हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
४९६ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
हस्ते पञ्च शिराः श्वेता वारणस्य प्रकीर्तिताः ॥
सद्यः प्राणहरा राजंस्तासां छेदो विवर्जितः ॥ २० ॥
निर्याणमध्ये पङ्खै विलागे दन्तवेष्टयोः ॥
कटिश्रो(स्रो)तसि मध्ये च तासां छेदो विनाशयेत् ॥ २१ ॥
वसस्यातु(?)च मध्ये च तत्पले च समाश्रिते ॥
दलिरे पृथिवीपाल तासां छेदो विनाशयेत् ॥ २२ ॥
पेचकस्य च मध्ये स्यात्करीषस्य च मध्यतः ॥
प्रस्त्रावस्य च मध्यस्थः शिराच्छेदो विनाशयेत् ॥ २३ ॥
तथैवाऽऽन्तरसक्थ्नोश्च अण्डकोशस्य पार्श्वतः ॥
अष्टास्वेव महीपाल शिराच्छेदो विनाशयेत् ॥ २४ ॥
संदानभागे मण्डूको ग्रन्थी सकुठिकाह्वये ॥
भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २५ ॥
तनुभागे च रन्ध्रे च अण्डकोशे च दन्तिनः ॥
स्तनान्तरे च नाभ्यां च शिराच्छेदो विनाशयेत् ॥ २६ ॥
अक्ष्णोर्वे कर्णसंधौ च शिरा नागमनुस्रुताः ॥
भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २७ ॥
अतिप्रवृत्ते रुधिरे वारणस्य महीपते ॥
शोणितस्य क्षयाच्चैव वायुर्मर्माणि बाधते ॥ २८ ॥
हृदयं पीड्यते चास्य शोफश्चास्योपजायते ॥
मूर्च्छां च भजते नागस्तृष्णाऽप्यस्य विवर्धते ॥ २९ ॥
दुर्मना वर्णतः पाण्डुर्यवसं नाभिनन्दति ॥
एवंलिङ्गं महाराज प्रत्याचक्षीत वारणम् ॥ ३० ॥
उत्तानायाः प्रसन्नाश्च छवीरोमसमाश्रिताः ॥
शिरास्सायु(?) महाराज छेदमाहुर्मनीषिणः ॥ ३१ ॥
यदा शिरा भवेच्छिन्ना भिन्ना वाऽपि विघट्टिता ॥
अतिप्रवृत्ते रुधिरे स्थापनानि निबोध मे ॥ ३२ ॥
श्रीपर्णीमथ तां बद्ध्वा धातुकांमदनातुभौ ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३३ ॥
यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥
क्षौमस्य तु मषी चूर्णं तथा सर्जरसस्य च ॥ ३४ ॥
१ क. ०त् ॥ मन्दान० । २ क. ०गेध्वेते० । ३ क. शिरो । ४ ख. ०कागद० ।
१९ शिराव्येधाध्यायः ] हस्त्यायुर्वेदः । ४९९
धातकीमदनौ चोभौ काश्मर्याः प्रस्थयोर्जबौ ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३५ ॥
ततः शोणितवेगं तच्चूर्णेनानेन तिष्ठति ॥
यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥ ३६ ॥
मधुकं चन्दनं रोध्रं सर्जं पद्मकमेव वा ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३७ ॥
गोधूमश्चैव रोध्रं च कदम्बश्चैव गैरिकम् ॥
सूक्ष्मचूर्णीकृतैरेतैस्तं व्रणं प्रतिसारयेत् ॥ ३८ ॥
अर्जुनश्च धवश्चैव यष्टी मधुकमेव च ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३९ ॥
समुद्रफेनं तेजोह्लां गोमयस्य रसेन च ॥
शङ्खमध्यं मधुक्षीरमरिमेदस्य ग्रन्थयः ॥ ४० ॥
तथा पलाशनिर्यासो निर्यासस्तिनिशस्य च ॥
भूमीकदम्बकश्चैव गैरिकः सह लाक्षया ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ४१ ॥
एभिर्योगैर्यथाप्रोक्तैर्यदि रक्तं न तिष्ठति ॥
अवगाहं महाराज वारणं तु प्रवेशयेत् ॥ ४२ ॥
गम्भीरे शीतले देशे प्रेण(न)ष्टतृणशर्करे ॥
यदि चैभिः क्रियायोगैः शोणितं न प्रतिष्ठते ॥ ४३ ॥
अश्वत्थोदुम्बरं चैव न्यग्रोधं काकजम्बुकम् ॥
.क्षोदयित्वा महाराज महास्थालीषु पाचयेत् ॥ ४४ ॥
क्वाथेनानेन शीतेन तं व्रणं प्रतिषेचयेत् ॥
अथाग्निश्च प्रयोक्तव्यो विधिना तेन दन्तिनाम् ॥ ४५ ॥
सर्पिषा म्रक्षयित्वाऽथ अग्निकर्म प्रयोजयेत् ॥
नातिदग्धं व्रणं कुर्यादामदग्धं चिरात्सितम् ॥ ४६ ॥
गन्धनिवार्पणार्थाय सर्पिषा परिषेचयेत् ॥
शस्त्राग्निप्रणिधानोक्तैस्तैश्च निर्वापयेद्गजम् ॥ ४७ ॥
पानं च सर्पिषा मिश्रं क्षीरमस्य विधीयते ॥
यथावकाशे महति शस्त्रकर्म विधीयते ॥ ४८ ॥
१ क. प्रतष्ट° ।
५०७ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने-
स्वस्ति वांच्य द्विजांश्चैद्यः शुचिर्भूत्वा समाहितः ॥
वासितैश्च भवेच्छस्त्रैर्बन्धेर्बद्ध्वा मतङ्गजम् ॥ ४९ ॥
यथा शिरास्तथा शस्त्रं सर्वगात्रेषु चोरयेत् ॥
मनश्चक्षुः समाधाय हस्तेन परिमृश्य च ॥ ५० ॥
शस्त्रं निपातयेत्तत्र शिराश्च परिवर्जयेत् ॥
विश्रा(स्रा)व्या ग्रन्थयो ये च तान्मे निगदतः शृणु ॥ ५१ ॥
स्थिरा ये मेदसा चैव ये च संधिं समाश्रिताः ॥
ये च मर्मगता नित्यं येऽन्ये चैवंविधाः स्मृताः ॥ ५२ ॥
अभ्यङ्गैरुपनाहैश्च स्नेहैरूद्वर्तनैरपि ॥
प्रदेहैः पीडनीयैश्च विश्रा(स्रा)व्या ग्रन्थयस्तु ते ॥ ५३ ॥
यथा दोषोपसृष्टानि शोणितानि परीक्ष्य वा ॥
तथा विश्रा(स्रा)व्यमाणे च तत्रैव उपसर्पयेत् ॥ ५४ ॥
वारणं मन्दलवणां पाययेत्तादृशीं सुराम् ॥
तया शोणितवृद्धिश्च जायते दन्तिनस्तथा ॥ ५५ ॥
