हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 517, कुल 742 में से
संदर्भ में पढ़ें४९६ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
हस्ते पञ्च शिराः श्वेता वारणस्य प्रकीर्तिताः ॥
सद्यः प्राणहरा राजंस्तासां छेदो विवर्जितः ॥ २० ॥
निर्याणमध्ये पङ्खै विलागे दन्तवेष्टयोः ॥
कटिश्रो(स्रो)तसि मध्ये च तासां छेदो विनाशयेत् ॥ २१ ॥
वसस्यातु(?)च मध्ये च तत्पले च समाश्रिते ॥
दलिरे पृथिवीपाल तासां छेदो विनाशयेत् ॥ २२ ॥
पेचकस्य च मध्ये स्यात्करीषस्य च मध्यतः ॥
प्रस्त्रावस्य च मध्यस्थः शिराच्छेदो विनाशयेत् ॥ २३ ॥
तथैवाऽऽन्तरसक्थ्नोश्च अण्डकोशस्य पार्श्वतः ॥
अष्टास्वेव महीपाल शिराच्छेदो विनाशयेत् ॥ २४ ॥
संदानभागे मण्डूको ग्रन्थी सकुठिकाह्वये ॥
भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २५ ॥
तनुभागे च रन्ध्रे च अण्डकोशे च दन्तिनः ॥
स्तनान्तरे च नाभ्यां च शिराच्छेदो विनाशयेत् ॥ २६ ॥
अक्ष्णोर्वे कर्णसंधौ च शिरा नागमनुस्रुताः ॥
भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २७ ॥
अतिप्रवृत्ते रुधिरे वारणस्य महीपते ॥
शोणितस्य क्षयाच्चैव वायुर्मर्माणि बाधते ॥ २८ ॥
हृदयं पीड्यते चास्य शोफश्चास्योपजायते ॥
मूर्च्छां च भजते नागस्तृष्णाऽप्यस्य विवर्धते ॥ २९ ॥
दुर्मना वर्णतः पाण्डुर्यवसं नाभिनन्दति ॥
एवंलिङ्गं महाराज प्रत्याचक्षीत वारणम् ॥ ३० ॥
उत्तानायाः प्रसन्नाश्च छवीरोमसमाश्रिताः ॥
शिरास्सायु(?) महाराज छेदमाहुर्मनीषिणः ॥ ३१ ॥
यदा शिरा भवेच्छिन्ना भिन्ना वाऽपि विघट्टिता ॥
अतिप्रवृत्ते रुधिरे स्थापनानि निबोध मे ॥ ३२ ॥
श्रीपर्णीमथ तां बद्ध्वा धातुकांमदनातुभौ ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३३ ॥
यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥
क्षौमस्य तु मषी चूर्णं तथा सर्जरसस्य च ॥ ३४ ॥
१ क. ०त् ॥ मन्दान० । २ क. ०गेध्वेते० । ३ क. शिरो । ४ ख. ०कागद० ।