सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 527, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 527

दन्तान्तरस्य मध्ये तु प्रतिमानस्य चोपरि ॥
फे¹त्कारं नाम तन्मर्म सद्यः प्राणहरं नृप ॥ १२ ॥
वातकुम्भस्य चाधस्तात्प्रतिमानस्य चोपरि ॥
तालुश्रो(स्रो)तोवहं मर्म भिन्ने तस्मिन्न जीवति ॥ १३ ॥
अथोपरिष्टाद्ग्रीवायाः कूर्²मसंधिसमाश्रिताम् ॥
मर्म वायसतुण्डं तु विद्धस्तस्मिन्न जीवति ॥ १४ ॥
ग्रीवासंधिमनुप्राप्तमधो मस्तकपिण्डयोः ॥
मध्ये पणवकं नाम मर्म प्राणहरं स्मृतम् ॥ १५ ॥
वारणस्य गु³हाभागे मर्म संधिसमाश्रितम् ॥
धमन्‍याध्मापनं नाम सद्यः प्राणहरं नृप ॥ १६ ॥
गु⁴हाभागेऽपरमपि यतस्थानं समाश्रितम् ॥
मर्म तस्मिन्क्षते नागः पाकलेन विपद्यते ॥ १७ ॥
गुहाभागेऽपि मध्ये तु कूर्⁵मसंधिसमाश्रितम् ॥
मर्म तस्मिन्क्षते नागः स्तब्धग्रीवो भवेन्नृप ॥ १८ ॥
शङ्खसंधिगतं यत्तदुपवाहिसमाश्रितम् ॥
मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्विपुज्यते ॥ १९ ॥
मन्ययोर्मध्यतश्चै⁶कं गलसंधिसमाश्रितम् ॥
मर्म तन्निर्गलं नाम सद्यः प्राणैर्वियोजयेत् ॥ २० ॥
उपरिष्टादुरोर्मन्*या गलभागस्य चाप्यधः ॥
हिक्कामर्मेति तद्विद्धात्सद्यः प्राणहरं हि तत् ॥ २१ ॥
संधिमध्ये तु नागस्य उरोमणिसमाश्रितम् ॥
तस्मिन्क्षिते द्विपं क्षिप्रं वातस्कन्दो विनाशयेत् ॥ २२ ॥
उरोमणेर्मध्यतस्तु मणिर्नाम प्रतिष्ठितम् ॥
मर्म तद्⁷दारुणं विद्धात्सद्यः प्राणहरं नृप ॥ २३ ॥
चतुरस्रं च मध्ये तु यत्राऽऽवर्तः प्रदृश्यते ॥
आवर्तं नाम तन्मर्म सद्यः प्राणहरं स्मृतम् ॥ २४ ॥
अथोपरिष्टात्कायस्य प्रवक्ष्यामि महीपते ॥
आसनस्य तु पार्श्वे तु वंशानागस्य संश्रितम् ॥ २५ ॥

  • 'मन्या' इति भवेत् ।
    १ क. फत्कारं । २ क. कर्णसं० । ३ क. ॰स्य गूहा० । ४ क. गूहाभागे ।
    ५ क. कर्णसं० । ६ क. ॰तश्छिङ्कं ग० । ७ ख. ॰द्धारणं ।