न हि केवलशास्त्रेण न तथा कर्मदर्शिना ॥
वैद्येन शक्यं भवितुं चिकित्सां वाऽपि वेदितुम् ॥ ५६ ॥
सूत्रं विभजते बुद्ध्या त्रीणि पश्यन्ति चक्षुषा ॥
साध्यासाध्यं च याप्यं च नास्ति तत्र विचारणा ॥ ५७ ॥
अदृष्टकर्मका ये च शास्त्रहीनाश्चिकित्सकाः ॥
प्राप्य कर्मावसीदन्ति बहवो धीरमानिनः ॥ ५८ ॥
शास्त्रज्ञः कर्मणा हीनः कर्मज्ञः शास्त्रवर्जितः ॥
तावुभौ न प्रशस्येते पालकाप्यवचो यथा ॥ ५९ ॥
यः कर्मणि च शास्त्रे च उभयत्र विशारदः ॥
स पूज्यः सततं राज्ञा दानमानप्रतिग्रहैः ॥ ६० ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
शिराच्छेदो नामैकोनविंशोऽध्यायः ॥ १९ ॥
अथ विंशोऽध्यायः ।
अथाङ्गराजो विनयादभिगम्य भगवन्तं पालकाप्यं पप्रच्छ—'भगवन्वा-
रणानां नानाविधं विषमदुर्गमसंबाधगमनगिरिशिखरकंदरारोहणावतरणसम-
१ क. वाद्य । २ क. वा चरेत । ३ क. ॰न विशारदैः ॥ ६० ॥
२० मर्मप्रमाणाध्यायः ] हस्त्यायुर्वेदः । ५०१
र्थानां संग्रामे शक्त्यृष्टितोमरपरशुभिण्डिमालाभिघातादभिहतदेहानां कथं
कर्माणि विज्ञेयानि । तेषां भगवन्कति कर्मा(र्म)णि, किं च मर्मप्रमाणम्, कथं वा
चिकित्सेत, केन वा शास्त्रानुसारेण मर्मप्रदेशा विज्ञेयाः, न शक्यं मर्मांण्य-
ज्ञाता (ज्ञात्वा) शस्त्राद(दि)चारणं कर्तुम् । यथा वारणानां न चाऽऽबाधकरं भवति,
तथा मे वक्तुमर्हसि । भगवंश्शुश्रूषुरस्मि' इति ॥
ततः पालकाप्यः प्रोवाच—इह खलु भो वारणानां सप्तोत्तरमर्मशतम् ।
पूर्वमेव तु शरीरविचये मर्मसंग्रहे समासतो व्याख्यातम् । मर्मप्रमाणमिदानीं
यथा विज्ञायते नागस्य शरीरे तल्लक्ष्यामः—तत्रावग्रहहृदयाण्डकोशवातकुम्भ-
बिम्बकपणवनाभिनिष्कोस(श)मुष्ककमृदुकुक्षिः ॥
तत्र गुदाण्डकोशे हृदयमेढ्रमध्योदरकरप्रत्यङ्गं सप्रतीकाशप्रतीमानगुहस्तन-
प्रोहसंधानभागग्रन्थिसकुटिकातलपलिहस्तवि(चि)कारन्ध्रान्तरापरकुक्षी (?) क-
रीषप्रस्रावकटनयनकर्णहस्तवदनतालुस्रोतःकक्षाभागनिष्कोशमन्यान्तर्बाहुपण-
वकबिम्बकवातकुम्भा अपस्कराष्ठीवमृदुकुक्षिगलपृष्ठपतस्थानग्रीवामन्याभाग-
तालुवाहित्यशम्बुकजिव्हाविलावह्रक्षणविक्षोभचूचुकमुष्ककूमांसतलसंधिथपस्थि-
क्षपकलाभागांसेषु नरसंध्युरसि चेति । स्तनेचिकालमध्यभागतालुमेहनरन्ध्र-
गलकण्ठकक्षावङ्क्षणजिव्हासकुटिकातलसंधिकूर्मप्रोहसंधियतस्थानविक्षोभप्रति-
मानपलिहस्तकपस्थिवाहित्यशम्बुकवक्षःसंधिकुक्षमध्यसुरसंधानभागकटककर्णमुख-
तालुनेत्रचूचुकपायुमेहनहस्तश्रो(स्रो)तांस्यष्ठीव्यगुहभोगप्रत्यङ्गसगुहान्तरबाहुग्री-
वांविभागापस्करे करीपस्रावशंचुककरमध्यप्रतीकाशांसक्षपभागकलाभागान्तरा-
परोदरपृष्ठमध्याख्यानां सद्यःप्राणहरकालान्तरप्राणहरसशल्यप्राणहरवैगुण्यक-
राणां मर्मणां सप्तोत्तरशतं विज्ञेयम् ॥
इदानीमेषां विभागं प्रमाणं व्याख्यास्यामः ।
तत्र गुदमध्ये मर्म षडङ्गुलप्रमाणम् । हृदयमध्ये मर्माष्टाङ्गुलप्रमाणम् ।
अण्डकोशमध्ये मर्म षडङ्गुलप्रमाणम् । बिम्बकमध्ये मर्म षडङ्गुलप्रमाणम् ।
पणवकमध्ये मर्म षडङ्गुलप्रमाणम् । नाभिमध्ये मर्म षडङ्गुलप्रमाणम् । निष्को-
शमध्ये मर्म षडङ्गुलप्रमाणम् । मुष्ककमध्ये मर्म षडङ्गुलप्रमाणम् । मृदुकुक्षि-
मध्ये मर्म चतुरङ्गुलप्रमाणम् । स्तनमध्ये मर्म षडङ्गुलप्रमाणम् । चिकामध्ये मर्म
षडङ्गुलप्रमाणम् । तलमध्ये मर्माष्टाङ्गुलप्रमाणम् । मन्याभागे मर्म चतुरङ्गुलप्र-
माणम् । तालुमध्ये मर्म चतुरङ्गुलप्रमाणम् । मेहनमध्ये मर्म चतुरङ्गुलप्रमा-
णम् । रन्ध्रमध्ये मर्म सप्ताङ्गुलप्रमाणम् । गलमध्ये मर्म सप्ताङ्गुलप्रमाणम् ।
१ क. °नभाग° । २ क. °विलागा° ।
६०२ | पालकाप्यमुनिविरचितो— | [ ३ शल्यस्थाने-
कंक्षाभागे मर्म नवाङ्गुलप्रमाणम् । वङ्क्षणमध्ये मर्म दशाङ्गुलप्रमाणम् ।
जिह्वामूले मर्म त्र्यङ्गुलप्रमाणमिति । एषामन्यतमे मर्मणि गाढविद्धः सद्यः
प्राणैर्वियुज्यते ॥
इत्येतानि ✻चँतुस्त्रिंशति सद्यः प्राणहराणि ॥
अत ऊर्ध्वं छवीनां भिन्नानां लक्षणं व्याख्यास्यामः । इह खलु भोः षट्
छवयो भवन्ति हस्तिनः । तत्र यदा प्रथमा छविर्भिद्यते, तदा पुरीषोदकनिभः
स्रावो भवति । द्वितीयायामुदकश्चा(स्रा)वः । तृतीयायां शोणितश्चा(स्रा)वः ।
चतुर्थ्यां मेदःश्चा(स्रा)वः। पञ्चम्यां मज्जश्चा(स्रा)वः। षष्ठ्यां मर्माभिघातो ज्ञेयः॥
—:०:—
अत ऊर्ध्वं दन्तिनां मर्माणि कालान्तरप्राणहराणि वक्ष्यामः । तत्र सकु-
टिकामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्म्रियते । तलसं-
धिमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र विद्धो मासत्रयान्म्रियते । कूर्ममध्ये मर्म
षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । प्रोहसंधिमध्ये
मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासद्वयेन म्रियते । यतस्थाने मर्म
सप्ताङ्गुलप्रमाणम्, तत्र गाढविद्धो मासद्वयान्म्रियते । विक्षोभमध्ये मर्म सप्ताङ्गु-
लप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे म्रियते । प्रतिमानमध्ये मर्म सप्ता-
ङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्म्रियते । पेलिहस्तमध्ये मर्म सप्ताङ्गु-
लप्रमाणं, तत्र गाढं विद्धो मासत्रयान्म्रियते । व्यस्तिमध्ये मर्म सप्ताङ्गुलप्रमा-
णम्, तत्र गाढं विद्धो मासत्रयाद्यापद्यते । वाहित्यमध्ये मर्म सप्ताङ्गुलप्रमा-
णम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । शम्बुकमध्ये मर्माष्टाङ्गुलप्रमा-
णम्, तत्र गाढं विद्धो मासत्रयाद्यापद्यवे । वक्षःसंधिमध्ये मर्माष्टाङ्गुलप्रमाणम्,
तत्र गाढं विद्धो मासद्वयान्म्रियते । कुक्षिमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढं
विद्धो मासद्वयान्म्रियते । संदानभागमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढं विद्धः
षण्मासाभ्यन्तरे विनश्यति। इत्येतानि पञ्चविंशतिमर्माणि कालान्तरप्राणहराणि॥
—:०:—
अत ऊर्ध्वं वैगुण्यकराणां लक्षणं वक्ष्यामः । कटकर्णमुखतालुनेत्रचूचुकपायु-
—मेहनहस्तश्रो(स्रो)तःसु पञ्चदशसु प्रत्येकं चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धो
† कण्ठमध्ये मर्म सप्ताङ्गुलप्रमाणम् । इत्यधिकमितः परं कपुस्तके ॥
✻ आदर्शद्वयेऽपि तुल्यः पाठः । तथाऽप्युक्तसंख्यया तु न लभ्यते ॥
१ क. पर्णिह°। २ क. ख. °ते । अस्थि° । ३ क. °मः । तालुपायुमेहनहस्तमुखकण्ठ-
कर्णनेत्रचूचुकश्रो° ।
वैकल्यात्कृच्छ्रजीवी भवति । अष्ठीवयोर्मर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽ-
पकर्षति । गुहाभागमध्ये कर्णाश्रितं मर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धः
स्तब्धगात्रो भवति । प्रत्यंसमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धः
स्तब्धकर्णो भवति । अन्तर्बाहुमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धो
हृद्रोगी भवति । ग्रीवामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धस्य मन्या-
स्तम्भो भवति । बिलाङ्गममध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धश्चक्षुर्वैकल्ये
भवति । अपस्कारमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो
भवति । करीषस्रावमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध आनाहेन
पीड्यते । चूसुकयोर्मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उरःसङ्गमवाप्नोति ।
करमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उत्कर्णकेन पीड्यते । प्रतीकास-
(श)मध्ये मर्म षडङ्गुलप्रमाणम् । तत्र गाढं विद्धः पाकलेन पीड्यते । अंश(स)मध्ये
मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो गात्रभङ्गमवाप्नोति । क्षयभागे मर्म सप्ताङ्गु-
लप्रमाणम्, तत्र विद्धस्य गात्रस्य रुजा भवति । कलाभागमध्ये मर्म सप्ताङ्गुल-
प्रमाणम्, तत्र गाढं विद्धोऽतीसारमवाप्नोति । अन्तरोपरमध्ये मर्म सप्ताङ्गुलप्र-
माणम्, तत्र गाढं विद्धो मूत्रसङ्गमवाप्नोति । उदरमध्ये मर्म सप्ताङ्गुलप्रमाणम्,
तत्र गाढं विद्धो मेढ्रशोषमवाप्नोति । पृष्ठमध्ये मर्म विंशत्यङ्गुलप्रमाणम्, तत्र
गाढं विद्धोऽपरंरोगी भवति । इत्येतानि चतुस्त्रिंशन्मर्माणि वैगुण्यकराणि
भवन्ति । तत्र वैगुण्यकराणां चतुर्दशानां मर्माणां लक्षणान्युक्तानि ॥
तत्र श्लोकाः—
एवं सप्त महाराज शतं च परिकीर्तितम् ।
वारणानां शरीरेषु मर्मणामिति निश्चितम् ॥
तस्मान्मर्माणि संरक्षेद्वारणानां भिषग्वरः ।
.... .... .... .... .... .... ....ततः कुर्यात्क्रियापथम् ॥
यो मर्माणि न जानाति वारणानां विभागशः ।
न स कायक्रिया(?)नागे विषपान्ते तमुत्सृजेत् ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थाने
मर्मप्रमाणो नाम विंशोऽध्यायः ॥ २० ॥
१ क. ॰रामच्छेदोऽ° । २ क. ॰शत्पञ्चाङ्गुलं प्र° । ३ क. ॰शतिर्मा° ।
५०४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
अथैकविंशोऽध्यायः ।
अङ्गश्च राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
एरण्डकानामुत्पत्तिं ब्रूहि लिङ्गं तथा क्रियाम् ॥ १ ॥
एवं च निर्विषो भूत्वा सविषः केन जायते ॥
दष्टस्तु सप्तरात्रेण कस्मात्कुप्यति दन्तिनाम् ॥ २ ॥
मासैश्च सप्तभिः कस्मात्तथा संवत्सरैरपि ॥
