सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

३४६ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
गात्रं तस्य समुत्पत्तिर्निदानं च प्रवक्ष्यते ।
कर्दमं वालुकां चापि सेवते यदि वारणः ॥
गात्रान्तरश्च सहसा यदा तु परिणीयते ।
भौमकर्मणि वा राजन्गुरुवंछादिसंयुतम् ॥
यदाऽपनीतः सहसा वारणः परिणीयते ।
अतिमात्रं निबद्धं वा यातारः कर्मणे यदि ॥
नियोजयन्ति सहसा मिथ्यायोगादयं(?) हितम् ।
तस्य कुप्यति गात्रेषु मारुतः संनिरोधनात् ॥
आवेष्टयते ततो गात्रं ततो निर्वेष्टयतेऽपि वा ।
सेचनं घृततैलाभ्यां सततं तस्य कारयेत् ॥
(※नाडीस्वेदश्च कर्तव्यः कल्पेनेतेन दन्तिनः ।
तुलसीं सुरसां बिल्वमर्कमारग्वधं तथा ॥
श्योनाकं चाग्निमन्थं च स्थाल्यामाधाय पाचयेत् । )
नाडीस्वेदं ततः कुर्यात्तैलाभ्यक्तस्य दन्तिनः ॥
निर्भुग्नस्य च कर्तव्यं(:)प्रलेपं(:)तस्य हस्तिनः ।
निर्वेष्टितस्य कर्तव्यं सम्यगावेष्टनं भवेत् ॥
निर्वेष्टयेत्तथाऽप्येनमनेन विधिना भिषक् ।
अभ्यक्तं स्वेदयेत्स्विन्ने सम्यगालेपयेद्भिषक् ॥
प्रलिप्तं वेष्टये....यदु(द्वे)ष्टितवेष्टितम् ।
.... .... .... .... .... .... .... लङ्घयेत् ॥
न चेत्प्रकृतिमाप्नोति तथोत्तरमथाऽऽचरेत् ।
ईमं कृत्स्नं विधिं कुर्याद्येन लाघवमाप्नुयात् ॥
यथा च स्विन्नगात्रस्य स्नेहपीतस्य दन्तिनः ।
यत्नेऽवस्थाप्य कुर्याच्च तस्य गात्रोपवेष्टनम् ॥
ततस्तं पलिहस्तस्य मध्ये यत्नेन वेष्टयेत् ।
यथायोगं ततः कुर्यात्तेन यन्त्रेण वारणम् ॥
सर्पिस्तैलं वसां चैव तं द्विपं प्रति पाययेत् ।

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ॥
    १ क. मिथ्योयोगादयं हि सः । त° । २ ख. अमक्तं । ३ क. न चात्रपेत् ।
    ४ ख. इदं ।

७३ गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३४७
स्निग्धं विर(रि)क्तं विज्ञाय बृंहणीगैरुपचरेत् ॥
सहसा वाऽपि पतनाद्ध्यावनात्प्रतिहस्तिनाम् ।
यदा संभिद्यते गात्रं भिद्यते मभ्वेतिपि (?) ।
वामाङ्कू(?)मोंटना ॰॰॰॰ ॰॰॰॰ व्याधिर्नराधिप ॥
वेदना श्वयथुः स्तम्भो गात्रे तीव्रा च वेदना ।
तस्य वक्ष्याम्यशेषेण निखिलं भेषजं विधिम् ॥
भग्नमात्रस्य यत्प्रोक्तं साधनं भक्तसंविधौ ।
तत्कार्यं मोटनस्यापि व्रणवच्च समाचरेत् ॥
अथ वोन्मथितं गात्रमपरा वाऽपि लक्ष्यते ।
तस्योत्पत्तिर्निदानं च चिकित्सा च प्रवक्ष्यते ॥
सहसा वा प्रैसक्तौ वा यदा वाँह्येत वारणः ।
गात्रापरं भ्रामयति सहसा विषमस्थितः ॥
कर्दमे वालुकायां वा संरब्धो वा न सीदति ।
तरतो वा प्रसङ्गेन सलिलेऽत्यर्थयोगतः ॥
अथवा गुरुसंरब्धः सहसा परिधावति ।
वृक्षप्राकारपरिधान्सहसा वा प्रमर्द्दतः ॥
ततोऽस्य कुपितो वायू रक्तमादाय तिष्ठति ।
करोति गतिवैकल्यं चरणस्तम्भमेव च ॥
श्वयथुं तस्य गात्रेषु मनस्तापं च दन्तिनः ।
इत्येतद्द्विविधं प्रोक्तं लिङ्गमुन्मथितस्य च ॥
सर्पिषा सेचनं तस्य सततं कारयेद्भिषक् ।
प्रलेपं शीतलं तस्य क्षीरवृक्षैः समाचरेत् ॥
वेतसस्य च मूलानि वटस्याथ नलस्य च ।
कसेरुकं समञ्जिष्ठं नलदं तर्पणं तथा ॥
श्लक्ष्णपिष्टैः समैरेभिः प्रलेपं तस्य कारयेत् ।
त्रिरात्रं पञ्चरात्रं वा ततः संपद्यते सुखी ॥
—:०:—
१ क. °वत्यिपि । २ क. °टनां व्याधियदा वाऽपि नरा° । ३ क. प्रसक्तो ।
४ क. वाहेत । ५ क. °रिवान्स° ।

