सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

१७६ पालकाप्यमुनिविरचितो- [?]
न्गोमूत्रपिष्टान्यातपशुष्कां गुलिकां नाडीव्रणदोषप्रशमनीं कुर्यात् । निम्बार्कपू-
तीकरञ्जकरवीरपत्रतिलक्षारलवणैः समभागैः पिष्टां गुटिकां नाडीव्रणविशुद्धय-
र्थमप्रमत्तो भिषग्दद्यात् । कुष्ठतगरहरिद्राचित्रकसैन्धवतिलकुतिलक्षारारस१म-
भागानिप्पाऽश्वमूत्रेण गुलिकाः कार्याः । आतपशुष्का नाडीव्रणलेपनमुत्तमं
दद्यात् । सैन्धवलवणकिण्वदन्त्यतिविषाचित्रकमूलोत्तमकरणास्तिलक्षाराः सम-
भागाः पिष्टा, आतपशुष्का नाडीव्रणानां सपूयानां शोधनं दद्यात् । स्वर्णक्षी-
रातगरविडङ्गमहोषधशुकनासादन्ती)देवदारुसैन्धवलवणं समभागं पिष्टा गुटि-
कामातपशुष्कां नाडीव्रणशोधनं दद्यात् । ग्रन्थिर्यस्य भवति पक्वः सपूयः
पिच्छिलः, तच्छोधनमिदम् । हस्तिलिण्डरसं किण्वलवणं चाऽऽलेपनमप्यग्रं प्रद-
द्यात् । सर्षपचित्रकदन्तीसैन्धवमिति । स्नुहीक्षीरपिष्टं कृत्वा दुष्टव्रणशोधनं
दद्यात् । चित्रकनागदन्तीयवक्षारपिष्टं दुष्टव्रणचिकित्सितमिति २ । पाठामधुरसा-
दन्तीमधुकानि सैन्धवलवणसंयुक्तं दुष्टव्रणशोधनं दद्यात् । दन्तीशुकनासार्क-
मूलं सैन्धवलवणसंयुक्तं दुष्टव्रणशोधनं दद्यात् । चित्रकसर्षपतेजोवतीदन्तीश्वे-
तालवणसंयुक्तं प्रदुष्टव्रणलेपनं दद्यात् । हरिद्रादारुहरिद्राशुकनासादन्तीकटुरो-
हिणीबिल्वसैन्धवलवणसंयुक्तं समभागपिष्टं व्रणशोधनं दद्यात् । पाठादन्त्यति-
विषाविषाग्नादेवदारुयवक्षारसंपुक्तं व्रणशोधनं दद्यात् । पिचुमन्दनक्तमालपत्राणि
पिष्टा कांस्यनीलयुक्तं व्रणरोपणं दद्यात् । मुष्ककाक्षीवतिलकुतिलक्षारसर्षपयुक्तं
क्षिप्ररोपणं घृतसंयुक्तं ३ दुष्टव्रणलेपनमुत्तमं दद्यात् ॥
तत्र साध्यानां शस्त्रकर्मोपक्रमविशेषाननुव्याख्यास्यामः॥
अथ भिषग्गजाध्यापोक्तेन विधिना सुयन्त्रितं वारणमभिविश्वोंस्याऽऽशु(श्रि)त्य ४
स्तम्भानुगतं गतिमन्तं स्वल्पमुखं च नाडीव्रणमेषण्या च विदित्वा वृद्धिपत्रेण
शस्त्रेणानुलोमं पूयप्रतिहरणार्थं छेदं कुर्यात् । ततश्चात्र किण्वसैन्धवक्षोद्रसर्पि-
र्यवक्षारैः श्लक्ष्णपिष्टैः क्षौमं वस्त्रं प्रलिप्य वर्तिं प्रणिदध्यात् । अथाकँक्षीरपलाश-
लाङ्गलीश्यामातृ(त्रि)वृद्दन्तीचित्रकपवक्षारनिम्बपत्राणि स्नुहीक्षीरस्वर्जिका हरि-
तालपिप्पलीमूलश्ववकशङ्गिन्वर्कक्षीरयुक्तं केल्कं ५ शोधनं दद्यात् । तकार्यारग्वध-
पटोलशङ्गिन्चश्वगन्धानक्तमालमधुकजीवकाङ्कोल्लखदिरवनकर्पासीहरिद्रासुरसा-
सप्तपर्णिनिम्बकरवीरकुटजास्फोटारोहिणीक्षीरिण्यामलकीः क्वाथयित्वा तेन नाडीं
रोपयेत् । शङ्खिनीचित्रकतेजोवतीतृ(त्रि)वृद्धीवेरदन्तीकुष्ठकटुरोहिणीस्नुहीसु-
वर्णक्षीर्यर्कक्षीरे सिद्धं सर्पिः पुराणमुपदिश्यते शोधनार्थम् । बृहत्यश्वगन्धाजशृं-
१ क. ०क्षारासं० । २ क. ०कुक्षिति० । ३ क. घृतसंसृष्टं । ४ क. ०श्वास्य
मृत्य । ५ ख. कल्कशोधनं ।

द्वेहरिद्रासर्षपपाठाचित्रकपिपलीमूलमूर्वाकोशातकीकटुकालाबूकालात्रपुसीसं-
मदनफलानि च गवां मूत्रेण पी(पे)षयित्वा गवां मूत्रेण तैलं पचेत् । ततः पारं-
पकेन नाडीः शोधयेत् । अथ जीवन्त्यारग्वधगोजीमुष्ककटुतुम्बकमञ्जिष्ठाक्षीर-
वृक्षमवालैः श्लक्ष्णपिष्टैर्वर्तिरोहणमुपदध्यात् । शल्लक्यश्वकर्णमुष्ककाशमन्तक-
करवीरारग्वधादिवृक्षाणां त्वक्कथयित्वा रोपणार्थं कषायमेतैरेवौषधैर्जीवन्त्यार-
ग्वधादिभिः सर्पिस्तैले कषायगर्भे रोपणार्थं विपाचयेत् ॥
अथातोऽग्निकर्म व्याख्यास्यामः ।
नाडीषु श्रीवेष्टकमधूच्छिष्टगुग्गुलुमेदोभिर्वर्तिवदनुवृत्तां गुलिकां कुर्यात् ।
पावदाहस्य सोष्मणः प्रवेगोपशमः स्यादिति । भतो द्विव्रणीयोपचारः ॥
(* इति शस्त्रकर्माग्नि†.... .... .... .... ।
........कथयिष्यामः । मर्मोपचारान्व्याख्यास्यामः ॥ )
अथ चेच्छस्त्राग्निकर्मणार्त्तमार्गः( ?) स्यात्तत्र नाडीदोषनिर्हरणार्थं भेषज-
विधिमनुव्याख्यास्यामः । पवतगरपिचुमन्दपूतीकरञ्जकुष्ठैलामलककरवीरार्क-
पत्राणि तिलकुतिलक्षारसयुक्तान्यश्वमूत्रेण पिष्ट्वा गुलिकाः कृत्वाऽर्कक्षीरसंतप्त¹-
नाड्यां निदध्यान्नाडीदोषनिर्हरणार्थम् । अथवाऽञ्जनतगरकुष्ठदरितालमनःशि-
लाकटुरोहिण्यश्वगन्धालाङ्गलीसोराष्ट्रीरोचनासुरसावराचित्रकबिल्वसर्षपखदिर-
सारगवाक्षीदन्तीविडङ्गान्यर्कशोभाञ्जनकमूलानि च तिलक्षारेण पिष्ट्वा गुलिकाः
कारयेत् । ता नाड्या(ड्यां) निदध्यादर्कसंतप्तनाडीदोषनिर्हरणार्थं चेति ॥
अंत ऊर्ध्वं क्षारकपम(र्मा)नुव्याख्यास्यामः ॥
मुष्ककपलाशतिनिशसर्जारग्वधकरञ्जचिरिबिल्वशिग्रुककुतिलस्फूर्जकपाटला-
रिमेदपारिभद्रककरवीरापामार्गाश्वगन्धावरार्जुनकुटीकुटजतिलकतिलसौगन्धि-
कावल्गुजकटुकतुम्बीकूष्माण्डीकाकजङ्घाकोशातकीवेतसबिल्वमाचाचलसप्र-
र्णकृतमालहरिद्रानीपयवनानि चेत्येवं संभृत्य संभारं काण्डशः कल्पयित्वाऽऽदि-
त्यशोषितमीषच्छुष्कं दाहयेद्विविक्तदेशे त्वतृणभूमिभागे।ततो भस्म समादाय महा-
भाजनस्थं पुनः श्रा(स्रा)वयेदजाविगोमहिष्यश्वाश्वतरखरोष्ट्राणां मूत्रैः । ततः
सुपरिश्रु(स्रु)तं तैलमायसे कुम्भे शनैर्मृद्वग्निना पचेत् । तत्राऽऽवपेल्लाङ्गलीकीदन्ती-
चित्रकपिपलीमूलतीक्ष्णगन्धाश्वगन्धापलमरिचशृङ्गवेरस्वार्जिकापवक्षारविडसै-
न्धवखञ्जर्र्कक्षीराणि शनैर्दर्य्या घट्टयेद्यावन्निःशर्करं स्निग्धसान्द्रश्लक्ष्णमथ पाको
निवर्तते । ततो वैश्वानरपूजां कृत्वा कृष्णायसे² निर्मले भाजने³ स्थापयेत्तत्पि-