- के वर्णाः कानि रूपाणि जातयः कति च स्मृताः ॥ ३ ॥
निर्विषं च कथं दष्टमविषं चात्र वै कथम् ॥
एवं पृष्टस्तु राजेन्द्र(?) पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥
शृणु सर्वं महाराज यन्मां त्वं परिपृच्छसि ॥
भौमास्तथाऽऽन्तरिक्षाश्च श्वानस्तु द्विविधाः स्मृताः ॥ ५ ॥
भौमास्तु त्रिविधा ज्ञेया ग्राम्यारण्यसमुद्भवाः ॥
तेषामृतुविपर्यासाद्रसानां च विपर्ययात् ॥ ६ ॥
गर्भा एव तु जायन्ते मातुराहारजै रसैः ॥
मण्डूकान्कृकलासांश्च सर्पवृश्चिकगोनसान् ॥ ७ ॥
यदा तु नरमांसं वा श्वमांसं वा समश्नुते ॥
विषं तदुपयुक्तं हि मात्रा त्वस्य तदा भवेत् ॥ ८ ॥
संतर्पयति तं गर्भं तर्पितं च प्रसूयते ॥
तेन दोषश्च जायेत गर्भस्थस्यैव देहिनः ॥ ९ ॥
अप्रकोपाद्धि दोषाणां जातः स्वस्थो भवेद्यदा ॥
कोपयेत्तु तदा दोषांस्तस्य तत्संचितं विषम् ॥ १० ॥
अन्योन्यमूर्च्छिताः सर्वे मंदं कुर्वन्ति दोषजम् ॥
तेन श्वा भ्राम्यतेऽत्यर्थं विनमत्युन्नमत्यपि ॥ ११ ॥
लालामसेकी च तथा क्रोधनो मर्दवेष्टितः ॥
श्लथलाङ्गूलचरणो मदचेष्टोऽनवस्थितः ॥ १२ ॥
यदसौ भक्षयेत्प्राप्य तल्लिङ्गः सोऽपि जायते ॥
सविषं त्रिविधं दष्टं निर्विषं तु चतुर्विधम् ॥ १३ ॥
दष्टं चतुर्भिर्दंष्ट्राभिस्तत्कष्टमिति निर्दिशेत् ॥
दृष्ट्वा क्षिपति योऽत्यर्थमतिदष्टमतिक्रियम् ॥ १४ ॥
१ क. सप्तति । २ क. सा । ३ क. मन्दं । ४ ख ॰दवेष्टि॰ ।
एवं द्विविधमाख्यातं सविषं निर्विषं शृणु ॥
विस्फोटितं विलिखितं ग्रथितं स्निग्धशोणितम् ॥ १५ ॥
व्यवकृष्टं विजानीयान्निर्विषं तद्भवेन्नृप ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव तु जातितः ॥ १६ ॥
शुक्ला रक्ता धूम्रवर्णाः कृष्णाश्चेति यथाक्रमम् ॥
तेषां गन्धाः स्मृता मोममत्स्यचन्दनसर्पिषाम् ॥ १७ ॥
शुक्लास्तु श्लैष्मिका ज्ञेया रक्ता वै पित्तसंभवाः ॥
धूम्रा वातसमुत्थास्तु संकीर्णा मिश्रलक्षणाः ॥ १८ ॥
तेषां वर्णविभागेन प्रतिकुर्याच्चिकित्सितम् ॥
कालेन यावता दष्टो हस्तिनः प्रति कुप्यति ॥ १९ ॥
तावतेव तु कालेन भूयो भूयः प्रकुप्यति ॥
तत्रेमे हेतवः प्रोक्ता श्वदष्टस्य प्रकोपनेः ॥ २० ॥
मेघविद्युन्निपातेन अशनेः पतनेन वा ॥
अजीर्णाध्यशनाद्वाऽपि तथैवाप्यतिभोजनात् ॥ २१ ॥
जलमध्यगतो वाऽपि यश्चाऽऽत्मानं प्रपश्यति ॥
सप्तमे दिवसे मासे पक्षे संवत्सरेऽपि वा ॥ २२ ॥
परिकुप्यति यद्दष्टं तस्मात्कुर्याच्चिकित्सितम् ॥
विषं तत्रिविधं ज्ञेयं त्रिवेगं त्रिःप्रतिक्रियम् ॥ २३ ॥
प्रथमे विषवेगे तु नमत्यपि च कम्पते ॥
नदत्पूर्वंमुखोऽत्यर्थं द्वितीये जृम्भते मुहुः ॥ २४ ॥
तृतीये जृम्भतेऽत्यर्थं श्वसन्नदति वाऽसकृत् ॥
भ्र(स्र)स्तलाङ्गूलचरणः भ्र(स्र)स्तकर्णशिरोधरः ॥ २५ ॥
मूर्छति क्रोधनोऽत्यर्थं म्रियते नात्र संशयः ॥
इति त्रयाणां वेगानां लक्षणं परिकीर्तितम् ॥ २६ ॥
एवंप्रकारस्य यथा दर्शनं नाभिजायते ॥
असाध्यं तं विजानीयात्त्रिवेगाक्षिप्तकश्च यः ॥ २७ ॥
याप्यो बभ्रुसवर्णाभः शेषाः साध्याः क्रियां प्रति ॥
धूपाञ्जनं च पानं च विविधाश्च क्रियाः स्मृताः ॥ २८ ॥
कुङ्कुमं तगरं कुष्ठं श्वेतपर्ववचा स्मृताः ॥
एतदञ्जनपानेषु धूपनेषु च योजयेत् ॥ २९ ॥
६०४ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
श्वेतसर्षपमादाय पिप्पलींमरिचानि च ॥
एतद्गुडेन संयुक्तं छायायां परिशोषयेत् ॥ ३० ॥
एतदञ्जनपानाभ्यां धूपने च प्रशस्यते ॥
कुष्ठं ध्यामकसंयुक्तं वार्त्ताकीबीजमेव च ॥ ३१ ॥
देवदारु च सर्पिंश्च पुष्पाणि ह्यसनस्य च ॥
त्रिफलाऽतिविषा कुष्ठं तथा पाषाणभेदकः ॥ ३२ ॥
गवां मूत्रेण पिष्टं तु क्षौद्रेण सह योजितम् ॥
एतत्पानाञ्जने देयं गजानां हितमिच्छता ॥ ३३ ॥
पुराण ................^१राजसिद्धार्थका वचा ॥
हिङ्गुजीरकशुण्ठी च सर्पिश्चापि गुडं तथा ॥ ३४ ॥
दष्टे तु कुपिते पानं रसाञ्जनमनुत्तमम् ॥
पिप्पली पिप्पलीग्रन्थिर्मधुसर्पिःसमन्वितम् ॥ ३५ ॥
एरण्डदष्टं कुपिते पानं दद्यात्तथाऽञ्जनम् ॥
आर्द्रकं सगुडं कुष्ठं घृतेन सह योजितम् ॥ ३६ ॥
पिण्डं दद्याद्द्विजानां तु दष्टानामुपशान्तये ॥
कुष्ठं च तगरश्चैव आर्द्रकं गुडमेव च ॥ ३७ ॥
श्वदष्टस्य तु नागस्य पिण्डं दद्याद्विचक्षणः ॥
हरिद्रा हरितालं च मञ्जिष्ठा समनःशिला ॥ ३८ ॥
श्वेतसिद्धार्थकाः कुष्ठं कपित्थं तगरं तथा ॥
गोरोचना सुना पित्तं समभागानि योजयेत् ॥ ३९ ॥
तदभ्यञ्जनपानं च आलेपं चास्य दापयेत् ॥
क्षीरमिक्षुरसं चास्मै अन्नपानं प्रदापयेत् ॥ ४० ॥
शाल्योदनं ससर्पिष्कं भोजयेन्मुद्गसंयुतम् ॥
मृदुं च यवसं दद्यात्ससर्पिश्वास्य प्रवर्तते ॥ ४१ ॥