३४८ · पालकाप्यमुनिविरचितो- [ १ क्षुद्ररोगस्थाने-
अजाक्षीरं वसां मज्जां घृतेन सह संसृजेत् ।
ततोऽस्य सेचयेद्गात्रमनेन विधिना भिषक् ॥
मूलान्युत्पलजम्बूनां करवीरोत्पलानि च ।
सघृतं मृत्तिकामिश्रं प्रलेपं तस्य कारयेत् ॥
शीतेनानेन कल्केन विहितं चानुलेपनम् ।
यावदूष्मप्रशमनं श्वयथोश्च निवर्तनम् ।
स्वेदनं मर्दनं चैव प्रथमं यत्तु कीर्तितम् ॥
स्तब्धगात्रे हि तदपि निरूष्मण्युपपादयेत् ।
विविक्तं सततं स्थानं व्यायामं च विसर्जयेत् ॥
सर्पिः क्षीरं च पानार्थे यथोक्तं च प्रलेपने ।
─:०:─
सहसा दन्तिनोऽङ्गेषु यदा कुप्यति मारुतः ॥
ततः पित्तादयो दोषा दुष्यन्ति पवनाहताः ।
स्वस्थस्याप्य तु गात्रेषु श्वयथुं जनयन्ति ते ॥
समागच्छति चैतेन विषमं वाऽपि वर्धते ।
न सुखं लभते स्थाने न शय्यामभिनन्दति ॥
तमाहुर्वारणं वैद्याः शूनमेकाङ्गशोषिणम् ।
ग्रासद्वेषो दौर्मनस्यं सस्त(?)श्रवणवालधोः ॥
दन्तिनो मक्षिकाश्चैव पूर्वरूपाणि मृत्यवे ।
विपर्यये तु लिङ्गानां भवेत्साध्यस्य लक्षणम् ॥
श्लीपदान्यपि जायन्ते घोररूपाणि दन्तिनाम् ।
तस्य दोषविशेषं तु परीक्ष्य मतिमान्भिषक् ॥
यथोक्तमेव कुर्वीत पूर्वप्रोक्तमुपक्रमम् ।
─:०:─
*भ्रष्टगात्रस्य विज्ञानं चिकित्सा च प्रवक्ष्यते ॥
यदा क्षितोपविद्धो वा पाशबद्धोऽपि वा गजः ।
श्वभ्रे क्षुपपथे वा सहसा च प्रधावति ॥
हस्तिना वाऽप्यभिहतस्तोत्रवित्रासितोऽपि वा ।
आक्षेपाज्जायते तस्य श्वयथुर्वातरक्तजः ॥
───────────────────────────

  • इतः प्रागपृष्ठच्छिन्नस्य लक्षणादि त्रुटितमिति प्रतिभाति ।
    १ क. प्रलेपनम् । २ ख. °शोकिण° । ३ ख. °भू ॥ श्रीप° । ४ ख. क्षिताप° ।

७२ गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । ३४९
वेदना गतिवैकल्यं दौर्बल्यं परिमूत्रता ।
गात्रविक्षोभणाद्वाऽपि स्तम्भस्तस्योपजायते ॥
तस्य सर्वाणि गात्राणि सर्पिषा परिषेचयेत् ।
स्निग्धगात्रस्य च †भवेत्सुखं सर्वार्थदेहजम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गात्र-
रोगो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
इति द्वितीयं क्षुद्ररोगस्थानं समाप्तम् ॥
† खपुस्तके तु 'भवे' इत्युत्तरमेव 'इतिश्री'—इति स्थानसमाप्तिलेख उपलभ्यते ।
कपुस्तके तु 'सुखं सर्वार्थदेहजम्' इत्युत्तरम् । पुस्तकद्वयेऽप्यध्यायसमाप्तिलेखो नोप-
लभ्यते । अतः प्रतिभाति—'कियान्ग्रन्थभागस्त्रुटितः' इति ॥