  • धनुश्चिह्नान्तरगतः पाठस्तुल्यो द्विपुस्तके । † पुस्तकद्वयेऽपि त्रुटिचिह्नं न वर्तते ॥
    १ क. ॰र्करसं तत॰ । २ क. कृष्णायमे । ३ क. भोजने ।

धाने त्र्यहं सप्ताहं वा। ततश्च प्रत्यहनि(?) शिरःस्रावो वेधोऽहतवासा ब्राह्म-
णान्स्वस्ति वाच्य ततः शस्त्रेण संशोध्य नाडीमुखं वीक्ष्येन रुधिरपूयपरिस्रावा-
न्वासोभिरपनीय ततः सूक्ष्मासु गतिमतीषु शलाकां क्षारेण प्रलिप्य क्षारबलं
चावेक्ष्य निपातयेत् ॥
अथवाऽऽर्द्रां वर्तिं गुलिकां वा कृत्वा निपातयेत् । पक्वजाम्बवसंकाशां गति-
मवेक्ष्य क्षारमथ निवर्तयेत् । अथ मोहात्प्रमादाद्वाऽतिदग्धं वेपथुश्वसनजृम्भणप्र-
मोहशोषदाहज्वरशो(?)षितातीवातिप्रवृत्ति(?)तमेवमवस्थमभिसमीक्ष्य धान्या-
म्लदधिमस्तुसु(शु)क्तसौवीरकाणामन्यतमेन सेचयेत् ॥
अथवा दध्यम्लबदरोत्क्लेदमातुलुङ्गरसानामन्यतमेन सेचयेत् । दाडिमतिन्ति-
डीकाम्रपेशीश्च कृष्णतिलसंयुक्तं कल्कं शुक्ते(क्ते)न पी(पे)षयित्वा घृताक्तमालेपनं
दद्यात् । क्षीरदधिसर्पिर्मेदोवसाभिश्च सततमनुलिम्पेत् । शस्त्राग्निप्रणिधानोक्तवि-
धिरनुक्षेपः ॥
अथारिमेदार्जुनकदम्बरोध्रारग्वधक्षीरिकासोमवल्कस्यन्दनमेषशृङ्गीधवशिरो-
षशालार्जकर्णबदर्यङ्कोटपलाशवञ्जुलधातक्यरिमेदान्संहृत्याष्टगुणे ह्यम्भसि क्वाथ-
यित्वा पादावशिष्टमवतार्य श्रा(स्रा)वयित्वा तेन रसेन तैलद्रोणं पाचयेत् ।
पच्यमाने चात्र गिरिकर्णिकाश्वगन्धापातातिल्लकमालत्यलाबुशिशिपानागद-
न्तीमूर्वाशुकनासातेजस्विनीनां मूलानि दृषदि पेषयित्वा प्रत्येकतश्चेनं बिल्व-
प्रमाणं समावपेत् । सिद्धमपहृत्य भूयो गुडपलशतं पिप्पलीचूर्णप्रस्थेन पुनर-
प्यधिश्रयेत् । तत्सिद्धमवतार्य सुसंस्कृतं स्नेहविधिमोक्तेन विधिना पाययेत् ।
न्यग्रोधोदुम्बराश्वत्थमधूककदम्बधवकदरमहाजम्बूपलाशप्लक्षश्रीपर्णीमेषशृङ्गीपू-
तीकप्रियङ्गुवज्रकर्णककुभानां त्वचः समाहृत्य वृक्षादन्यश्वगन्धावर्षाभूर्पोरटाह-
रिद्राद्वयपृश्निपर्णीविन्नाभद्रोदुम्बरीसुवहानां मूलैः सह निष्क्वाथयेत् । क्वाथावशे-
षेणानेन तैलं विपाचयेत् । तत्र च दारुहरिद्राहरेणुकेलाप्रियङ्गुमञ्जिष्ठा चेति ।
तत्सिद्धमपहृत्य स्नेहपानोक्तेन विधिना पाययेत् । ततोऽस्य नाडी समाधिमुप-
गच्छति ।
न्यग्रोधोदुम्बराश्वत्थप्लक्ष मधूकजम्बूपलाशानवेतसखदिरबिल्वकदम्बश्रीपर्ण्य-
जकर्ण्यवा मेषशृङ्गी शिरीष इत्येषामष्टादशानां त्वक् च मूलानि समाहृत्य
चतुर्षु तोयकुम्भेषु क्वाथयेत् । अर्धावशिष्टमवतारयेत् । ततः प्रातरुत्थितमप्रसे-
तवन्तं (?) वारणं पाययेदर्धप्रस्थं कुडवं वा । यावद्वा संपिबति नागस्तावदद्या-
न्नाडीव्रणविशुद्धयर्थम् । लाङ्गलीचित्रककुटजकरवीरमातुलुङ्गपत्रैः सप्तभ्वलवण-

१ क. सुखं पि० ।

१६ शिराव्यूह्योध्यायः ] हस्त्यायुर्वेदः । ४८१
हरिद्रायष्टीमधुकं चेति, आन्तरिक्षोदकसंयुक्तैस्तैलं पाचयेत् । ततोऽस्य बस्ति-
नेत्रेण पिचुनाऽपि व्रणनाड्यां तैलमिदं दद्यान्नाडीव्रणविशुद्ध्यर्थम् । यदि हृद-
यगता नाडी, अन्यं वा गूढप्रदेशमुपगता ततोऽस्य तैलपानाभ्यङ्गेन च नाडी
प्रशान्तिमुपगच्छति ॥
मुद्गो(द्रौ)दनं घृतसंयुक्तं दद्यात् । यवसानि च हरितमृदूनि क्रमश्रो मत्स्य-
पिण्डकागर्भाणि दद्यात् ॥
तत्र श्लोकः—
यथोक्तेनोपचारेण यस्तु प्रक्रमते व्रणान् ।
आगन्तुर्दोषजो वाऽपि तस्य सिद्धिर्नियच्छति ॥
इति श्रीपालकाप्ये गजायुर्vede महाप्रवचने महापाठे तृतीये शल्यस्थाने
नाडीव्रणचिकित्सितं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
अथ षोडशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कुतः शिराः संभवन्ति केषु देशेष्ववस्थिताः ॥ १ ॥
कति वातवहा विद्वन्कति पित्तवहाः शिराः ॥
श्लेष्माणं कति धर्मज्ञ रुधिरं कति वा सिराः ॥ २ ॥
श्वे(स्वे)दं मदं वा शुक्रं वा का वहन्ति द्विजोत्तम ॥
का मांसमस्थि मेदो वा मज्जानं वा वहन्ति काः ॥ ३ ॥
काभिरास्वादनं कुर्यात्काभिर्वा संप्रहृष्यति ॥
˙सिराणां निचयं कृत्स्नं यथावद्वक्तुमर्हसि ॥ ४ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यो महामुनिः ॥
विस्तरेण यथातत्त्वं सिराविचयमब्रवीत् ॥ ५ ॥
गर्भस्य हृदयं पूर्वं सह प्राणेन वर्धते ॥
ततः सिराः संभवन्ति सूर्यादिव गभस्तयः ॥ ६ ॥
सर्वाः शरीरसंसृष्टास्तिर्यगूर्ध्वमधस्तथा ॥
सर्वाश्चेष्टाः प्रकुर्वन्ति सिरा वै यन्नवर्धिते ॥ ७ ॥
तस्मात्तु मातृके द्वेऽग्रे(?) हृदयात्कण्ठमाश्रिते ॥
जिह्वामूले निबद्धे द्वे ये रसास्वादकारणम् ॥ ८ ॥
१ क. प्राणेन । २ क. °मथापि वा ॥ स° ।
६१