क्षान्तिश्चास्य क्रियायोगे सिद्धिः कर्माभिनीतवत् ॥
अन्तरिक्षगताः श्वानः कामगो दिव्यचारिणः ॥ ४२ ॥
तेषां मूत्रपुरीषाणि लालाश्चापि विषं भवेत् ॥
दष्टवद्व्रजते रूपं सीदत्यपि च दंष्ट्रवत् ॥ ४३ ॥
१ क. ॰गादित्यचा॰ । २ क. ॰त् ॥ दष्ट॰ । ३ क. ॰दष्टवत् ।
२२ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । ५०७
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन निवेदितः ॥ ४४ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थान
एरण्डको नामैकविंशोऽध्यायः ॥ २१ ॥
अथ द्वाविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां देवराजसमद्युतिः ॥
पालकाप्यं महाराजः पप्रच्छ विजितेन्द्रियः ॥ १ ॥¹
मर्माणि केति नागानां शरीरेषु महामुने ॥
तत्र मर्माणि सर्वाणि भागागोचरतत्त्वतः ॥ २ ॥
*ते प्रसादाद्भगवते (?) तदिच्छामि च वेदितुम् ॥
पालकाप्यस्ततस्तस्य श्रुत्वा वचनमब्रवीत् ॥ ३ ॥
शरीरस्य च वक्ष्यामि नागस्याहं महीपते ॥
तद्यथा चानुपूर्वेण प्रदेशान्मर्मसंस्थितान् ॥ ४ ॥
तत्र कुम्भस्य मध्ये तु मर्मैकं मनुजाधिप ॥
नाम्ना प्रवेपणं नाम सद्यःप्राणहरं हितम् ॥ ५ ॥
श्रवणश्रो(स्रो)तसी स्यातां मर्मणी द्वे महीपते ॥
सद्यःप्राणहरे विद्धि वारणस्य न संशयः ॥ ६ ॥
तथा निर्याणमध्येऽपि वालो यत्र प्रदृश्यते ॥
मर्म तद्वार णस्यापि सद्यः प्राणहरं हितम् ॥ ७ ॥
नेत्रयोरुपरिष्टात्तु इषीकां²गुच्छपामृतम् ॥
मर्म तस्मिन्क्षते नागः पञ्चत्वमुपगच्छति ॥ ८ ॥
अवग्रहस्य मध्ये तु कपालं यत्समाश्रितम् ॥
सीवनीमर्म तं विद्वाक्षते तस्मिन्न जीवति ॥ ९ ॥
मस्तकाकृति(?) यौ पिण्डौ ऽनयोर्मध्ये तु ³मस्तकौ ॥
⁴भिन्नो मस्तकमध्ये तु नागः प्राणैर्वियुज्यते ॥ १० ॥
पिञ्जूषस्योपरिष्टात्तु कर्णसंधिसमाश्रितम् ॥
कर्णश्रो(स्रो)तोनुगं मर्म क्षते चास्मिन्विपद्यते ॥ ११ ॥
- ‘तव प्रसादाद्भगवंस्तत्’ इति तूचितम् ॥
१ ख. गति । २ क. ॰काद्यंगु॰ । ३ क. मस्तुकौ । ४ क. ख. भिन्नौ ।
दन्तान्तरस्य मध्ये तु प्रतिमानस्य चोपरि ॥
फे¹त्कारं नाम तन्मर्म सद्यः प्राणहरं नृप ॥ १२ ॥
वातकुम्भस्य चाधस्तात्प्रतिमानस्य चोपरि ॥
तालुश्रो(स्रो)तोवहं मर्म भिन्ने तस्मिन्न जीवति ॥ १३ ॥
अथोपरिष्टाद्ग्रीवायाः कूर्²मसंधिसमाश्रिताम् ॥
मर्म वायसतुण्डं तु विद्धस्तस्मिन्न जीवति ॥ १४ ॥
ग्रीवासंधिमनुप्राप्तमधो मस्तकपिण्डयोः ॥
मध्ये पणवकं नाम मर्म प्राणहरं स्मृतम् ॥ १५ ॥
वारणस्य गु³हाभागे मर्म संधिसमाश्रितम् ॥
धमन्याध्मापनं नाम सद्यः प्राणहरं नृप ॥ १६ ॥
गु⁴हाभागेऽपरमपि यतस्थानं समाश्रितम् ॥
मर्म तस्मिन्क्षते नागः पाकलेन विपद्यते ॥ १७ ॥
गुहाभागेऽपि मध्ये तु कूर्⁵मसंधिसमाश्रितम् ॥
मर्म तस्मिन्क्षते नागः स्तब्धग्रीवो भवेन्नृप ॥ १८ ॥
शङ्खसंधिगतं यत्तदुपवाहिसमाश्रितम् ॥
मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्विपुज्यते ॥ १९ ॥
मन्ययोर्मध्यतश्चै⁶कं गलसंधिसमाश्रितम् ॥
मर्म तन्निर्गलं नाम सद्यः प्राणैर्वियोजयेत् ॥ २० ॥
उपरिष्टादुरोर्मन्*या गलभागस्य चाप्यधः ॥
हिक्कामर्मेति तद्विद्धात्सद्यः प्राणहरं हि तत् ॥ २१ ॥
संधिमध्ये तु नागस्य उरोमणिसमाश्रितम् ॥
तस्मिन्क्षिते द्विपं क्षिप्रं वातस्कन्दो विनाशयेत् ॥ २२ ॥
उरोमणेर्मध्यतस्तु मणिर्नाम प्रतिष्ठितम् ॥
मर्म तद्⁷दारुणं विद्धात्सद्यः प्राणहरं नृप ॥ २३ ॥
चतुरस्रं च मध्ये तु यत्राऽऽवर्तः प्रदृश्यते ॥
आवर्तं नाम तन्मर्म सद्यः प्राणहरं स्मृतम् ॥ २४ ॥
अथोपरिष्टात्कायस्य प्रवक्ष्यामि महीपते ॥
आसनस्य तु पार्श्वे तु वंशानागस्य संश्रितम् ॥ २५ ॥
- 'मन्या' इति भवेत् ।
१ क. फत्कारं । २ क. कर्णसं० । ३ क. ॰स्य गूहा० । ४ क. गूहाभागे ।
५ क. कर्णसं० । ६ क. ॰तश्छिङ्कं ग० । ७ ख. ॰द्धारणं ।
२१ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । ५०९
उत्कर्णकेन मातङ्गः क्षते तस्मिन्न जीवति ॥
अधस्तात्पेचकस्याथ गुदभागस्य चोपरि ॥ २६ ॥
मर्म तस्मिन्क्षते नागो मूत्रसङ्गेन नश्यति ॥
अथ निष्कोशमध्ये वै मर्मैकं मनुजाधिप ॥ २७ ॥
सद्यः प्राणहरं तत्तु वारणस्य (†विनिर्दिशेत् ॥
पर्शुकास्तु समाश्रित्य निष्कोसस्य तु पार्श्वतः ॥ २८ ॥
मर्म प्राणहरं तत्तु वारणस्य) नराधिप ॥
पक्षतोऽप्यथ नागस्य मर्मैकं समुदाहृतम् ॥ २९॥ -
क्षते तस्मिन्महीपाल वातानाहः प्रधावति ॥
वारणस्य महीपाल कक्षाभागं समाश्रितम् ॥ ३० ॥
मर्म तस्मिन्क्षिते नागं पाकलस्तु विनाशयेत् ॥
तनुभागस्य चाधस्तान्मर्म रन्ध्रसमाश्रितम् ॥ ३१ ॥
तस्मिन्क्षिते वारणस्य व्याधिरुत्कर्णको भवेत् ॥