३५० पालकाप्यमुनिविरचितो— [३ शल्यस्थाने—
अथातस्तृतीयं शल्यस्थानमारभ्यते।
'अथातो द्विव्रणीयमध्यायं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पा-
लकाप्यः ॥
तपोभिर्विपुलैः पूतमृषिं वारणबान्धवम् ॥
बान्धवो विदुषामङ्ग इमं प्रश्नमचोदयत् ॥ १ ॥
योनिर्वस्त्वन्यधिष्ठानं मर्म शल्यसमुद्भवम् ॥
श्रा(स्रा)वास्त्वाकृतयश्चैव व्रणानां कतिलक्षणाः ॥ २ ॥
व्रणानां सिद्धिजननाः कति चैषामुपक्रमाः ॥
शास्त्रतः कति बोध्यन्ते व्रणोपक्रमयोनयः ॥ ३ ॥
विसर्पन्ति च केनैषां प्रायसो(शो) दन्तिनां व्रणाः ॥
बद्धकोशाश्च जायन्ते स्वल्पमप्यनि(न)धिष्ठिताः ॥ ४ ॥
ये चैषां दुरधिष्ठाना व्रणास्ते केन हेतुना ॥
अचिराच्चोपरोहन्ति दुष्यन्ति च पुनः पुनः ॥ ५ ॥
केन चैषां न जायन्ते वने दोषोद्भवा व्रणाः ॥
रोहन्ति च विना वैद्यैः केन वै हेतुना द्विज ॥ ६ ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
अङ्गराजाय निखिलं विधिं व्रणविधानजम् ॥ ७ ॥
व्रणस्य त्रिविधा योनिरात्मा च त्रिविधः स्मृतः ॥
वस्तून्यष्टावधिष्ठानं द्विविधं शास्त्रनिश्चयात् ॥ ८ ॥
द्विविधा चाऽऽकृतिर्योनिः श्रा(स्रा)वश्च द्विविधः स्मृतः ॥
शल्यं च द्विविधं ज्ञेयं त्रिविधश्चाप्युपक्रमः ॥ ९ ॥
तस्य च त्रिविधा ज्ञेया ‘योनिः शास्त्रविनिश्चयात् ॥
पञ्चैव पठिता राजन्व्रणोपक्रमयोनयः ॥ १० ॥
दुःखाधिष्ठान्तरा राजन्संरूपया न(*व हस्तिनः ॥
इत्युद्दिष्टः समुद्देशस्तत्प्रविस्तर लक्षणम् ॥ ११ ॥
* धनुश्चिह्नान्तर्गतो भ्रष्टः पाठः कपुस्तके।
१ ख. ॰यं स्या॰। २ क. ॰पुलैरमृत॰। ३ क. ॰मवोचय॰। ४ क. सिद्धजनकाः।
५ क. रुहन्ति । ६ क. त्रिविधं ।

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३५१
व्रणस्य त्रिविधा योनिर्यस्यां वै जायते व्रणः ॥
उद्गमो †वैकृतं दाहस्तस्यापि त्रिविधः स्मृतः ॥ १२ ॥
तत्रास्य उद्गमो ज्ञेयो द्विविधः शास्त्रनिश्चयात् ॥
देहे दोषसमुत्थश्च यश्च यादृच्छिको भवेत् ॥ १३ ॥
तत्र वातात्कफात्पित्तान्मेदसः शोणितादपि ॥
उद्गमः संनिपाताच्च जायते दोषसंभवः ॥ १४ ॥
यादृच्छिकोऽपि विज्ञेयः स्व(श्व)पथुर्विविधात्मकः ॥
विषाणां चापि संसर्गाद्द्रव्यैश्चैवाभिघाततः ॥ १५ ॥
श्वयथोर्वेदना वातात्पित्तात्पाकः कफाद्रुतिः ॥
यस्तत्र बलवान्दोषस्तेन तस्य तदात्मता ॥ १६ ॥
अल्पो वृत्तस्तु कठिनो ग्रन्थिरित्यभिधीयते ॥
पृथुर्यो दीर्घः शोफः स्याद्विद्रधिर्गजकुम्भवत् ॥ १७ ॥
❊विकृतानामियं योनिस्तद्विधानं प्रच(व)क्ष्यते ॥
घृष्टं दष्टं क्षतं चैव तस्या भवति लक्षणम् ॥ १८ ॥
तत्र रज्ज्वादिभिर्घृष्टं दष्टं चाऽऽशीविषादिभिः ॥
गजव्रणकरैर्भावैस्तीक्ष्णैर्वैक्षतमुच्यते ॥ १९ ॥
छेदनं व्यधनं चैव द्रव्यैर्नानाविधात्मकैः ॥
अवकृत्तावसृष्टे च पृथगेतच्चतुर्विधम् ॥ २० ॥
ततस्तस्य भवेच्छिन्नं विभागात्पञ्चलक्षणम् ॥
छिन्नं विच्छिन्नमुत्सृष्टमवकृष्टं स (च) दारितम् ॥ २१ ॥
तत्र च्छिन्नमिति ज्ञेयं सर्वशोऽङ्गापवर्तनम् ॥
प्रहारसंनिपातस्तु विच्छिन्नमिति कीर्त्यते ॥ २२ ॥
कर्णलाङ्गूलहस्तानां द्विधाभावस्तु दारितम् ॥
अवकृष्टं तु विज्ञेयमधः †स्थात्वस्थिमांसगम् ॥ २३ ॥
एतदेव विपर्यस्तमुत्कृष्टमिति कीर्त्यते ॥
इति पञ्चविधं छिन्नं विभागात्संप्रकीर्तितम् ॥ २४ ॥
विद्धस्यापि तु विज्ञेयः प्रविभागश्चतुर्विधः ॥
निविद्धमनिर्विद्धं च विद्धमुत्तुण्डितं च यत् ॥ २५ ॥
† ‘वैक्षतं, विक्षतं वा स्यादग्रिमग्रन्थानुसारात् । * ‘विक्षतानाम्’ इति भवेत्,
अग्रिमपाठानुसारात् । † ‘स्नाव्यस्थिमांसगम्’ इति स्यात् ।