४८२ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने .
'ततः कण्ठे च मध्य च धमन्योऽष्टौ समाश्रिताः ॥
कर्णयोस्तु तथा विद्यात्ताभिस्तु परिबीजति ॥ ९ ॥
ततः शिरा बस्तिकोषमुरो वालं गुदंस्तथा ॥
मातृकाः प्राप्नुवन्त्येतास्तलगात्रापरं तथा ॥ १० ॥
एवमङ्गेषु सर्वेषु मातृका देहगोचराः ॥
काये शिराः सप्तशतं विभागाः शृणु पार्थिव ॥ ११ ॥
गुदं मेढ्रमथो नाभिं तत्र बस्तिं समाश्रिताः ॥
ताभिः संमूर्च्छितो वायुर्धमनीः प्रतिपद्यते ॥ १२ ॥
शतार्धमेव ता विद्याच्छिरा वै देहगोचराः ॥
या रसान्प्रविभागेन(ण) वायुमेव वहन्ति ताः ॥ १३ ॥
नाभेस्तु हृदयं यावदपरा परतस्तु या ॥
ताभिः संमूर्च्छितं पित्तं धमनीः प्रतिपद्यते ॥ १४ ॥
शतार्धमेवं तु शिराः पित्तमेव वहन्ति याः ॥
उरःसंधिशिरोग्रीवं मर्माणि च समन्ततः ॥ १५ ॥
ततः संमूर्च्छितः श्लेष्मा धमनीः प्रतिपद्यते ॥
विद्धि पञ्चाशदेवैताः शिराः श्लेष्मवहा गजे ॥ १६ ॥
तावन्त्या(त्यः) फुप्फुसयकृद्धृदयानां च मध्यतः ॥
पा रसानुविभागेन शोणितं संवहन्ति तु ॥ १७ ॥
त्वङ्मांसमध्ये विज्ञेयाः शिरा रसवहाः पृथक् ॥
यथास्थानविभागेन धातूनाप्याययन्ति याः ॥ १८ ॥
मांसमेदोस्थिमज्जानां शुक्रस्य च नराधिप ॥
एकैकस्याः शतार्धं तु शिरा ज्ञेयाः पृथक्पृथक् ॥ १९ ॥
दोषधातुप्रकर्षेण हर्षेण च बलेन च ॥
मदः संजायते राजन्स्वभावाच्चैव दन्तिनाम् ॥ २० ॥
शतार्धमेव तु शिराः पृथङ्मदवहाः स्मृताः ॥
या रसानुविभागेन कटौ मेढ़े च संस्थिताः ॥ २१ ॥
समासात्कण्डरा ह्यष्टौ विद्धि गात्रापरे तथा ॥
पश्चात्पुरस्ताच्चैकैकं पादं प्रत्येकमाश्रिताः ॥ २२ ॥
सूक्ष्मो विचारी परुषः कटुः शीतश्च मारुतः ॥
उष्णमम्लं द्रवं पित्तं विवर्णं दारुणं भृशम् ॥ २३ ॥
१ क. परिजीव्यति । २ क. शिरो । ३ क. ०च्छिरो वै । ४ क. ०भावञ्चैव ।

१२ शिराव्यूहव्यधाध्यायः ] हस्त्यायुर्वेदः । ४८३
मधुरः शीतवीर्यश्च घनः श्वेतः कफो गुरुः ॥
बलवाल्लवणोम्लश्च स्निग्धः प्राणविवर्धनः ॥ २४ ॥
आग्नेय योनिर्वातस्य पित्तमाग्नेयमुच्यते ॥
कफं सोमात्मकं विद्यादेतांस्त्रीन्देहसंश्र(श्रि)तान् ॥ २५ ॥
आत्रेयस्तु रसः प्रोक्तो वाशिष्ठं शोणितं भवेत् ॥
काश्यपं तु भवेन्मांसं मेदश्चाप्यथ गौतमम् ॥ २६ ॥
भारद्वाजानि चास्थीनि मज्जा चाप्यथ कौशिकी ॥
जामदग्न्यं भवेच्छुक्रमित्येते सप्त धातवः ॥ २७ ॥
ज्ञेयाः शरीरे तु शिराः स्वेदमेवं वहन्ति याः ॥
व्यायामे च निदाघे च मुखतः श्रा(स्रा)वयन्ति तम् ॥ २८ ॥
यथा प्रस्पन्दते शैलाद्धर्मान्ते तेजसा रविः ॥
एवमेव मुखात्स्वेदं प्रभ्र(स्र)वन्ति मतङ्गजाः ॥ २९ ॥
शिराः शतानि सप्तैवं व्याख्यातानि यथातथम् ॥
सहस्राण्यर्धषष्ठानि स्नायूनांसंश्च(?) ताः शिराः ॥ ३० ॥
सर्वा वातादिभिर्दोषैः शिरा रक्तेन वाऽन्विताः ॥
वहन्ति कायजान्धातूंभिर्देहेत्सर्वदेहिनाम् ॥ ३१ ॥
आश्रयाच्छोणितादस्य यकृत्तस्य विवर्धते ॥
रक्तदोषात्मिका चैव प्लीहो(हा) १वृकौ च दन्तिनः ॥ ३२ ॥
शोणितस्य तु या धेनुः फुप्फुसं तस्य जायते ॥
असृक्पित्तकफानां तु यत्तेजो मारुतान्वितम् ॥ ३३ ॥
तेनास्य संभवन्त्यत्र पञ्चैव गुदबन्धनम् ॥
शोणिते वर्धमाने तु बलं तेजश्च वर्धते ॥ ३४ ॥
शोणिते क्षीयमाणे तु क्षीयन्ते सर्वधातवः ॥
देहिनां शोणितं विद्धि प्राणायतनमुत्तमम् ॥ ३५ ॥
मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् ॥
षण्णां रसानां यत्तेजः कायं पुष्णाति हस्तिनाम् ॥ ३६ ॥
पित्तस्थाने रसस्थानं हस्तिनां संप्रकीर्तितम् ॥
रसः कपोतवर्णाभः पच्यमानो द्वयाहाद्भवेत् ॥ ३७ ॥
१ क. ०व च दन्तिनाम् ॥ न्या० । २ क. ०व्यष्टसार्थानि । ३ क. ०वृद्धौ च ।
४ क. पित्तं स्थानरसं स्थानं ।