कक्षाभागस्य मध्ये तु क्षयभागं समाश्रितम् ॥ ३२॥
मर्म प्राणहरं विद्धि वारणस्य महीपते ॥
उपरिष्टात्तु कायस्य मर्मभागाः प्रकीर्तिताः ॥ ३३ ॥
गात्रापरे प्रवक्ष्यामि मर्माणि प्रविभागशः ॥
आसनस्य तु पार्श्वे तु मर्मैकं समुदाहृतम् ॥ ३४ ॥
तंतस्तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् ॥
अपस्कारस्य चाधस्ताद्वैशाखस्य तु मध्यतः ॥ ३५ ॥
तत्र क्षतस्तु मातङ्गः स्तब्धगात्रः सदा भवेत् ॥
गात्रस्य पूर्वभागे तुं जवभागस्य पार्श्वतः ॥ ३६ ॥
तत्र मर्म महीपाल सद्यः प्राणहरं स्मृतम् ॥
विष्कयोः पश्चिमे भागे वालयस्तत्र दृश्यते ॥ ३७ ॥
मर्म तस्मिन्क्षते नागः सद्यः प्राणान्विमोचयेत् ॥
विशेषयोः पश्चिमेन व(प)लिहस्तस्य मध्यतः ॥ ३८ ॥
मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते ॥
नेत्रमण्डलभागे तु मर्मैकं पृथिवीपते ॥ ३९ ॥
† धनुश्चिह्नान्तरगतो नास्ति पाठः खपुस्तके ।
१ क. ख. मागतः । २ क. ॰प्कोसम॰ । ३ क..वातानाहं । ४ क. तु यव॰ ।
५१० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
नाम्ना आलिङ्गितं नाम तदपि प्राणनाशनम् ॥
अथास्य प्रोहमध्ये तु मर्मैकं समुदाहृतम् ॥ ४० ॥
तस्मिन्क्षते महीपाल नागः प्राणैर्वियुज्यते ॥
पारुष्यपश्चिमे भागे कर्मस्योपरि पार्थिव ॥ ४१ ॥
पलिपादे महीपाल मर्म प्राणहरं स्मृतम् ॥
पुरोनखस्य यत्पार्श्वे नखश्रो(स्रो)तस्य मध्यतः ॥ ४२ ॥
मर्म तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् ॥
स्तनयोश्चुचुकः पार्श्वे मर्मैकं पृथिवीपते ॥ ४३ ॥
सद्यः प्राणहरं तु स्याद्दारणस्य हि पार्थिव ॥
अथ वङ्क्षणपार्श्वे तु मर्मैकं समुदाहृतम् ॥ ४४ ॥
रक्तश्रो(स्रो)तोवहं नाम तदपि प्राणनाशनम् ॥
वङ्क्षणस्याप्यधोभागे वारणस्य महीपते ॥ ४५ ॥
मर्म तस्मिन्क्षते नागः सद्यः शोफेन नश्यति ॥
अष्ठीव्यसंधिमाश्चित्य मर्मैकं तु महीपते ॥ ४६ ॥
क्षते तत्र भृशं नागस्त्वपरे परिकर्षति ॥
मण्डूक्य वाऽपि नागस्य मर्मैकं समुदाहृतम् ॥ ४७ ॥
क्षते तस्मिन्महीपाल ख(प)ण्ढः संजायते गजः ॥
तथा सकुठिकायां तु मर्मैकं समुदाहृतम् ॥ ४८ ॥
सद्यः प्राणहरं त्वेतद्दारणस्य विनिर्दिशेत् ॥
अपरातलयोर्मध्ये मर्मैकं समुदाहृतम् ॥ ४९ ॥
सद्यःप्राणहरं तं तु वारणस्य विनिर्दिशेत् ॥
इत्येष कीर्तितः सम्यक्प्रविभागस्तु मर्मणाम् ॥ ५० ॥
यथावदनुपूर्वेण वारणानां हितैषिणा ॥
तत्र भागेषु सर्वेषु मर्माणि परिरक्षयेत् ॥ ५१ ॥
मर्मभागेषु नागानां शस्त्रकर्म न कारयेत् ॥
सुपक्कं भिषजा ज्ञात्वा शस्त्रकर्म नियोजयेत् ॥ ५२ ॥
शस्त्रकर्माणि नागस्य शिरास्नोयूश्च वर्जयेत् ॥
सर्वसंधिषु मर्माणि विज्ञाय कुशलो भिषक् ॥ ५३ ॥
मर्मभागेषु नागस्य तिर्यक्शस्त्रं न पातयेत् ॥
अनुलोमं तु यत्नैवं यथेष्टं सिद्धिरिष्यते ॥ ५४ ॥
१ ख. ०स्नायुश्च ।
२१ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । ५११
गजानां न हयानां च मानुषाणां तथैव च ॥
छेदं तु विविधं कार्यं वारणस्य विजानता ॥ ५५ ॥
वृद्धिपत्रेण तीक्ष्णेन मण्डलाग्रेण वा पुनः ॥
आसनेऽथ कलाभागे कण्ठे वंशे च गण्डयोः ॥
वृत्तच्छेदं तु कर्तव्यं भोगेष्वेतेषु दन्तिनाम् ॥ ५६ ॥
पञ्चाङ्गुलपदं कुर्यात्सप्ताङ्गुलमथापि वा ॥
नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते ॥ ५७ ॥
एतत्सर्वं विनिश्चित्य च्छेदं नागस्य कारयेत् ॥
वासितेनैव शस्त्रेण कर्म कुर्याद्विचक्षणः ॥ ५८ ॥
वेध्यं व्रीहिमुखेनैव मण्डलाग्रेण लेखनम् ॥
विश्रा(स्रा)वणं कुठारेण वेत्सदन्तेन च स्मृतम् ॥ ५९ ॥
सीवनं द्विविधं विद्याद्रुणवद्ग्रन्थिमत्त्वपि ॥
स्थिरेषु त्ववकाशेषु ग्रन्थिसीवनमिष्यते ॥ ६० ॥
मांसलेष्ववकाशेषु चलेषु मृदुसंधिषु ॥
गुणसीव्यं च कर्तव्यं वारणस्य विजानता ॥ ६१ ॥
सीवने तु भवेत्सूची सूक्ष्मा त्वष्टाङ्गुलायता ॥
नागदन्तकसंस्थाना श्लक्ष्णा वै सुसमाहिता ॥ ६२ ॥
कंधरावग्रहा भागे कुक्षौ पक्षेषु संधिषु ॥
नागदन्तकसूच्या वै सीवनं सम्यगिष्यते ॥ ६३ ॥
संग्रामे हस्तियुद्धे वा विक्षतस्य तु हस्तिनः ॥
सद्यःक्षते महाराज सीवनं तु विधीयते ॥ ६४ ॥
पक्वेष्ववकाशेषु परिश्रा(स्रा)विषु दन्तिनाम् ॥
संधानान्येव कार्याणि सीव्यं तत्र न कारयेत् ॥ ६५ ॥
शतं सप्त च मर्माणि भागाभागेषु हस्तिनाम् ॥
प्रोक्तानि पालकाप्येन अङ्गराजाय पृच्छते ॥ ६६ ॥
व्रणकर्मणि नागस्य अभ्यङ्गः पूज्यते सदा ॥
स्नेहपानं च नागानां स्निग्धमेव च भोजनम् ॥ ६७ ॥
१ क. ख. नागेष्वेतेषु । २ ख. च्छेदं । ३ क. ख. तत्सदन्तेन । ४ क.
०न्थिवत्त्वं० । ख ०न्थिमत्स्वपि । ५ क. ०प्वककालेषु । ६ क. सीवनं । ७ क. ख.
