सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 522, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 522

वैकल्यात्कृच्छ्रजीवी भवति । अष्ठीवयोर्मर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽ-
पकर्षति । गुहाभागमध्ये कर्णाश्रितं मर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धः
स्तब्धगात्रो भवति । प्रत्यंसमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धः
स्तब्धकर्णो भवति । अन्तर्बाहुमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धो
हृद्रोगी भवति । ग्रीवामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धस्य मन्या-
स्तम्भो भवति । बिलाङ्गममध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धश्चक्षुर्वैकल्ये
भवति । अपस्कारमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो
भवति । करीषस्रावमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध आनाहेन
पीड्यते । चूसुकयोर्मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उरःसङ्गमवाप्नोति ।
करमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उत्कर्णकेन पीड्यते । प्रतीकास-
(श)मध्ये मर्म षडङ्गुलप्रमाणम् । तत्र गाढं विद्धः पाकलेन पीड्यते । अंश(स)मध्ये
मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो गात्रभङ्गमवाप्नोति । क्षयभागे मर्म सप्ताङ्गु-
लप्रमाणम्, तत्र विद्धस्य गात्रस्य रुजा भवति । कलाभागमध्ये मर्म सप्ताङ्गुल-
प्रमाणम्, तत्र गाढं विद्धोऽतीसारमवाप्नोति । अन्तरोपरमध्ये मर्म सप्ताङ्गुलप्र-
माणम्, तत्र गाढं विद्धो मूत्रसङ्गमवाप्नोति । उदरमध्ये मर्म सप्ताङ्गुलप्रमाणम्,
तत्र गाढं विद्धो मेढ्रशोषमवाप्नोति । पृष्ठमध्ये मर्म विंशत्यङ्गुलप्रमाणम्, तत्र
गाढं विद्धोऽपरंरोगी भवति । इत्येतानि चतुस्त्रिंशन्मर्माणि वैगुण्यकराणि
भवन्ति । तत्र वैगुण्यकराणां चतुर्दशानां मर्माणां लक्षणान्युक्तानि ॥
तत्र श्लोकाः—
एवं सप्त महाराज शतं च परिकीर्तितम् ।
वारणानां शरीरेषु मर्मणामिति निश्चितम् ॥
तस्मान्मर्माणि संरक्षेद्वारणानां भिषग्वरः ।
.... .... .... .... .... .... ....ततः कुर्यात्क्रियापथम् ॥
यो मर्माणि न जानाति वारणानां विभागशः ।
न स कायक्रिया(?)नागे विषपान्ते तमुत्सृजेत् ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थाने
मर्मप्रमाणो नाम विंशोऽध्यायः ॥ २० ॥
१ क. ॰रामच्छेदोऽ° । २ क. ॰शत्पञ्चाङ्गुलं प्र° । ३ क. ॰शतिर्मा° ।