तृतीये वा चतुर्थे वा पञ्चवर्णः स उच्यते ॥
पञ्चमेऽहनि षष्ठे वा किंशुकाभ इति स्मृतः ॥ ३८ ॥
एवं शुक्रं तु नागानां सप्ताहात्परिपच्यते ॥
दोषाणां प्रकृतिं ज्ञात्वा शिराव्यूहविशारदः ॥ ३९ ॥
शस्त्रकर्मणि निष्णातो यश्रेषां श्रेष्ठ उच्यते ॥
सर्वासां सरितां यद्वत्प्रतिष्ठा वरुणालयः ॥ ४० ॥
तद्वत्सिराणां सर्वासां प्रतिष्ठा हृदयं स्मृतम् ॥
तस्माद्गर्भे शयानस्य व्यक्तं भवति हस्तिनः ॥ ४१ ॥
हृदयं च शिरश्चैव तस्मात्कायो विवर्धते ॥
शरीरविचये एवं मया सम्यक्प्रकीर्त्यते ॥ ४२ ॥
मनोबुद्ध्यन्तरास्थानां त्रिविधः सोऽनुकीर्त्यते ॥
अन्तरात्मा शरीरस्य मुह्यति त्वसृजः क्षयात् ॥ ४३ ॥
मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् ॥
तत्र मात्राप्रमाणं तु द्विविधं संप्रवक्ष्यते ॥ ४४ ॥
शरीरमभिविज्ञेयं यथादोषं यथाबलम् ॥
वातजानां तथा प्रोक्तं लिङ्गं तस्माद्विवर्जयेत् ॥ ४५ ॥
न विश्रा(स्रा)व्यं महीपाल प्राणवत्स्वपि हस्तिषु ॥
कदाचिद्दोषबाहुल्यात्स्कन्नं नैव प्रवर्तते ॥ ४६ ॥
तत्र मात्राप्रमाणं तु यथावदुपदेक्ष्यते ॥
तस्मान्मात्राप्रमाणाच्च विशेषं संप्रचक्षते ॥ ४७ ॥
तत्र मात्राप्रमाणं तु यथावदुपदेक्ष्यते ॥
सप्तमं भागमाहारात्तस्माद्रक्तं तु मोक्षयेत् ॥ ४८ ॥
सप्तारत्नेर्महीपाल भागेनानेन संमितम् ॥
शेषाणां वारणानां तु श्रा(स्रा)वयेन्मतिमान्भिषक् ॥ ४९ ॥
एवं प्रमाणमुद्दिष्टमतः शृणु महीपते ॥
येषां गजानां वै श्रा(स्रा)व्यमवाश्रा(स्रा)व्याश्च ये गजाः ॥५०॥
वातरोगेषु नागानामविश्राव्यं भिषग्भवेत् ॥
कृशे हीनेन्द्रिये चैव हृद्रोगे गुल्म एव च ॥ ५१ ॥
तथाऽतिबाले वृद्धे च प्रकृत्या दुर्बले गजे ॥
शोषे च वातप्रकृतावतिवातग्रहान्विते ॥ ५२ ॥
१ क. तद्वच्छरीरिणां सर्वप्र० । २ क. शिराश्चैव । ३ रु. मन्ये बु० ।

१६ शिराव्यूहव्यधाध्यायः ] हस्त्यायुर्वेदः । १८५
धातुक्षये पाण्डुरोगे त्वविश्राव्यमसृग्भवेत् ॥
वातव्याधिषु यत्प्रोक्तं तत्कार्यमवसेचनम् ॥ ५३ ॥
हेतुं तु संप्रवक्ष्यामि यस्मात्तत्र विधीयते ॥
वातात्प्राणश्च चेष्टा च सिरा रक्तवहाश्च याः ॥ ५४ ॥
तासां चैव विशेषेण वायुरेव प्रवर्तकः ॥
पञ्चधा धारयत्येष शरीरं नृपसत्तम ॥ ५५ ॥
यस्मात्तस्माद्विशेषेण शरीरमभिवर्धयेत् ॥
अतः परं प्रवक्ष्यामि येषां विश्रा(स्रा)वणं हितम् ॥ ५६ ॥
पादरोगक्षिकरोगेषु मन्यास्तम्भे गलग्रहे ॥
शोफेषु गात्ररोगेषु शीर्षव्याधिषु चोच्यते ॥ ५७ ॥
तथैव दिग्धविद्धे च बालेदष्टे महीपते ॥
सैर्पदष्टे च नागानां विश्रा(स्रा)वणमिहेष्यते ॥ ५८ ॥
स्थिरा ये दोषवन्तश्च ग्रन्थयः संधिमाश्रिताः ॥
अभ्यङ्गैरुपनाहैश्च स्वेदैरुन्मर्दनैश्च ये ॥ ५९ ॥
प्रदेहैः पीडनैश्चैव न प्रशाम्यन्ति दन्तिनाम् ॥
तेषां विश्रावणं कार्यं श्वयथूनां यथाऽधिप ॥ ६० ॥
शरीरमभिविज्ञाय प्रकृतिं सात्म्यमेव च ॥
अपीतवन्तं पूर्वाह्ने ज्ञात्वा सुमनसं गजम् ॥ ६१ ॥
दोषसंचालनार्थाय क्रामयेद्द्वे धनुःशते ॥
ऊष्मणा चाल्यते यस्मात्तस्मादुष्णेन सेचयेत् ॥ ६२ ॥
सुयन्त्रितमवस्थाप्य वारणं कुशलो भिषक् ॥
यन्त्रोपकरणान्यत्र यथोक्तान्युपकल्पयेत् ॥ ६३ ॥
प्रतिकर्मविधिप्रोक्तं (*शस्त्राग्निप्रणिधौ च यत् ॥
ततः पुण्याहघोषेण स्तम्भे वारणमालितम् ॥ ६४ ॥
हैवनं च यथा प्रोक्तं) कर्मसिद्धिमपीष्यते(?) ॥
कर्तव्यं वारणानां तु यथावदभिनिश्चितम् ॥ ६५ ॥
ततः समालभ्य गजं............................ ॥
............चौदकेन............................ ॥ ६६ ॥
*धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।
१ क. ०ल्दष्टे । २ क. सर्पदष्टे । ३ क. गेनं । ४ क. ०पि स्यादकेन ।

४८६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
वासयित्वा च शस्त्राणि यथापूर्वमुदाहृतम् ॥
शरीरविचये चैव शिराव्यूहे च हस्तिनाम् ॥ ६७ ॥
अस्थीनि संधयश्चैव मर्माणि च महीपते ॥
विदित्वा विधयं कुर्याच्छराणामवसेचनम् ॥ ६८ ॥
तत्र शरीरस्थानि सप्त शिराशतानि संभवन्ति च । तासां दश मातृका
नाम यास्तिर्यगूर्ध्वमधश्च सम्यक्प्रतिपन्नाः शरीरं धारयन्ति, रसादींश्च,
धातून्, वातपित्तश्लेष्मासु विप्रतिपन्नेष्वन्तःशरीरेषु सोम्याद्धमन्यः, ताः
समनुव्याख्यास्यामः । तत्र शरीरप्राग्भागमासृ(श्रि)त्य द्वे तथाऽधस्तिर्य-
क्प्रतिपन्ने । पश्चात्काये द्वे । एकैकशश्चैव तासां प्रविभागो भवति । शिरःकण्ठ-
नयनहस्तगात्रापरवंशपृष्ठवक्त्रमतिमानबस्त्यण्डकोशत्वगित्येतांश्च भागानाश्रि-
त्यावस्थिताः । तासां प्रविभागमनुव्याख्यास्यामः । प्रसारणाकुञ्चनगमनो-
द्यतानां विभागेन वर्तन्ते चेष्टावत्यः सर्वं शरीरमभिव्याप्यावस्थिता मर्मभागेषु
चानुबद्धाः, ता वर्जयेत् ॥
तासां मदवहाः प्रोक्ताः पञ्चाशत्तु नराधिप ॥
कटौ मेढ्रे च संबद्धाः स्ववेध्याः पृथिवीपते ॥ ६९ ॥
इन्द्रियार्थं प्रवृत्ता यास्ताः पञ्चाशत्मकीर्तिताः ॥
गन्धरूपरसस्पर्शांन्याः प्रपश्यन्ति देहिनाम् ॥ ७० ॥
एताः पार्थिव नागानां विनाशाय भवन्ति तु ॥
तासां विश्रा(स्रा)वणं नित्यं छेदनं चैव गर्हितम् ॥ ७१ ॥
चेष्टावत्यश्च या नागे शिरा रसवहाश्च याः ॥
मेदोषहाः शुक्रवहास्ताः सर्वाः परिवर्जयेत् ॥ ७२ ॥
वायुः (?) पित्तं तथा श्लेष्मा (?) रक्तं चैव वहन्ति'याः ॥
तासां विभागं वक्ष्यामि येषु भागेषु चाऽऽसृ(श्रि)ताः ॥ ७३ ॥
तासां विश्रा(स्रा)वणं कार्यं यथादोषं महीपते ॥
समीपस्था तु या यस्य सा दोषं तस्य निर्हरेत् ॥ ७४ ॥
दोषोपचितदेहस्य क्रिया नैव प्रवर्तते ॥
यदि नाऽऽसृ(श्रि)त्य रक्तस्य क्रियते किंचिदौषधम् ॥ ७५ ॥
सुविशुद्धशरीरत्वात्तत्तदर्थाय कल्पते ॥
यथा तृष्णाभिसंतप्तः प्राप्य शीतोदकं नरः ॥ ७६ ॥
१ क. ०न्तः सश० । २ क. साम्याद्ध० । ३ ०पृष्टवक्त्र० ।