कर्माणि । ८ क. ख. ०कर्माणि ।
५१२ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने-
तस्मात्तु कुशलो वैद्यः श्रुतवान्कालदेशवित् ॥
परीक्ष्यकारी शूरश्च जितक्रोधो जितेन्द्रियः ॥ ६८ ॥
अप्रमत्तश्च दक्षश्च शंशसश्चैव रक्षिता ॥
वैद्य एवंविधो राजन् प्रमुञ्चति कर्मसु ॥ ६९ ॥
एष ते पृथिवीपाल यथावदनुपूर्वशः ॥
मर्मणामिह सर्वेषामशेषेण विनिश्चयः ॥ ७० ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
मर्मविद्धो नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥
अथ त्रयोविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
भगवन्कति कामानां नृपाणां विजिगीषताम् ॥ १ ॥
प्रायशो युध्यमानानां वारणेषु ध्रुवो जयः ॥
संग्रामे युध्यमानानां कायवेध्यं पृथग्विधम् ॥ २ ॥
शस्त्राकृतिविशेषैश्च तथा छेद्यं च जायते ॥
शस्त्रकर्मणि चाप्येवं दन्तैर्वा प्रतिहस्तिनाम् ॥ ३ ॥
तत्रालपोऽथ कथं कश्चिद्व्रणः प्राणान्तिको भवेत् ।
अथ येन प्रबाध्यन्ते प्राणास्तद्वक्तुमर्हसि ॥ ४ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
स्वभावात्सर्वसत्त्वानां प्राणा देहसमाश्रयाः ॥ ५ ॥
देहप्राणेष्वथाऽऽपन्नाः प्राणा मर्माश्रयास्तथा ॥
तेजोनिलगुणैः सार्धं पुरुषो मर्मसंश्रयः ॥ ६ ॥
तस्मान्मर्माश्रयं विद्यात्प्राणबाधाकरं व्रणम् ॥
मर्म वाप्यभिविज्ञेयं प्रतिभागाच्चतुर्विधम् ॥ ७ ॥
सद्यः प्राणहरं चैव तथा कालान्तरेण च ॥
तथा सशल्यप्राणं च वैगुण्यकरमेव च ॥ ८ ॥
तत्रानलगुणैर्युक्तं सद्यः प्राणहरं भवेत् ॥
कालान्तरप्राणहरं सौम्याग्नेयमुदाहृतम् ॥ ९ ॥
१ क. शूरस्य । २ क. ख. प्राणदे° । ३ क. प्राणम° ।
२१ मर्मविभागाध्यायः ] हस्त्यायुर्वेदः । ५१३
तथा सशल्पप्राणं च वायव्यं कथ्यते बुधैः ॥
सौम्यं वैगुण्यकरणमिति*पूतगुणाश्रयः ॥ १० ॥
सद्यःप्राणहराण्यादौ तत्र वक्ष्यामि पार्थिव ॥
गुदोऽण्डकोशो हृदयं मेण्ढ्रं पणवकस्तथा ॥ ११ ॥
मन्याभागे विवेकश्च मेलो नाभिस्तथैव च ॥
मृदुकुक्षी सनिष्कोशौ कक्षाभागो तथा तलाः ॥ १२ ॥
वङ्क्षणौ मुष्कभागो च तालु जिह्वा स्तनान्तरम् ॥
रन्ध्रो कुम्भं तथा वक्षः कण्ठश्चोदरमेव च ॥ १३ ॥
करीषास्राव इत्येवं सद्यःप्राणहराणि तु ॥
चतुस्त्रिंशत्तु मर्माणि निर्द्दिष्टानि मनीषिभिः ॥ १४ ॥
अग्निर्जीवाश्रयो यस्माज्जीवश्चाग्निसमाश्रयः ॥
तस्मात्तत्र क्षते क्षिप्रं प्राणांस्त्यजति वारणः ॥ १५ ॥
कालान्तरप्राणहराण्यथ वक्ष्यामि तच्छृणु ॥
प्रोहे सकुठिके त्र्यस्थिसंदानो तलसंधयः ॥ १६ ॥
विक्षोभौ कूर्मभागौ च उरःसंधिरुरस्तथा ॥
पलिहस्तौ यतस्थाने अन्तर्बाहू तथैव च ॥ १७ ॥
कालान्तरविनाशीनि याप्याभागौ च पार्थिव ॥
निर्याणे चैव कुम्भे च स्रोतसः कुम्भयोरपि ॥ १८ ॥
भीरिके च महीपाल पुरस्कारे तथैव च ॥
पञ्चविंशतिरेतानि ज्ञेयानि परिसंख्पया ॥ १९ ॥
क्रमाद्यावत्क्षपयति साम्पस्तेजोगुणैर्गुणात् ॥
यस्मात्क्रमेण म्रियते कालप्राणहरं ततः ॥ २० ॥
तत्रोपद्रवजातं च रोमस्थमभिलक्षयेत् ॥
ततः सशलयप्राणानि प्रवक्ष्याम्यनुपूर्वशः ॥ २१ ॥
निर्याणश्चैव कुक्षी च स्रोतसीं कर्णयोस्तथा ॥
कुम्भश्चैव महीपाल पुरस्कारोऽथ चूचुके ॥ २२ ॥
स्पातामक्षिगुहे चैव बिदुलं वदतां वर ॥
विद्यात्सशल्यप्राणानि मर्माणीह चतुर्दश ॥ २३ ॥
- भूत इति स्यात् ॥
१ क. गणना० ।
६५
९१४ पालकाप्यमुनिविरचितो— [ २ शल्यस्थाने-
यावच्छल्यनिरुद्धस्तु वायुस्तिष्ठति मर्मणि ॥
तावत्सशल्यमाणेषु स जीवति मृतोऽन्यथा ॥ २४ ॥
अथ वैगुण्यकारीणि अपस्कारस्तथैव च ॥
विज्ञाय तु गुहाभागौ क्षपभागं ततः परम् ॥ २५ ॥
अस्मे चैव.विभागे च करस्य श्रो(स्रो)तसी तथा ॥
प्रतिमानं गुहाभागौ चत्वारो ग्रन्थयस्तथा ॥ २६ ॥
तथाऽन्तरपरे स्यातां प्रवक्ष्याम्यत उत्तरम् ॥
• करश्च प्रत्यगंसौ च प्रतीकासौ तथैव च ॥ २७ ॥
नेत्रे चैव महीपाल मुनिभिः परिकीर्तिते ॥
ग्रीवा चान्तरसूना च बाहित्यं च नराधिप ॥ २८ ॥
पेचकश्च विताने च वैगुण्यकरसंग्रहः ॥
एतान्येव चतुस्त्रिंशन्मोक्तानि मनुजाधिप ॥ २९ ॥
स्थिरा यतः सौम्यगुणाः स्थिरत्वाच्च न मृत्युदाः ॥
तस्मात्तद्वैगुण्यकरं मृत्युदं क्लेशयेन्न तम् ॥ ३० ॥
इति सप्तोत्तरं प्रोक्तं शतं ते मर्मणां मया ॥
धैर्यं वीर्यं बलं सत्त्वं संघातः पौरुषा गुणाः ॥ ३१ ॥
एतेष्वधिष्ठिताः सर्वे गुणा मर्मसु हस्तिनाम् ॥
यस्मात्तस्मात्क्षते तत्र प्राणांस्त्यजति वारणः ॥ ३२ ॥
मारणादुच्यते मर्म नेरुक्तैः शास्त्रनिश्चयात् ॥
तथैवाष्टविधं प्राहुः संरूपया मनुजाधिप ॥ ३३ ॥
²शिरामर्मास्थिमर्माश्च(?) धमनीमर्म चापरम् ॥
स्नायुमर्म च विज्ञेयं कोष्ठमर्म तथैव च ॥ ३४ ॥
संधिमर्म च विज्ञेयं स्रोतोमर्म तथैव च ॥
दोषमर्म च विज्ञेयं वक्ष्यन्ते तत्र हेतवः ॥ ३५ ॥
शिरामर्मण्यभिहतो रक्तश्रा(स्रा)वादृजोऽधिकः ॥
क्षिप्रं वियुज्यते प्राणैस्तस्मात्तदभिरक्षयेत् ॥ ३६ ॥
अस्थिमर्मण्यभिहतः शुक्रमज्जापरिश्र(स्र)वात् ॥
परित्यजेद्गजः प्राणानस्थिघातुक्षयात्ततः ॥ ३७ ॥
हिंस्यते धमनीमर्म यदा नागस्य मर्मसु ॥
तदाऽप्यगुणनिश्रा(स्रा)वादृजस्त्यजति जीवितम् ॥ ३८ ॥
१ क. ख. मृतेऽन्य० । २ क. ख. शिरोम० ।
२३ मर्मविज्ञानाध्यायः ] हस्त्यायुर्वेदः । ५१५