३६२ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
तत्र मांसार्पितशरं विद्धमित्युपदिश्यते ॥
छिन्द्यात्तु परतो देशे शरेणोत्तुण्डितं भवेत् ॥ २६ ॥
सर्वतो निःसृतशरं निर्विद्धमिति कीर्त्यते ॥
अनिर्विद्धं तु विज्ञेयं किंचिन्निःसृतसायकम् ॥ २७ ॥
†अवकृत्तं तु विज्ञेयं त्रिविधं शास्त्रनिश्चयात् ॥
विरक्तमविरूढं च तथा स्यादवपाटितम् ॥ २८ ॥
तत्र त्वचि विरक्तं स्यात्सर्मासमवपाटितम् ॥
अवगाढं तु विज्ञेयं भृशमस्थि यदाश्रितम् ॥ २९ ॥
क्लिष्टान्नमवच्छिन्नान्त्रमस्रुतं द्विधा भवेत् ॥
तस्य वक्ष्यामि राजेन्द्र शास्त्रज्ञानेन लक्षणम् ॥ ३० ॥
दौर्मनस्योदराटोपौ सशोणितपुरीषता ॥
मन्दग्रासाभिलाषश्च शोणितस्य च मेहनम् ॥ ३१ ॥
एतद्भवति विज्ञानं छिन्नान्त्रस्येह दन्तिनः ॥
तदेवंलक्षणं नागं प्रत्याचक्षीत शास्त्रवित् ॥ ३२ ॥
अपाटिते त(तान्त्र)मेव स्याच्छूलश्चैव सवेपथुः ॥
छिन्नावपाटिताभ्यां तु यत्तद्भिन्ने'''' '''' ॥ ३३ ॥
भवेज्ज्वरस्त्रि(स्तृ)षा मूर्छा हिक्का श्वासश्च दारुणः ॥
नाभ्याटोपो दौर्मनस्यं सशोणितपुरीषता ॥ ३४ ॥
नातिवातानुलोम्यं च क्लिष्टान्त्रस्येह लक्षणम् ॥
कृच्छ्रसाध्यो भवत्येष बलवान्ग्रासवांश्च यः ॥ ३५ ॥
अन्नघातो भवत्येष साध्यासाध्यश्चतुर्विधः ॥
इति विक्षतजा योनिर्ब्रणानां संप्रकीर्तिता ॥ ३६ ॥
इयं दाहात्मिका योनिस्तृतीया संप्रच(व)क्ष्यते ॥
तत्राग्न्यादित्यकुविषैरोषधैर्विद्युताऽपि वा ॥ ३७ ॥
उत्पत्तिर्या व्रणस्य स्यात्सा योनिर्दाहसंभवा ॥
अज्वाल(लो) ज्वालसंयुक्तस्तत्राग्नि(ने)र्द्विविधो व्रणः ॥ ३८ ॥
, विद्युद्दारिहतश्चोक्तः सूर्यदाह कृते[■]णः ॥
शेषैर्यथास्वं जायन्ते दाहैर्व्रणकरैर्व्रणाः ॥ ३९ ॥