१६ शिराव्यूहव्यध्याध्यायः ] हस्त्यायुर्वेदः । ४८७
सद्यस्त्यजति तं दोषं त्यक्त्वा च सुखमिच्छति ॥
तस्माद्विश्रा(स्रा)वणं कार्यं विधिनाऽनेन हस्तिनाम् ॥ ७७ ॥
यथाविकारं कुर्वीत भोजयेत्तत्तथा द्विपम् ॥
सप्ताहं पञ्चरात्रं वा त्रिरात्रमपि वा पुनः ॥ ७८ ॥
स्निग्धस्वेदोपपन्नस्य समीक्ष्य गुरुलाघवम् ॥
विमृश्य पूर्वं श्वयथुं दोषलिङ्गसमन्वितम् ॥ ७९ ॥
बन्धेर्यथोक्तैः कर्तव्यं यथावदवपीडनम् ॥
तस्य तस्य प्रदेशस्य चेष्टानां संनिवारणम् ॥ ८० ॥-
यन्त्रं विधिज्ञं कुर्वीत बन्धेनानेन संयतम् ॥
प्रोहसंदानभागेषु तथाऽपस्कारयोरपि(?) ॥ ८१ ॥
अष्ठीवपयोस्तु भागानां पूर्वसंस्थानमिष्यते ॥
श्लक्ष्णं समाहितं चैव नाभितः षोडशाङ्गुलम् ॥ ८२ ॥
तथा वृश्चिकसंस्थानं शिरस्या(स्य)पं विधीयते ॥
वंशे चोत्तरप्रदे(रदे)शे च समं कर्कटकान्वितम् ॥ ८३ ॥
मन्याभागांसदेशेषु कूर्मसंस्थानमिष्यते ॥
एवं यन्त्रविधिः प्रोक्तो विस्तरेण महीपते ॥ ८४ ॥
एवं बन्धनबद्धस्य विश्रा(स्रा)वणमतः परम् ॥
अनेन क्रमयोगेन(ण) स्थानादुत्क्राम्यते(?) शिराः ॥ ८५ ॥
तासां परीक्षा कर्तव्या वैद्यैः सम्यकप्रपीडने ॥
पाणिना पादपोस्तत्र अङ्गुष्ठेन प्रपीडयेत् ॥ ८६ ॥
विज्ञाय नागं भागज्ञो विध्येत्तु ताः समाहितः ॥
तत्राऽऽविद्धाः शिराः सम्यक्पार्श्वदेशेऽथवा भवेत् ॥ ८७ ॥
न प्रवर्तते सा सम्यक्तस्या शोषो न शाम्यति ॥
स्तम्भः शोफश्च दाहश्च क्षिप्रमेवोपजायते ॥ ८८ ॥
तस्माद्यथोक्तं कर्तव्यं पुनस्तस्य चिकित्सितम् ॥
अतिविद्धा तु या कष्टदोषमत्यर्थमीरयेत् ॥ ८९ ॥
तस्माद्यन्त्रविधिस्तत्र क्षिप्रमेव च मोक्षयेत् ॥
मुक्तबन्धनमोश्वेवं सलिले त्ववगाहयेत् ॥ ९० ॥
१ क. ॰नागेन । २ क. संयुतम् । ३ क. ॰ते ॥ ते वंशे चेत्प्रदे॰ । ४ क. पार्श्वयो॰ । ५ क. ?शाम्येवं ।

प्रदेहः शीतलैश्चैव प्रदिह्यात्तु पुनः पुनः ॥
सर्पिः क्षीरं च नागाय विधिवत्संप्रदापयेत् ॥ ९१ ॥
शीतांश्च मधुरांश्चैव भावांस्तस्मै प्रदापयेत् ॥
यद्येवं नोपपद्येत क्षिप्रं प्राणैर्विमुच्यते ॥ ९२ ॥
सम्यग्वेधे तु दोषाणां समो वृद्धिविपर्ययात् ॥
छव्व्यस्त्वपि महाराज षट्पूर्वं संप्रकीर्तिताः ॥ ९३ ॥
तासामेकैकशो राजन्प्रमाणं संप्रवक्ष्यते ॥
एका तत्र प्रमाणेन अध्यर्धं(र्ध) यवसंमिताः(ता) ॥ ९४ ॥
प्रथमा तु महीपाल द्वितीया द्वियवा स्मृता ॥
शेषाणामेतदेवाऽऽहुः प्रमाणं मनुजाधिप ॥ ९५ ॥
अध्यर्धाङ्गुलमेवं तु प्रमाणमभिधीयते ॥
श्वयथुष्वपि विज्ञेयो दोषलिङ्गैः पृथग्विधैः ॥ ९६ ॥
व्रीहिवक्त्रेण शस्त्रेण विध्येदत्वरया भिषक् ॥
अथ चोत्पलपत्रेण कुशपत्रेण वा पुनः ॥ ९७ ॥
त्र्यङ्गुलं निर्गमं कुर्याद्रागं विज्ञाय तत्त्वतः ॥
बहुलं च चतुश्चैव प्रदेशमभिलक्षयेत् ॥ ९८ ॥
यथोक्तेनोपचारेण विध्येदत्वरया नृप ॥
दोषलिङ्गेन निर्मुक्तं विशुद्धं दोषवर्जितम् ॥ ९९ ॥
प्रमुच्य यन्त्रं विधिना निर्वाणे चावगाहयेत् ॥
निवृत्तं पीतपानीयं भोजयेद्रसभोजनम् ॥ १०० ॥
एष सर्वो विधिः कार्यो भिषजा सिद्धिमिच्छता ॥
—:०:—
अत ऊर्ध्वं शिराणां तु विचयः संप्रवक्ष्यते ॥ १ ॥
येषु देशेषु यं दोषं यथोवद्विनिवर्तयेत् ॥
संप्रवक्ष्यामि नागानां तन्मे निगदतः शृणु ॥ २ ॥
अवग्रहस्य चाधस्तात्कुम्भस्योपरि संश्रिताः ॥
विद्रवग्रहयोश्चापि(?) विज्ञेया मध्यमाश्रिताः ॥ ३ ॥


* 'श्रापि' इति भवेत् ॥


१ क. श्वयथुं स्व॰ । २ क. अङ्गुलं । ३ क. पूर्वो । ४ क. ख. संप्रचक्ष्यते । ५ क. ॰थाविधि नि॰ ।

