हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 536, कुल 742 में से
संदर्भ में पढ़ेंशारदेश्चोपलक्ष्यश्च प्रसुतः पाकलो भवेत् ॥ १
महापाकलसंज्ञश्च श्लेष्मणः संचयाद्भवेत् ॥ १० ॥
न चाऽऽदौ क्रियते कस्मात्प्रतीकारः कफस्य वै ॥
महत्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि ॥ ११ ॥
एतान्सपरिहारान्म सनिरुक्तान्त्ससंभवान् ॥
तत्त्वतो निखिलाम्प्रश्नान्महार्थान्वक्तुमर्हसि ॥ १२ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु राजन्नवहितो यन्मां पृच्छसि संशयम् ॥ १३ ॥
नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् ॥
नाभेः पश्चिमभागे तु स्थानं वायोर्निरुच्यते ॥ १४ ॥
प्रोक्तान्यामाशयः पर्वाण्यु॒रः कण्ठः शिरस्तथा ॥
स्थानान्येतानि सर्वाणि श्लेष्मणो दन्तिनां नृप ॥ १५ ॥
शुद्धपाकलनिर्वृत्तौ स्थानात्पित्तं च विच्युतम् ॥
श्लेष्माणं पश्चिमं भागमानयेत्सह वायुना ॥ १६ ॥
ततः श्लेष्मानिलौ तत्र शीतलं कुरुते गजम् ॥
प्राग्भागसोष्मता तस्य सा तु पित्तस्य वीर्यतः ॥ १७ ॥
सुरशापाद्रेजेन्द्राणामन्तःस्वेदत्वमाहितम् ॥
न चोष्मलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ १८ ॥
कदाचिदङ्गमप्यङ्गं यदा गच्छति मारुतः ॥
तेन बालस्य राजेन्द्र युज्यते यदि भेषजम् ॥ १९ ॥
तेन सिध्यति बालोऽयं कूटहेतुः प्रवक्ष्यते ॥
मुक्त्वा स्थानानि सर्वाणि कूटादानं प्रभञ्जनः ॥ २० ॥
सहसा हृदयं गच्छेद्वृतांश्चापि पातयेत् ॥
हृदयग्रहणाद्वायुः कूटस्तेन न सिध्यति ॥ २१ ॥
व्यानो वायुः प्रकुपितो हृदान्त्सङ्गितो नृप ॥
पित्तमुत्क्षिप्य जनयेत्पकलं कोपमाश्रितम् ॥ २२ ॥
गुरुस्थानोपरोधाच्च रौद्रस्तस्माद्भवेद्गजः ॥
इत्येष पाकले हेतुः पुण्डरीके प्रवक्ष्यते ॥ २३ ॥
मारुतः कुपितः पित्तं कोपयेन्मनुजाधिप ॥
पित्तं सरक्तं नागस्य त्वचं दूषयति प्रभो ॥ २४ ॥
१ क. °दश्वोपजायेव ल° । २ क. कूटे हेतुः प्रचक्षते ।