† 'अवकृत्तम्' इति तु प्राक्स्थितम् ।

१ क. ॰ष्टान्तस्ये॑ । २ क. ॰द्युतोऽपि ।

द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः ।१ ३५३
इति दाहात्मिका योनिरशेषेण प्रकीर्तिता ॥
इति व्रणानां निर्दिष्टा योनित्रिविधलक्षणा ॥ ४० ॥
—:०:—
अत ऊर्ध्वमधिष्ठानं प्रवक्ष्याम्यष्टलक्षणम् ॥
त्वङ्मांसस्नायुधमनीशिरामज्जास्थिसंधयः ॥ ४१ ॥
अधिष्ठानानि जानीयाद्व्रणानां शास्त्रनिश्चयात् ॥
एतेषां व्रणवस्तूनामष्टनामपि लक्षणम् ॥ ४२ ॥
यैः श्रा(स्रा)वैर्धज्यते ज्ञानं तान्वक्ष्याम्यनुपूर्वशः ॥
स्रावस्तु द्विविधो ज्ञेयः शुद्धो दुष्टश्च भूमिप ॥ ४३ ॥
तत्र दोषान्वितो दुष्टः शुद्धो दोषविवर्जितः ॥
स तु वस्तुविशेषेण चतुर्विंशतिलक्षणः ॥ ४४ ॥
पैच्यते तस्य वक्ष्यामि विज्ञानं शास्त्रनिश्चयात् ॥
शुक्लः कृष्णोऽथ हारिद्रः श्यामो माञ्जिष्ठ एव च ॥ ४५ ॥
कषायस्तैलसंकाशो घृताभः फेनसंनिभः ॥
पूयविण्मूत्रमस्तिष्कक्षारशुक्रवसाजलैः ॥ ४६ ॥
मांसधावनयूषाभो यवनिष्क्वाथसंनिभः ॥
तिलकल्कसुरामज्जमेदोवर्णोऽथ पिच्छिलः ॥ ४७ ॥
चतुर्विंशतिरित्यक्ताः स्रावा विविधलक्षणाः ॥
पिच्छिलो विशदो वाऽपि स्रावः स्वच्छः प्रवर्तते ॥ ४८ ॥
व्रणाद्येस्मात्स विज्ञेयो दन्तिनां त्वग्गतो व्रणः ॥
मांसधावनयूषाभः स्रावो मांसगतो भवेत् ॥ ४९ ॥
मञ्जिष्ठास्रक्कषायाणां स्रावस्तुत्यः सिराश्रयात् ॥
यवनिष्क्वाथसदृशः स्रावः स्नाय्वाश्रिताद्व्रणात् ॥ ५० ॥
शुक्लाभः पिच्छिलोऽल्पश्च भवेत्संधिगताद्व्रणात् ॥
धमनीभ्यः प्रस्रवति जलफेनसमप्रभः ॥ ५१ ॥
तुषारहारिद्रनिभः स्रावः स्यादस्थिजाद्व्रणात् ॥
तिलकल्कप्रस[न्न]स्तैलाभो वा सचन्द्रकः ॥ ५२ ॥
मज्जामिश्रः स्रवेच्चापि व्रणान्मज्जसमाश्रयात् ॥
मर्मणो यस्य यत्स्थानं स्रावस्तत्र तदात्मकः ॥ ५३ ॥
१ क. तु दोषवि० । २ क. पच्यते । ३ क. ०ष्कक्षीर० । ४ क. ०मज्जामे० ।
५ ख. ०द्यस्य स वि० । ६ क. ०ख्वाश्रयाद्व्र० । ७ क. ०रिद्रानलः स्रा० ।
४५

३६४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
स्यात्तु वेदनया युक्तो विशेषान्मर्मजो व्रणः ॥
स्रोतांसि यानि यान्भावान्प्रस्रवन्तीह दन्तिनाम् ॥ ५४ ॥
तेषु व्रणविभिन्नेषु स एव स्रवति स्रवः ॥
द्विविधं स्यादधिष्ठानं व्रणानां प्रविभागशः ॥ ५५ ॥
विज्ञेयं दुरधिष्ठानं स्वा(स्व)धिष्ठानं तथैव च ॥
तत्र तावत्प्रवक्ष्यामि दुःखाधिष्ठानमादितः ॥ ५६ ॥
हंस्ते मर्मसु कोष्ठे च धमनीष्वथ संधिषु ॥
सिरास्नाय्वस्थिषु तथा दुरधिष्ठानजा व्रणाः ॥ ५७ ॥
स्वधिष्ठानास्तु शेषेषु विज्ञेया वस्तुषु व्रणाः ॥
दुःखाधिष्ठानहेतूंश्च प्रवक्ष्याम्यत उत्तरम् ॥ ५८ ॥
तत्रोपद्रवबाहुल्याद्दुःखो मर्माश्रितो व्रणः ॥
सतताभ्यवहारेण दुःखः स्याद्धमनीव्रणः ॥ ५९ ॥
असृक्स्रुतेः शिराजस्तु चलनात्संधिदेशजः ॥
स्वकर्मविक्रियाभावाद्दुःखः स्याद्धस्तजो व्रणः ॥ ६० ॥
स्नायुजालाकुलभयाद्दुःखः स्नाय्वाश्रयो व्रणः ॥
कोष्ठजो दुश्चिकित्स्यः स्यात्समानानलदूषणात् ॥ ६१ ॥
अस्थिजः स्नेहमांसाभ्यां रहितो नोपरोहति ॥
मज्जातिस्रवणाद्दुःखो भवेन्मज्जाश्रयो व्रणः ॥ ६२ ॥
व्रणस्य त्रिविधस्त्वात्मा शास्त्रतः संप्रवक्ष्यते ॥
सुचिकित्स्योऽचिकित्स्यश्च दुश्चिकित्स्यश्च लक्षणैः ॥ ६३ ॥
तत्र पद्मपलाशामः स्वाक्रांतैर्लजगन्धिकः ॥ •
सुचिकित्स्यः स्वधिष्ठानो व्रणोपद्रववर्जितः ॥ ६४ ॥
यस्तु वातादिभिर्दोषैर्दुषितः कठिनो महान् ॥
स शल्यविषकोशाग्निसंस्थानः स्थानदोषवान् ॥ ६५ ॥
अतिस्थूलं कृशं वाऽपि यो गजं समुपाश्रितः ॥
परुषः कठिनः कृष्णो दुश्चिकित्स्यः स उच्यते ॥ ६६ ॥
दुश्चिकित्सितरूपस्य यो लिङ्गैरन्वितो व्रणः ॥
अनिष्टैश्चाप्रशस्तैश्च गन्धैर्यरश्च समन्वितः ॥ ६७ ॥
१ क. °सि योनिजान्भा° । २ ख. हस्तम° । ३ क. ॰ष्ठेषु ध° । ४ क.
भवेत् । ५ क. °जः स्नायुमां° । ६ क. °प्रचक्षते । ७ क. °तिर्वाज° । ८ क.
॰न् । शल्यविषमको° ।