१६ शिराव्यूहव्यधाध्यायः] हस्त्यायुर्वेदः । ४८९
विद्ध्वक्षिकूटयोर्मध्ये ईषिकाग्रे प्रतिष्ठिताः ॥
तथा घाटाप्रदेशे च बिन्दुमध्यं तथैव च ॥ ४ ॥
निर्याणोपरि चाप्यन्याः शङ्खदेशे समाश्रिताः ॥
शिरोरोगेषु नागानामेता वेध्या महीपते ॥ १०५ ॥
तेनैव विधिना बद्ध्वा यथा पूर्वं प्रकीर्तिताः ॥
अक्षिकूटकटश्रो(स्रो)तोमध्ये सम्यग्वपस्थिताः ॥ ६ ॥
तथैव तालुकृष्णान्ते मध्ये विध्येदतन्द्रितः ॥
वितानास्यप्रदेशानां मध्ये जिह्वान्तरे तथा ॥ ७ ॥
अपाङ्गदेशस्याधस्ताच्चा कनीनिकयोरपि ॥
नेत्ररोगेषु नागानामेता वेध्याः पृथक्शिराः ॥ ८ ॥
एतेनैवोपचारेण समं विज्ञाप तत्त्वतः ॥
यतः स्थानस्य चाधस्तादङ्गुष्ठभागस्य चोपरि ॥ ९ ॥
विध्येदसंभ्रमाद्वैद्यः शिरामेनां गलग्रहे ॥
तथो सगदयोश्चापि मन्याभागान्तरे तथा ॥ ११० ॥
विध्येदत्वरया वैद्यः कण्ठव्याधिषु हस्तिनः ॥
स्तनान्तरस्य चाधस्तादष्टाङ्गुलसमा स्थिताः ॥ ११ ॥
विध्येत्प्रमाणतो वैद्यस्तथा द्रोणिकसंस्थिताः ॥
नाभिप्रदेशे विज्ञेया ऊर्ध्वादष्टादशाङ्गुला ॥ १२ ॥
शोफे द्रोणीकसंस्थाने सम्यग्ज्ञात्वाऽथ वेधयेत् ॥
नाभिप्रदेशे पार्श्वे च चतुरङ्गुलसंमिताम् ॥ १३ ॥
मध्ये त्वनुस्रुतां विध्येत्तथैवान्तरसूनयोः ॥
शुकप्रदेशस्याधस्तादण्डकोशादधस्तथा ॥ १४ ॥
विज्ञाय दोषोपचयं यथावदवसेचयेत् ॥
तेनैव क्रमयोगेन(ण) द्रोणीकवदुपाचरेत् ॥ १५ ॥
तथैव मन्ययोश्चापि बहिरन्तश्च संस्थितौ ॥
शिरे(रो) यन्त्रविधानेन *त्वंचा पीड्यावसेचयेत् ॥ १६ ॥
अतः संदानभागस्य मध्ये बद्ध्वाऽवसेचयेत् ॥
तेनैव क्रमयोगेन(ण) यथापूर्वमुदाहृतम् ॥ १७ ॥

  • 'त्वक्पीड्या' इति उचितम् ।
    १ क. ०थाऽऽमगं० । २ क. ०न्तस्य सं० । ३ क. त्वचपी० ।
    ६२

ि-शेत्(4 syllables at the end:विनिर्दिशेत्). The middle must be 4 syllables: [ ? ] ऽपि च->ऽपि चis 2 syllables! So the word beforeऽपि चMUST BE 2 SYLLABLES! If it wereदृष्ट्वा, दृष्ट्वाis 2 syllables!दृष्ट्वाऽपि च विनिर्दिशेत्(दृष्-ट्वा-ऽपि-च = 4 syllables!). If it wereबुद्ध्वा, बुद्ध्वाis 2 syllables! If it wereद्‍ध्वा, wait, what word is द्‍ध्वा? There is no word द्‍ध्वा! Wait! Could it be दृष्ट्वा? Let's look at the 2 syllables: Wait! Is the first pāda दशाङ्गुले चापस्कराद्? If चापस्कराद्has theद्, then the next word starts with a vowel or consonant: Wait, what if it's चापस्कराद्+उद्ध्वा? No. चापस्कराद्+दृष्ट्वा? But द्+दृwould beद्‍दृष्ट्वा! Wait, look at the letter: द्‍दृष्ट्वा`!
Wait, does it

१६ शिराव्यूहव्यधाध्यायः] हस्त्यायूर्वेदः । ४९१
दोषाणामतिवृद्धानां प्रकोपं घ्नन्ति ताः शिराः ॥
एवमेतेषु सर्वेषु श(शि)राः प्रोक्ता महीपते ॥ ३२ ॥
दोषधातुप्रयोगैस्तु तासां विश्रा(स्रा)वणं हितम् ॥
संख्या समासतो ज्ञेया षष्टिरस्तु चतुरोत्तरा ॥ ३३ ॥
एवमेतच्छिराजातं यथावदनुपूर्वशः ॥
शिराव्यूहे च यद्राजन्वातादीनां तु लक्षणम् ॥ ३४ ॥
श्वयथुं दोषवन्तं तं नानालिङ्गसमन्वितम् ॥
दृष्ट्वा नागस्य तं विद्याद्विद्रधिं कुशलो भिषक् ॥ १३५ ॥
स्थिरत्वाद्ग्रन्थिबन्धाश्च ग्रन्थिरित्यभिधीयते ॥
तेषामेतेन कल्पेन कार्यं संशमनं भवेत् ॥ ३६ ॥
अथवा दोषशमनादाधिक्यं यस्य लक्ष्यते ॥
तस्यैव तस्य कर्तव्यं यथाप्रोक्तं चिकित्सितम् ॥ ३७ ॥
शिराणामपबन्धार्थाः स्नायुकूर्चाः प्रकीर्तिताः ॥
अशीतिरेव विज्ञेया विभागस्तासु वक्ष्यते ॥ ३८ ॥
यदेहं(ये देहे) संधयः प्रोक्तास्तेषां तत्र च बन्धनम् ॥
यत्र तत्र च संबद्धाः संधिदेशं समाश्रिताः ॥ ३९ ॥
सर्वेष्वङ्गमप्रदेशेषु तस्मात्ताः परिवर्जयेत् ॥
संधिसंधानमेप्येतत्षड्विधं संप्रकीर्तितम् ॥ १४० ॥
तन्नास्थ्रामपि संधानं कीर्तितं यच्चतुर्विधम् ॥
शरीरविचये पूर्वं मया सम्यङ्गनराधिप ॥ ४१ ॥
मनो मे मुह्यति स्मृत्वा रक्तक्षीणस्य का(क)ष्टताम् ॥
तस्मान्मात्राप्रमाणेन नित्यमेवाभिषेचयेत् ॥ ४२ ॥
यत्र मांसावगाढत्वाच्छिरा नैवोपलभ्यते ॥
स्थिरत्वाच्छूथयोश्चैव प्रच्छनं तत्र कारयेत् ॥ ४३ ॥
अनन्तरं प्रस्थापयित्वा दोषलिङ्गान्वितं नृप ॥
लवणेन सतैलेन कुर्यात्तस्पावसेचनम् ॥ ४४ ॥
प्रच्छन्ने व्यधने चैव तेनासृक् श्र(स्र)वते भृशम् ॥
तत्र प्रक्षालनं कुर्याच्छीतेनैव च वारिणा ॥ १४५ ॥
इक्ष्वास्तलोत्पलातलैः प्रदेहं तस्य कारयेत् ॥
समङ्गाधातकीपुष्पैश्चन्दनोशीरपद्मकैः ॥ १४६ ॥
१ क. - ॰प्रकोपैस्तु । २ क. ॰मध्ये त॰ । ३ क. ॰वावसेच॰ ।

४९२ | पालकाप्यमुनिविरचितो- | [३ शल्यस्थाने-
अनेन क्रमयोगेन(ण) सम्यक्संपद्यते सुखी ॥ १४७ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
शिराव्यूहव्यधो नाम षोडशोऽध्यायः ॥ १६ ॥
अथ सप्तदशोऽध्यायः ।
अङ्गाधिपतिरुदग्रं पालकाप्यं कृताञ्जलिः ॥
आपृच्छद्द(ह)न्तचे(वे)ष्टानां शुष्यतानां(?) चिकित्सितम् ॥ १ ॥
किम्मूलो दन्तविश्रा(स्रा)वो ज्ञेयं चौत्पातिकं कथम् ॥
स्यादनौत्पातिकः कस्माद्दन्तस्य श्र(स्र)वणं कथम् ॥ २ ॥
इति पृष्टोऽब्रवीत्प्रश्नं मुनिरिन्द्रेश्वरं तथा ॥
श्रूयतां पृथिवीपाल यथायोगं यथाक्रमम् ॥ ३ ॥
अत्यर्दितः श्र(स्र)वेद्दन्तः पूतिकं पूयशोणितम् ॥
सद्यः कृमीन्वा नागस्य तस्य दैवकृतो विधिः॥ ४ ॥
तस्य त्यागो हि दन्तस्य पतनात्प्राग्विनिश्चितः ॥
तस्यात्यागे ह्यवाप्नोति मित्रार्थे(र्थं) वलभूक्षयम् ॥ ५ ॥
व्यायामात्पतनं यस्य दन्तस्येह द्विपस्य तु ॥
भवेत्करीरीमूलाभ्यां गदन्तं गजमुत्सृजेत् ॥ ६ ॥
[*•••• •••• •••• ••••सह तूर्णं समुत्सृजेत् ॥ ]
भग्ने शेषं स्थितं याप्यं समूलं सकरीरिकम् ॥ ७ ॥
र्विनिष्कीर्णं यद्धि स्यात्तल्लूनवत्साधु साधयेत् ॥
चे(वे)ष्टस्योपरि दन्तस्योद्भङ्गे स्याद्यदि च श्रु(स्रु)तिः ॥ ८ ॥
तस्य प्राक्पतनादिष्टं गजस्योत्सर्जनं न हि ॥
दन्तनाडी तु यस्य स्याद्वातादीनां प्रकोपजा ॥ ९ ॥
न तत्रोत्पातिकं किंचिन्न चास्य पतने भयम् ॥
अन्तःस्वेदा गजा यस्मान्मांसे शुषिरता तथा ॥ १० ॥
तैजसी प्रकृतिश्चापि कोपे भूयिष्ठता ततः ॥
यस्य श्रु(स्रु)तिस्तु दुर्गन्धा विषाणस्योपलक्ष्यते ॥ ११ ॥
* धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ॥
१ ख. मन्यार्थे । २ क. श्रुतम् । ३ क. ॰तितं किं॰ । ४ क. यस्माच्छ्रुति॰ ।

