सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 518, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 518

१९ शिराव्येधाध्यायः ] हस्त्यायुर्वेदः । ४९९
धातकीमदनौ चोभौ काश्मर्याः प्रस्थयोर्जबौ ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३५ ॥
ततः शोणितवेगं तच्चूर्णेनानेन तिष्ठति ॥
यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥ ३६ ॥
मधुकं चन्दनं रोध्रं सर्जं पद्मकमेव वा ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३७ ॥
गोधूमश्चैव रोध्रं च कदम्बश्चैव गैरिकम् ॥
सूक्ष्मचूर्णीकृतैरेतैस्तं व्रणं प्रतिसारयेत् ॥ ३८ ॥
अर्जुनश्च धवश्चैव यष्टी मधुकमेव च ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३९ ॥
समुद्रफेनं तेजोह्लां गोमयस्य रसेन च ॥
शङ्खमध्यं मधुक्षीरमरिमेदस्य ग्रन्थयः ॥ ४० ॥
तथा पलाशनिर्यासो निर्यासस्तिनिशस्य च ॥
भूमीकदम्बकश्चैव गैरिकः सह लाक्षया ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ४१ ॥
एभिर्योगैर्यथाप्रोक्तैर्यदि रक्तं न तिष्ठति ॥
अवगाहं महाराज वारणं तु प्रवेशयेत् ॥ ४२ ॥
गम्भीरे शीतले देशे प्रेण(न)ष्टतृणशर्करे ॥
यदि चैभिः क्रियायोगैः शोणितं न प्रतिष्ठते ॥ ४३ ॥
अश्वत्थोदुम्बरं चैव न्यग्रोधं काकजम्बुकम् ॥
.क्षोदयित्वा महाराज महास्थालीषु पाचयेत् ॥ ४४ ॥
क्वाथेनानेन शीतेन तं व्रणं प्रतिषेचयेत् ॥
अथाग्निश्च प्रयोक्तव्यो विधिना तेन दन्तिनाम् ॥ ४५ ॥
सर्पिषा म्रक्षयित्वाऽथ अग्निकर्म प्रयोजयेत् ॥
नातिदग्धं व्रणं कुर्यादामदग्धं चिरात्सितम् ॥ ४६ ॥
गन्धनिवार्पणार्थाय सर्पिषा परिषेचयेत् ॥
शस्त्राग्निप्रणिधानोक्तैस्तैश्च निर्वापयेद्गजम् ॥ ४७ ॥
पानं च सर्पिषा मिश्रं क्षीरमस्य विधीयते ॥
यथावकाशे महति शस्त्रकर्म विधीयते ॥ ४८ ॥
१ क. प्रतष्ट° ।