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३५६
बालार्केन्द्रधनुर्वर्णः शिखिकण्ठनिभोऽपि वा ॥
व्रणो यः सोऽचिकित्स्यः स्यात्क्षमेद्यत्र न च क्रिया ॥ ६८ ॥
व्रणे शल्यं तु विज्ञेयं द्विविधं शास्त्रनिश्चयात् ॥
शारीरं चैव बाह्यं च तस्य वक्ष्यामि लक्षणम् ॥ ६९ ॥
तृणकाष्ठायसादीनि बाह्यं शल्यं व्रणाश्रयम् ॥
शारीरं त्वस्थिपूयासृङ्मांसस्नायुशिराश्रयम् ॥ ७० ॥
दोषो योता भिषकैव यदृच्छा च मतङ्गजः ॥
पञ्चैव पठिता राजन्व्रणोपद्रवयोनयः ॥ ७१ ॥
तत्र तावत्प्रवक्ष्यामि प्रथमं क्रमयुक्तितः ॥
गन्धवर्णस्रावाकारैर्वातादिभिरुपद्रुतान् ॥ ७२ ॥
तत्र विण्मूत्रबस्तीनां सगन्धः परुषः कृशः ॥
प्रभूतकृष्णश्चा(स्रा)वश्च स्याद्व्रणः पवनातुरः ॥ ७३ ॥
शुकहारिद्रकाचाभः शिखिकण्ठप्रभोऽपि वा ।
व्रणस्तद्वर्णनिस्रावः सदोष्णश्चैव यो भवेत् ॥ ७४ ॥
कषायो गैरिकनिभः प्रस्रावो यः सवेदनः ॥
तिक्ताम्लकुणपैर्गन्धैर्युक्तः पित्तातुरो भवेत् ॥ ७५ ॥
सू(शू)नः स्तब्धो गुरुः शीतः सुप्तोऽन्तःपिटकान्वितः ॥
यश्चाम्बुपिच्छिलस्रावी पूयं वा यः परिस्रवेत् ॥ ७६ ॥
दूयते बहलोष्णश्च कण्डूमान्सपरिग्रहः ॥
कपोतपाण्डुवर्णाभो यश्च स्यात्तुल्यगन्धिकः ॥ ७७ ॥
विपन्नमत्स्यमांसानां स कफेनाऽऽतुरो व्रणः ॥
कुलत्थवर्णं रक्तं वा यः स्रवेद्बहुवेदनः ॥ ७८ ॥
दूयते दह्यते चैव प्रस्रवेद्गैरिकोपमम् ॥
रक्ताभं संस्रवेत्क्षिप्तं स्याद्व्रणः शोणितातुरः ॥ ७९ ॥
दोषाणां दोषयोर्वाऽपि यथास्वं दोषलक्षणैः ॥
विज्ञेयः संनिपातेन दन्तिनां दूषितो व्रणः ॥ ८० ॥
शुक्लः शीतो मृदुश्चैव वसामज्जापरिस्रवः ॥
पक्षिनीडसुगन्धिश्च स्याद्व्रणो मेदसाऽऽतुरः ॥ ८१ ॥
१ क. ॰स्यात्क्रमेद्यत्र च विक्रियाम् ॥ त्र° । २ क. याति । ३ ख. ॰पमः ॥
। ४ क. शान्तो ।