१७ दन्तनाडीचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ४९१
कर्मजेऽपि समुत्पाते तं¹त्रास्य च्यवनं स्मृतम् ॥
पुष्पनेत्रं तु वृत्तास्यमनुपूर्वं समं दृढम् ॥ १२ ॥
बस्तिर्जरद्भवः श्रेष्ठं तस्मिन्व्रणे विधीयते ॥
दृढां बलवतीं श्लक्ष्णामेषर्णी ताम्रनिर्मिताम् ॥ १३ ॥
गण्डूपदास्यां सूक्ष्मां च कारयेद्भिषगुत्तमः ॥
स्पूर्जाकनिम्बजातानां हरिद्रानक्तमाल्योः ॥ १४ ॥
पुत्रं²जीवकभृङ्गस्य निष्काथं कुटजस्य च ॥
सुखोष्णः करवीरस्य सप्तपर्णस्य चोभयोः ॥ १५ ॥ -
क्षालनं बस्तिना³ कार्यं क्षौमपट्टैस्तु शोधनम् ॥
पूतिगन्धं च कण्डूं च क्वाथ एष प्रणाशयेत् ॥ १६ ॥
मार्दवं शोधनं चैव व्रणस्याऽऽशु करोति च ॥
वर्षाभूश्चैव बिल्वं च निक्वाथो वा वचान्वितः ॥ १७ ॥
सोभाञ्जनकतर्कारीयूथिकाभृङ्गसंयुतः ॥
अलर्केकाकदन्तीनां पूतीकैरण्डयोरपि ॥ १८ ॥
सुरसाकुटजत्वग्भ्यां संयुक्तो व्रणधावनः ॥
मधुशिग्रुर्घवश्चैव निष्काथः कुटजस्य च ॥ १९ ॥
पूतीकस्याग्निमन्थस्य पुत्रंजीवकनिम्बयोः ॥
सप्तपर्णत्वचश्चास्य नक्तमालस्य चोभयोः ॥ २० ॥
तेन वा बस्तियुक्तेन क्षालनं दन्तिनो व्रणे ॥
जात्यर्ककाकदन्तीनां पूतीकैरण्डयोरपि ॥ २१ ॥
विडङ्गं त्रिवृता दन्ती चित्रकः पिप्पलीद्वयम् ॥
श्यामा सलवणा कार्या पिष्टा स्याद्व्रणपूरणम् ॥
स्याच्चालेपो वचा शुण्ठी पाठा कटुकरोहिणी ॥ २२ ॥
अक्षिपी⁴लकगण्डीरे सुवहाऽतिविषा तथा ॥
तेजोवत्यथवा पिष्टा(ष्टा) सुवर्णा क्षीरिणी तथा ॥ २३ ॥
शुण्ठी सुवर्चिका चैव कषायं लशुनानि च ॥
लाङ्गलिकासमायुक्तः क्षौद्रेण सह संप्लुतः ॥ २४ ॥
लेपोऽयं दन्तनाडीषु वारणानां सुखावहः ॥
नक्तमालहरिद्राभ्यां करवीराङ्कुरस्य च ॥ २५ ॥
१ क. तस्यास्य चवनं । २ क. ॰त्रं वीजक॰ । ३ क. ॰स्तिनीकार्थ क्षौ॰ ।
४ क. ॰पीडकठाण्डी॰ ।

पूतीकस्य च जात्याश्च कल्केन कुटजस्य च ॥
दन्तनाडीषु तैलं स्याद्वृश्चिकालीहरेणवा (?)॥ २६ ॥
कुस्तुम्बुरुस्तथैला च शोधनी साक्षिपीलकाः ॥
श्रीवेष्टकसमायुक्ताः कुष्ठजस्तालपत्रिकाः ॥ २७ ॥
जात्याः सकरवीराया भङ्गः पूतीकपल्लवाः ॥
अभीरुपत्री सुवहा गुग्गुलुः सुकुटन्नटः ॥ २८ ॥
करञ्जपल्लवा मुस्ताहंसपादीहरेणवः ॥
एतानि पाके तैलस्य समपिष्टानि योजयेत् ॥ २९ ॥
तेन तैलेन वा शोध्या दन्तनाड्यस्तु दन्तिनाम् ॥
अपूतिकमविश्रा(स्रा)वं कण्डूदोषविवर्जितम् ॥ ३० ॥
विज्ञाय तु व्रणं शुद्धं क्रियां कुर्यादिमां भिषक् ॥
बिल्वाश्वत्थमधूकानां त्वग्भिर्न्यग्रोधशालयोः ॥ ३१ ॥
सबीजकोदुम्बरायाः सोमवल्कशिरीषयोः ॥
निष्क्वाथः क्षालनं(ने) कार्यः सुखोष्णः सरलस्य च ॥ ३२ ॥
तेनोपद्रवहीनस्तु व्रणो रोहति दन्तिनः ॥
शमीकुरुकमूलानि पाटलामूलमेव च ॥ ३३ ॥
वितानकं सहोशीरं कुटजः शालितण्डुलाः ॥
इङ्कटा मधुकं रोधं मन्मितस्तालमस्तकः ॥ ३४ ॥
विदार्यर्षभकश्चैव सुवहाजीवकावपि ॥
कुलिङ्गाक्षी पयस्या च तथैव तालपत्रिका ॥ ३५ ॥
१किरात्या सह पक्वं तु तैलं स्याद्व्रणरोपणम् ॥
गतिः स्याद्यदि संरूढा प्रकोपमुपगच्छति ॥ ३६ ॥
पूतिस्रावी भिषग्वा स्याच्छृणु तत्रापि यो विधिः ॥
पटोलं हस्तिपिप्पल्यः कुटजस्य फलानि च ॥ ३७ ॥
वृश्चिकाली विडङ्गानि पृथ्वीकाः श्वेतसर्षपाः ॥
कुस्तुम्बुरुसमायुक्तं गोमूत्रे क्वाथयेच्चिरम् ॥ ३८ ॥
क्वाथेनाथ सुखोष्णेन तेन तां शोधयेद्द्ताम् ॥
सर्पगन्धा मधूच्छिष्टं सर्वबीजानि गुग्गुलुः ॥ ३९ ॥
सर्षपैः सह धूपः स्यान्नाडीनां दन्तयोर्हितः ॥
पूतिगन्धमविष्यन्दं दन्तनाड्या शिरोरुजम् ॥ ४० ॥
१ क. ख. किरास्य ।

