हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 529, कुल 742 में से
संदर्भ में पढ़ें५१० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
नाम्ना आलिङ्गितं नाम तदपि प्राणनाशनम् ॥
अथास्य प्रोहमध्ये तु मर्मैकं समुदाहृतम् ॥ ४० ॥
तस्मिन्क्षते महीपाल नागः प्राणैर्वियुज्यते ॥
पारुष्यपश्चिमे भागे कर्मस्योपरि पार्थिव ॥ ४१ ॥
पलिपादे महीपाल मर्म प्राणहरं स्मृतम् ॥
पुरोनखस्य यत्पार्श्वे नखश्रो(स्रो)तस्य मध्यतः ॥ ४२ ॥
मर्म तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् ॥
स्तनयोश्चुचुकः पार्श्वे मर्मैकं पृथिवीपते ॥ ४३ ॥
सद्यः प्राणहरं तु स्याद्दारणस्य हि पार्थिव ॥
अथ वङ्क्षणपार्श्वे तु मर्मैकं समुदाहृतम् ॥ ४४ ॥
रक्तश्रो(स्रो)तोवहं नाम तदपि प्राणनाशनम् ॥
वङ्क्षणस्याप्यधोभागे वारणस्य महीपते ॥ ४५ ॥
मर्म तस्मिन्क्षते नागः सद्यः शोफेन नश्यति ॥
अष्ठीव्यसंधिमाश्चित्य मर्मैकं तु महीपते ॥ ४६ ॥
क्षते तत्र भृशं नागस्त्वपरे परिकर्षति ॥
मण्डूक्य वाऽपि नागस्य मर्मैकं समुदाहृतम् ॥ ४७ ॥
क्षते तस्मिन्महीपाल ख(प)ण्ढः संजायते गजः ॥
तथा सकुठिकायां तु मर्मैकं समुदाहृतम् ॥ ४८ ॥
सद्यः प्राणहरं त्वेतद्दारणस्य विनिर्दिशेत् ॥
अपरातलयोर्मध्ये मर्मैकं समुदाहृतम् ॥ ४९ ॥
सद्यःप्राणहरं तं तु वारणस्य विनिर्दिशेत् ॥
इत्येष कीर्तितः सम्यक्प्रविभागस्तु मर्मणाम् ॥ ५० ॥
यथावदनुपूर्वेण वारणानां हितैषिणा ॥
तत्र भागेषु सर्वेषु मर्माणि परिरक्षयेत् ॥ ५१ ॥
मर्मभागेषु नागानां शस्त्रकर्म न कारयेत् ॥
सुपक्कं भिषजा ज्ञात्वा शस्त्रकर्म नियोजयेत् ॥ ५२ ॥
शस्त्रकर्माणि नागस्य शिरास्नोयूश्च वर्जयेत् ॥
सर्वसंधिषु मर्माणि विज्ञाय कुशलो भिषक् ॥ ५३ ॥
मर्मभागेषु नागस्य तिर्यक्शस्त्रं न पातयेत् ॥
अनुलोमं तु यत्नैवं यथेष्टं सिद्धिरिष्यते ॥ ५४ ॥
१ ख. ०स्नायुश्च ।