इति वातादिभिर्दुष्टः षड्विधः कीर्तितो व्रणः ॥
व्रणदोषान्प्रवक्ष्यामि यातृदोषकृतानथ ॥ ८२ ॥
यदा युनक्ति मातङ्गं याता कर्मण्यमात्रया ॥
तस्य यातुरविज्ञानाद्व्यायामादीर्यते व्रणः ॥ ८३ ॥
व्रणदोषास्तु वक्ष्यन्ते हस्तिवैद्यापराधजाः ॥
अयथावत्प्रयुक्तैश्च शस्त्राग्निक्षारभेषजैः ॥ ८४ ॥
अज्ञानाद्वा प्रमादाद्वा व्रणे वैद्योऽपराध्यति ॥
कामक्रोधभयाद्वाऽपि वारणोऽप्यपराध्यति ॥ ८५ ॥
ततः प्रकुरुते दोषान्व्रणेष्वान्मापराधजान् ॥
अथ दोषान्प्रवक्ष्यामि यातृदोषकृतांस्तथा ॥ ८६ ॥
यदा तुहिम(न)या नौगं पाता कर्मण्यमात्रया ॥
यस्य यातुरविज्ञानाद्व्यायामादीर्यते व्रणम् ॥ ८७ ॥
दोषवैद्यमहामात्रैरातुरेण च वर्जितः ॥
यहच्छयोपपन्नैस्तु दोषैर्यादृच्छिको व्रणः ॥ ८८ ॥
वृत्ता च चतुरस्रा च द्विविधा योनिरकृतेः ॥
व्रणानां शस्त्रनिर्दिष्टा विज्ञेया स्यात्समासतः ॥ ८९ ॥
सा च गात्रप्रदेशानां शस्त्राणां च विभक्तितः ॥
प्रहर्तॄणां च वैशेष्याद्विशेषाल्लभते बहून् ॥ ९० ॥
यथा रोगा न जायन्ते वनेषु वनचारिणाम् ॥
वनानुचरिताध्याये तदस्माभिः प्रकीर्तितम् ॥ ९१ ॥
निसर्गात्सात्म्यतः पीते जले पांथुप्रमोथतः ॥
विना वैद्यैः प्ररोहन्ति द्विरदानां वने व्रणाः ॥ ९२ ॥
शुषिरं मृदु चैतेषां मांसं मेदःसमन्वितम् ॥
तेनैषामीषदृन्मृष्टा व्रणाः सर्पन्ति सेर्वतः ॥ ९३ ॥
कोशवन्तश्च जायन्ते प्रायसो(शो)दन्तिनां व्रणाः ॥
स पुनर्वक्ष्यते हेतुर्दन्तनाडीचिकित्सिते ॥ ९४ ॥
—:o:—
शुद्धश्चैवाऽप्यशुद्धश्च संरूढश्चैव सर्वतः ॥
त्रिविधस्तु व्रणो ज्ञेयो विकृतोद्गमदाहजः ॥ ९५ ॥


१ क. अथ याव० । २ क. नागमापातात्कर्ममा० । ३ ख. व्रणः । ४ क.
०र्गात्सितः पीतज० । ५ क. ०मादतः । ६ क. सर्वशः

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६७
तत्र जिह्वातलसमः पद्माभो लाजगन्धिकः ॥
व्रणः शुद्धोऽभिविज्ञेयो व्रणोपद्रववर्जितः ॥ ९६ ॥
व्रणस्त्वशुद्धो विज्ञेयो यः शुद्धस्य गुणोदयैः ॥
गन्धवर्णश्र(स्र)वाकारैर्विपरीतैः समन्वितः ॥ ९७ ॥
व्यायामं चातिमांसं च यः सर्वं सहते व्रणः ॥
रोहमाणं भिषग्विद्यान्नीरुजं निरुपद्रवम् ॥ ९८ ॥
ईषत्सञ्जातरोमाश्चत्वक्सवर्णश्च यो भवेत् ॥
एतच्छास्त्रविनिर्दिष्टं संरूढस्य हि लक्षणम् ॥ ९९ ॥
─:०:─
व्रणस्योपक्रमो ज्ञेयस्त्रिविधस्त्रिविधात्मनः ॥
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १०० ॥
तत्राशुद्धो भवेत्साध्यः शुद्धे रोपणमिष्यते ॥
संरूढस्याथ कर्तव्या सवर्णकरणक्रिया ॥ १ ॥
─:०:─
उपक्रमस्यापि भवेद्योनिस्त्रिविधलक्षणा ॥
आयसी चौषधी चैव या च निर्वापणाश्रया ॥ २ ॥
आयसी स्विह या योनिः प्रथमा संप्रकीर्त्यते ॥
शस्त्रयन्त्रैषणीसूच्यस्तस्या भेदश्चतुर्विधः ॥ ३ ॥
तत्र च्छेद्यं च भेद्यं च लेख्यं विस्राव्यमेव च ॥
दालनं चैव विज्ञेयं कर्म शस्त्रस्य पञ्चधा ॥ ४ ॥
एषण्याऽन्वेषणं कर्म व्रणावस्थाविकल्पितम् ॥
याः सूच्यस्त्रिविधाः प्रोक्ताः शस्त्राध्याये तु संस्थिताः ॥ १०५ ॥
नागदन्ताकृतिर्वृत्ता त्रिकोणा चेति निश्चयात् ॥
अस्थ्याश्रितं नागदन्त्या मांसजं च त्रिकोणया ॥ ६ ॥
त्वक्स्नायुधमनीस्थं च शिराजं चैव वृत्तया ॥
आहार्यं सर्वयन्त्राणां सूच्या सीवनमिष्यते ॥ ७ ॥
सूत्रस्नायुशणद्रव्यैरेभिः संसीवनं भवेत् ॥
वृद्धिपत्रेण नागानां कुर्याच्छेदनभेदने ॥ ८ ॥
लेखनं मण्डलाग्रेण कर्तव्यं दन्तिनां भवेत् ॥
श्र(स्र)वणं पाटनं चैव कुर्याद्वीहिमुखेन तु ॥ ९ ॥
१ क. ॰पद्मभासो॰ । २ क. ॰वेच्छोध्यः। ३ क. तु ॥ अस्थिषु॰

