलमित्याचक्ष्महे ।
स गजस्तेनाभिभूतो हृदये श्लेष्मणि प्राप्त एकरात्रं वा त्रिरात्रं वा जीवति ।
नैव चतुर्थी रात्रिमभिनिवर्तत इति ।
तत्र श्लोकः--
१ ख. कुर्कुटः । २ क. ख. ०निर्वर्तयति । ३ ख. ०द्रा च जा० । ४ क.
०माधानत्वं । ५ क. प्रधानम् ।
८