१७ दन्तनाडीचिकित्सिताध्यायः । हस्त्यायुर्वेदः । ४९५
आक्षेपयति धूपोऽयं दन्तनेत्रसुखावहः ॥
पृश्निपर्ण्यश्रमत्स्यो च छिन्नरुत्तालपत्रिकः ॥ ४१ ॥
समङ्गा च करञ्जश्च सुवहाऽतिबला बला ॥
महासहा च विश्वा च निष्क्वाथस्तैलपाचनः ॥ ४२ ॥
सुवहागिरिकर्ण्यौ च कपिकच्छूः समूलिका ॥
महौषधं रसं क्वाथं तैलेन सह पाचयेत् ॥ ४३ ॥
द्विगुणक्षारसंयुक्तं कल्कश्चैव भिषग्वरः ॥
मञ्जिष्ठायाः प्रियङ्गवाश्च मधूकस्य हरिद्रयोः ॥ ४४ ॥
मांस्याः कालानुसार्याश्च ध्यामजीवकयोरपि ॥
ऋषभस्य सरोध्रस्य वचाश्रीवेष्टकस्य च ॥ ४५ ॥
प्रपौण्डरीकस्य तथा श्लक्ष्णं पिष्ट्वा प्रदापयेत् ॥
त्र्यहं शिरोविरेकः स्यात्तैलपीतस्य च त्र्यहम् ॥ ४६ ॥
पश्चादस्यावसेकस्य दन्ताप(वे)ष्टेषु(स्रु)तस्य च ॥
काकोली मधुपर्णी च सालपर्णी सरोहिणी ॥ ४७ ॥
पयस्या च लुलिङ्गाक्षी छिन्नरुन्मुद्गपर्ण्यपि ॥
अम्बष्ठा चैव तैलं स्यात्तेन तैलं विपाचितम् ॥ ४८ ॥
द्विगुणक्षीरसंयुक्तं तैलमात्रावशेषितम् ॥
तेन चाभ्यञ्जनं पानं नस्यकर्म च पूज्यते ॥ ४९ ॥
शंशतित्तिरिलावानां मयूरवृषभस्य च ॥
युक्तं मरिचचूर्णेन पिप्पलीशुण्ठिसैन्धवैः ॥ ५० ॥
स्निग्धं सलवणं चैव तं रसं पाययेद्द्विजम् ॥
देयं शाल्योदनं चैव रसैस्तैरेव संस्कृतैः ॥ ५१ ॥
यदा चास्य स्थिरीभावः समाधिश्चैव दन्तयोः ॥
पञ्चाहान्तरितं तस्मादथवाऽपि त्र्यहं तथा ॥
प्रतिपानं प्रसन्नां च तैलयुक्तां प्रदापयेत् ॥ ५२ ॥
इतीदं दन्तनाडीनां सनिदानं चिकित्सितम् ॥
पृच्छते रोमपादाय पालकाप्येन कीर्तितम् ॥ ५३ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने दन्तना-
डीचिकित्सितं नाम सप्तदशोऽध्यायः ॥ १७ ॥
१ क. तरसं ।

४९६
पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
अथाष्टादशोऽध्यायः ।
*षोडश दशनाः प्रोक्ता नागानां सगदा नृप ।
द्वावन्यावधिकौ दन्तावुपर्यूर्ध्वौ च विज्ञेयौ ॥
हेन्वस्थिसंधिरुद्धो वायुर्मज्जास्थिसंग्रहणं कुरुते ।
हन्वस्थिदन्तदोषादधिदन्तैस्तेषामतस्प नश्वरतः ॥
स्सवेदना स्यात्सुदारुणा तेन दन्तमूलेषु ।
परुषच्छविर्विवर्णा कृशश्च मन्दामिलाषश्च ॥
तस्य गलग्रहनिर्मितयन्त्रेण सुयन्त्रितस्य नागस्य ।
स्तम्भालितस्य राजन्विकासमुविदारितांस्यस्य ॥
द्वात्रिंशदङ्गुलायतदशनपरिणाहेन लोहदण्डेन ।
एणीपदेन कुर्यादुद्धरणं तयोः सम्यक् ॥
व्रीहिमुखेन च परिशोध्य सर्वतस्तस्य दन्तमूलेषु ।
उष्णोदकधौतेषु मधुसर्पिः पूरणं दद्यात् ॥
तेन सुखी भवति गजो बलवान्सुखविक्रमश्चैव ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थानेऽधिक-
दन्तचिकित्सितं नामाष्टादशोऽध्यायः ॥ १८ ॥
अथैकोनविंशोऽध्यायः ।
देवराजप्रतीकाशश्चम्पायां पृथिवीपतिः ॥
अभिगम्याऽऽश्रमं पुण्यं पालकाप्यमथाब्रवीत् ॥ १ ॥
यथा शिरा भवेच्छिन्ना भिन्ना वाप्यवघट्टिता ॥
अतिप्रवृत्ते रुधिरे स्थापनं च कथं भवेत् ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु सर्वं महाराज अविक्षिप्तेन चेतसा ॥ ३ ॥
केवलं शस्त्रकर्माणि ह्यशास्त्रज्ञाश्चिकित्सकाः ॥
मर्मभागमजानन्तो हिंस्युः स्नायुशिरास्तथा ॥ ४ ॥
* आदर्शद्वयेऽपि तुल्यत्वादस्मिन्नध्याये छन्दोविचितिश्चिन्तनीया ॥
१ क. हस्तिसं° । २ क. °न्तश्चावृश्ननः । वर° । ३ क. °ता यस्य । ४ ख.
°तः स्वस्य दन्तेषु । ५ क. ख. शिरो । ६ क. °विघट्टिता । •

१९ 'शिराच्छेदाध्यायः ] हस्त्यायुर्वेदः । ४९७
दुर्ग्रहीतं भवेच्छस्त्रं तिर्यग्वा विनिपातयेत् ॥
तेन स्नायुः शिरा वाऽपि विशेषेणोपहन्यते ॥ ५ ॥
तस्मिन्प्रवर्तते राजञ्शोणितं जलयन्त्रवत् ॥
तस्य सिद्धिं प्रवक्ष्यामि साध्यासाध्यं च सर्वशः ॥ ६ ॥
अस्थिमर्मगताश्चैव संधिजातास्तथैव च ॥
शिरा नागस्य वक्ष्यामि ता मे विस्तरतः शृणु ॥ ७ ॥
नाभ्यामेव तु संभूता धमन्यो दश पञ्च च ॥
नानाश्रो(स्रो)तोवहाश्चैव नानाधातुवहाश्च ताः ॥ ८ ॥
धमनीप्रभवानां तु शतानि दश पञ्च च ॥
हस्ते गात्रापरे चैव शिरा काये च दन्तिनाम् ॥ ९ ॥
त्र्यस्थितांसेऽथ बाले च जघन्यापरपोरपि ॥
अण्डकोशे च नागस्य विद्धि सप्त शतानि वै ॥ १० ॥
तासामुपशिराश्चैव स्नायवश्च सहस्रशः ॥
एवं स्नायुकृता संख्या रोमकूपसमा नृप ॥ ११ ॥
एकस्कन्धो यथा वृक्षः शाखाभिर्बहुभिर्वृतः ॥
एवं नाभिप्रवृत्तास्तु शिराः स्नायुश्च कुञ्जरे ॥ १२ ॥
तासां वक्ष्यामि विस्तारं येषु भागेषु हस्तिनाम् ॥
सद्यः प्राणहरः स्यात्तु शिराच्छेदो महीपते ॥ १३ ॥
पुरो नखे च प्रोद्भे च चिक्कायां पलिहस्तयोः ॥
संदानजवभागे च विक्षोभे च महीपते ॥ १४ ॥
भोगेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥
एता दश शिरा राजन्सद्यः प्राणहराः स्मृताः ॥ १५ ॥
उरोग्रीवागुहा(दा) भागे स्कन्धे मूर्ध्नि च हस्तिनः ॥
शिरा दश विजानीयाद्धस्ते पञ्च विनिर्दिशेत् ॥ १६ ॥
विभागे द्वे धमन्ये द्वे धमन्ये द्वे कृकाटिके ॥
तथा द्वे रसवाहिन्यौ शिरा दश तु कीर्तिताः ॥ १७ ॥
नानाश्रो(स्रो)तोवहाश्चैव भागेष्वेतेषु दन्तिनाम् ॥
सद्यः प्राणहरा राजंस्तासां छेदं विवर्जयेत् ॥ १८ ॥
वातकुम्भस्य चान्ते द्वे ईषीके द्वे समाश्रिते ॥
ईषीकाकुम्भयोर्मध्ये हस्तश्रो(स्रो)तोवहा नृप ॥ १९ ॥
१ क. नागेष्वेतेषु । २ क. ख. शिरो ।
६३