स्नायुमर्मण्यभिहतः स्नायुसंश्र(स्र)ंसाद्गजः ॥
विश्लिष्टसंधिर्भवति स्नायुर्देहनिबन्धनः ॥ ३९ ॥
कोष्ठमर्मण्यभिहतः करीषस्रावपीडितः ॥
महाक्षयाभिभूतस्तु प्राणांस्त्यजति वारणः ।१ ४० ॥
संधिमर्माभिघाताच्च चेष्टावैगुण्यमुत्तमाः०॥
प्राप्नुयाद्वारणः क्षिप्रं मरणं वातपीडितः ॥ ४१ ॥
श्रो(स्रो)तोमर्माभिघाताच्च स्वगुणैः स्रोतसां गजः ॥
विमुक्तस्त्यजति प्राणान्विगुणो वाऽपि जीवति ॥ ४२ ॥
दोषाशयाभिघाताच्च क्षीणपित्तकफानिलः ॥
प्राणांस्त्यजति मातङ्गो दोषमर्मसु ताडितः ॥ ४३ ॥
रक्षणं मर्मणां नित्यं तस्मात्कार्यं विचक्षणैः ॥
शस्त्रकर्मविधिज्ञैश्च कार्यं शस्त्रावचारणम् ॥ ४४ ॥
असिद्धिरल्पसिद्धीर्वा हिंसितेष्वपि कर्मसु ॥
विपत्तिः श्रेयसी वाऽपि सिद्धिर्यादृच्छिकी भवेत् ॥ ४५ ॥
अस्थिस्नायूपपन्ना ये गम्भीराश्चैव सर्वशः ॥
शिरामर्मगता ये च न च्छेद्या ये च संधिषु ॥ ४६ ॥
स्नायुजाले न कार्यं च तज्ज्ञैः शस्त्रावचारणम् ॥
अनुलोममृजुर्गाते त्वचि सम्यक्समाहितम् ॥ ४७ ॥
श्वयथूनां विदग्धानां कार्यं शस्त्रावचारणम् ॥
यथा व्यापद्यते नागः स्वयोगाच्छस्त्रकर्मणाम् ॥ ४८ ॥
न तथा म्रियते दोषैः प्रवृद्धैरपि वारणः ॥
शस्त्रकर्मणि निर्युक्ते सेवनं सर्पिषा हितम् ॥ ४९ ॥
पानं च सर्पिषः श्रेष्ठं स्निग्धं भोजनमेव च ॥
शस्त्रकर्मणि निर्युक्ते हवनं शान्तिकर्म च ॥ ५० ॥
वारणस्य तु कर्तव्यं यथोक्तं मङ्गकर्मणि ॥
तस्मात्सर्वप्रहाराणां विद्धमादि प्रकीर्त्यते ॥ ५१ ॥
अवांच्छभावसृष्टानि त्ववकृष्टं तथैव च ॥
घृष्टदग्धे च राजेन्द्र यच्चाङ्गे(न्य)दूनसंज्ञितम् ॥ ५२ ॥
तस्माच्छुद्धमिति प्राहुः शास्त्रतत्वार्थकोविदाः ॥
तस्मात्प्रयोगकुशलं लघुहस्तं जितेन्द्रियम् ॥ ५३ ॥
१ क. ०धिश्चैव का० । २ क. ०क्षतव्रण० ।
५१६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
परीक्ष्यकारिणं शूरं बलिनं शास्त्रकोविदम् ॥
यशस्विनमलुब्धं च जितक्रोधं जितक्लमम् ॥
वैद्यं नियोजयेद्राजा प्रतिकर्मसु हस्तिनाम् ॥ ५४ ॥ इति ।
तत्र श्लोकाः(कः)—
इति भिषगमुशिष्य बुद्धी शुभमशुभं च ततः शुभं च कुर्यात् ॥
विपुलबलयशोर्थकीर्तिहेतोर्विपुलगुणार्थी गजे परीक्ष्य ॥ ५५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
मर्मविद्धो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
अथ चतुर्विंशोऽध्यायः ।
अङ्गराजो महाप्राज्ञः कुबेरसमविक्रमः ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
भगवन्भवता प्रोक्तं रोगज्ञानं सलक्षणम् ॥
तत्र मे संशयः कश्चित्तन्मे शंसितुमर्हसि ॥ २ ॥
शुद्धश्लेष्मसमुत्पत्तिः शुद्धपाकल आदितः ॥
प्राग्भागोष्णः कथं विप्र पश्चाद्भागेन शीतलः ॥ ३ ॥
न चोष्णलक्षणं चेति हस्तिनां जायते ज्वरः ॥
निदानलक्षणो ह्येष यस्त्वयोक्तो महामुने ॥ ४ ॥
कथं साध्यश्च बालोऽयं कूटश्चायं न सिध्यति ॥
समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तितौ ॥ ५ ॥
पकलः पुण्डरीकश्च वातपित्तकृतावुभौ ॥
विकारेषु विरुध्येते चिकित्सायां तथैव च ॥ ६ ॥
शनैः क्षीयेत वा केन हेतुना च मृदुग्रहः ॥
कथं च भूतसंसृष्टो दृष्टः कुक्कुटपाकलः ॥ ७ ॥
दैवाच्च केचिदिच्छन्ति दोषतश्चापरे जनाः ॥
एकाङ्गग्रहसंस्रंस्तु पाकलो मुनिसत्तम ॥ ८ ॥
दृश्यते भूतसंसृष्टो दोषतश्च न दृश्यते ॥
स कृशत्वेन संयोज्यः कथं तीक्ष्णोदरानलः ॥ ९ ॥
शारदेश्चोपलक्ष्यश्च प्रसुतः पाकलो भवेत् ॥ १
महापाकलसंज्ञश्च श्लेष्मणः संचयाद्भवेत् ॥ १० ॥
न चाऽऽदौ क्रियते कस्मात्प्रतीकारः कफस्य वै ॥
महत्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि ॥ ११ ॥
एतान्सपरिहारान्म सनिरुक्तान्त्ससंभवान् ॥
तत्त्वतो निखिलाम्प्रश्नान्महार्थान्वक्तुमर्हसि ॥ १२ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु राजन्नवहितो यन्मां पृच्छसि संशयम् ॥ १३ ॥
नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् ॥
नाभेः पश्चिमभागे तु स्थानं वायोर्निरुच्यते ॥ १४ ॥
प्रोक्तान्यामाशयः पर्वाण्यु॒रः कण्ठः शिरस्तथा ॥
स्थानान्येतानि सर्वाणि श्लेष्मणो दन्तिनां नृप ॥ १५ ॥
शुद्धपाकलनिर्वृत्तौ स्थानात्पित्तं च विच्युतम् ॥
श्लेष्माणं पश्चिमं भागमानयेत्सह वायुना ॥ १६ ॥
ततः श्लेष्मानिलौ तत्र शीतलं कुरुते गजम् ॥
प्राग्भागसोष्मता तस्य सा तु पित्तस्य वीर्यतः ॥ १७ ॥
सुरशापाद्रेजेन्द्राणामन्तःस्वेदत्वमाहितम् ॥
न चोष्मलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ १८ ॥
कदाचिदङ्गमप्यङ्गं यदा गच्छति मारुतः ॥
तेन बालस्य राजेन्द्र युज्यते यदि भेषजम् ॥ १९ ॥
तेन सिध्यति बालोऽयं कूटहेतुः प्रवक्ष्यते ॥
मुक्त्वा स्थानानि सर्वाणि कूटादानं प्रभञ्जनः ॥ २० ॥
सहसा हृदयं गच्छेद्वृतांश्चापि पातयेत् ॥
हृदयग्रहणाद्वायुः कूटस्तेन न सिध्यति ॥ २१ ॥
व्यानो वायुः प्रकुपितो हृदान्त्सङ्गितो नृप ॥
पित्तमुत्क्षिप्य जनयेत्पकलं कोपमाश्रितम् ॥ २२ ॥
गुरुस्थानोपरोधाच्च रौद्रस्तस्माद्भवेद्गजः ॥
इत्येष पाकले हेतुः पुण्डरीके प्रवक्ष्यते ॥ २३ ॥
मारुतः कुपितः पित्तं कोपयेन्मनुजाधिप ॥
पित्तं सरक्तं नागस्य त्वचं दूषयति प्रभो ॥ २४ ॥
१ क. °दश्वोपजायेव ल° । २ क. कूटे हेतुः प्रचक्षते ।