हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 533, कुल 742 में से
संदर्भ में पढ़ें९१४ पालकाप्यमुनिविरचितो— [ २ शल्यस्थाने-
यावच्छल्यनिरुद्धस्तु वायुस्तिष्ठति मर्मणि ॥
तावत्सशल्यमाणेषु स जीवति मृतोऽन्यथा ॥ २४ ॥
अथ वैगुण्यकारीणि अपस्कारस्तथैव च ॥
विज्ञाय तु गुहाभागौ क्षपभागं ततः परम् ॥ २५ ॥
अस्मे चैव.विभागे च करस्य श्रो(स्रो)तसी तथा ॥
प्रतिमानं गुहाभागौ चत्वारो ग्रन्थयस्तथा ॥ २६ ॥
तथाऽन्तरपरे स्यातां प्रवक्ष्याम्यत उत्तरम् ॥
• करश्च प्रत्यगंसौ च प्रतीकासौ तथैव च ॥ २७ ॥
नेत्रे चैव महीपाल मुनिभिः परिकीर्तिते ॥
ग्रीवा चान्तरसूना च बाहित्यं च नराधिप ॥ २८ ॥
पेचकश्च विताने च वैगुण्यकरसंग्रहः ॥
एतान्येव चतुस्त्रिंशन्मोक्तानि मनुजाधिप ॥ २९ ॥
स्थिरा यतः सौम्यगुणाः स्थिरत्वाच्च न मृत्युदाः ॥
तस्मात्तद्वैगुण्यकरं मृत्युदं क्लेशयेन्न तम् ॥ ३० ॥
इति सप्तोत्तरं प्रोक्तं शतं ते मर्मणां मया ॥
धैर्यं वीर्यं बलं सत्त्वं संघातः पौरुषा गुणाः ॥ ३१ ॥
एतेष्वधिष्ठिताः सर्वे गुणा मर्मसु हस्तिनाम् ॥
यस्मात्तस्मात्क्षते तत्र प्राणांस्त्यजति वारणः ॥ ३२ ॥
मारणादुच्यते मर्म नेरुक्तैः शास्त्रनिश्चयात् ॥
तथैवाष्टविधं प्राहुः संरूपया मनुजाधिप ॥ ३३ ॥
²शिरामर्मास्थिमर्माश्च(?) धमनीमर्म चापरम् ॥
स्नायुमर्म च विज्ञेयं कोष्ठमर्म तथैव च ॥ ३४ ॥
संधिमर्म च विज्ञेयं स्रोतोमर्म तथैव च ॥
दोषमर्म च विज्ञेयं वक्ष्यन्ते तत्र हेतवः ॥ ३५ ॥
शिरामर्मण्यभिहतो रक्तश्रा(स्रा)वादृजोऽधिकः ॥
क्षिप्रं वियुज्यते प्राणैस्तस्मात्तदभिरक्षयेत् ॥ ३६ ॥
अस्थिमर्मण्यभिहतः शुक्रमज्जापरिश्र(स्र)वात् ॥
परित्यजेद्गजः प्राणानस्थिघातुक्षयात्ततः ॥ ३७ ॥
हिंस्यते धमनीमर्म यदा नागस्य मर्मसु ॥
तदाऽप्यगुणनिश्रा(स्रा)वादृजस्त्यजति जीवितम् ॥ ३८ ॥
१ क. ख. मृतेऽन्य० । २ क. ख. शिरोम० ।