हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 524, कुल 742 में से
संदर्भ में पढ़ेंएवं द्विविधमाख्यातं सविषं निर्विषं शृणु ॥
विस्फोटितं विलिखितं ग्रथितं स्निग्धशोणितम् ॥ १५ ॥
व्यवकृष्टं विजानीयान्निर्विषं तद्भवेन्नृप ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव तु जातितः ॥ १६ ॥
शुक्ला रक्ता धूम्रवर्णाः कृष्णाश्चेति यथाक्रमम् ॥
तेषां गन्धाः स्मृता मोममत्स्यचन्दनसर्पिषाम् ॥ १७ ॥
शुक्लास्तु श्लैष्मिका ज्ञेया रक्ता वै पित्तसंभवाः ॥
धूम्रा वातसमुत्थास्तु संकीर्णा मिश्रलक्षणाः ॥ १८ ॥
तेषां वर्णविभागेन प्रतिकुर्याच्चिकित्सितम् ॥
कालेन यावता दष्टो हस्तिनः प्रति कुप्यति ॥ १९ ॥
तावतेव तु कालेन भूयो भूयः प्रकुप्यति ॥
तत्रेमे हेतवः प्रोक्ता श्वदष्टस्य प्रकोपनेः ॥ २० ॥
मेघविद्युन्निपातेन अशनेः पतनेन वा ॥
अजीर्णाध्यशनाद्वाऽपि तथैवाप्यतिभोजनात् ॥ २१ ॥
जलमध्यगतो वाऽपि यश्चाऽऽत्मानं प्रपश्यति ॥
सप्तमे दिवसे मासे पक्षे संवत्सरेऽपि वा ॥ २२ ॥
परिकुप्यति यद्दष्टं तस्मात्कुर्याच्चिकित्सितम् ॥
विषं तत्रिविधं ज्ञेयं त्रिवेगं त्रिःप्रतिक्रियम् ॥ २३ ॥
प्रथमे विषवेगे तु नमत्यपि च कम्पते ॥
नदत्पूर्वंमुखोऽत्यर्थं द्वितीये जृम्भते मुहुः ॥ २४ ॥
तृतीये जृम्भतेऽत्यर्थं श्वसन्नदति वाऽसकृत् ॥
भ्र(स्र)स्तलाङ्गूलचरणः भ्र(स्र)स्तकर्णशिरोधरः ॥ २५ ॥
मूर्छति क्रोधनोऽत्यर्थं म्रियते नात्र संशयः ॥
इति त्रयाणां वेगानां लक्षणं परिकीर्तितम् ॥ २६ ॥
एवंप्रकारस्य यथा दर्शनं नाभिजायते ॥
असाध्यं तं विजानीयात्त्रिवेगाक्षिप्तकश्च यः ॥ २७ ॥
याप्यो बभ्रुसवर्णाभः शेषाः साध्याः क्रियां प्रति ॥
धूपाञ्जनं च पानं च विविधाश्च क्रियाः स्मृताः ॥ २८ ॥
कुङ्कुमं तगरं कुष्ठं श्वेतपर्ववचा स्मृताः ॥
एतदञ्जनपानेषु धूपनेषु च योजयेत् ॥ २९ ॥