३५६ पालकाप्यमुनिविरचितो- [ १ शल्यस्थाने-
स्थिरा मृद्वी च कर्तव्या व्रणानामेषणी भवेत् ॥
वृत्ता गण्डूपदमुखी प्रमाणे त्रिंशदङ्गुली ॥ ११० ॥
सुवर्णरूप्यताम्राणामायसी शृङ्गजाऽपि वा ॥
दन्तास्थिवेणुदारूणामेषणी दारुणा भवेत् ॥ ११ ॥
एते त्वष्टाविह ज्ञेया व्रणस्योपक्रमाः पृथक् ॥
आयसीं संसृ(श्रि)ता योनिं शृणु चैषामुपक्रमम् ॥ १२ ॥
यो न गच्छेत्प्रशमनं स्व(श्व)यथुः प्रविलापनैः ॥
तस्य विश्रा(स्रा)वणं कार्यं भवेत्पक्वस्य भेदनम् ॥ १३ ॥
दालनं विषमे पाके बहुलौष्ठस्य लेखनम् ॥
उद्रमस्य कटस्थस्य सर्वैत्राऽऽच्छेदनं हितम् ॥ १४ ॥
यथायोगं तु कर्तव्यं गतेरन्वेषणं व्रणे ॥
द्विविधस्य तु शल्यस्य यन्त्रैराहरणं भवेत् ॥ ११५ ॥
सूच्या संसीवनं कार्यं तत्र भागेषु दन्तिनाम् ॥
दारितानां व्रणकरैः सद्यः सरुधिरे व्रणे ॥ १६ ॥
शस्त्रं सुतिर्यगूर्ध्वं वा भिषगस्थिगतं तथा ॥
सिरामर्माभिघाताद्वा प्रमादान्निपातयेत् ॥ १७ ॥
यस्तु यन्त्रशरैर्वाऽपि दन्तैर्वा प्रतिहस्तिनाम् ॥
स्याद्व्रणश्छिद्रपिशितो मर्म वा किंचिदाश्रितः ॥ १८ ॥
तस्मात्प्रच्छन्नपिशिते कार्यं कार्यवशाद्भवेत् ॥
उन्मार्गच्छेदनं वैवैर्मर्मसंरक्षणाद्व्रणे ॥ १९ ॥
इत्येते शास्त्रनिर्दिष्टा व्रणसिद्धावुपक्रमाः ॥
—:०:—
आयसीप्रभवा राजन्कार्या नानाविधात्मकाः ॥ १२०॥
शस्त्रकर्मणि नियुक्ते बलिहोममयी क्रिया ॥
व्रणशान्तिर्भवेत्कार्या यथोक्ता यज्ञकर्मणि ॥२१॥
औषधीसंश्रिता योनिः पृथक्शोधनरोपणे ॥
इमे विशेषा विज्ञेयास्त्वष्टौ शास्त्रविनिश्चयात् ॥ २२ ॥
वर्तिः कषायः कल्कश्च घृतं तैलं रसक्रिया ॥
चूर्णं धूपनमित्याहुर्विभागादष्टमं पदम् ॥ २३ ॥
१ क. मता । २ क. ॰वैशश्छेद॰ । ३ क. ॰च्छिन्नपि॰ । ४ ख. निर्द्दिष्टे ।
५ क. ॰पायकल्कस्य घृ॰ । ६ क. रसक्रिये ।

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६९
उपक्रमविधिस्त्वन्यः शास्त्रयोगात्मेवक्ष्यते ॥
─:०:─
ओषधीसंश्रिता योनिस्त्रयोविंशतिलक्षणा ॥ २४ ॥
विलायनं पाचनं च भेदनं पीडनं तथा ॥
सादनोत्सादने चैव कृमिघ्नमथ चापरम् ॥ १२५ ॥
लेपः स्वेदोऽगदः क्षारो मृदुदारणयोः क्रिया ॥
बृंहणं चापकर्षश्च संधानं शिशिरक्रिया ॥ २६ ॥
शोणितस्थापनं चैव कण्डूघ्नं धावनं तथा ॥
२प्रसादनं च वर्ण्यश्च सवर्णकरणं तथा ॥ २७ ॥
बन्धकल्पश्च विज्ञेयश्चतुर्विंशतिमं पदम् ॥
व्रणावस्थान्तराच्चैषां प्रयोगः संप्रवक्ष्यते ॥ २८ ॥
श्वयथोरविदग्धस्य कार्यं स्यात्प्रविलायनम् ॥
विदह्यमाने कर्तव्यं श्वयथोः पाचनं भवेत् ॥ २९ ॥
पक्वस्य तु भवेच्छेदस्तथा शोधनरोपणम् ॥
छवीसवर्णात्कठिनं परुषं वाऽपि वर्णतः ॥ १३० ॥
मन्दोष्माणं तथा स्तब्धमाममित्यभिलक्षयेत् ॥
विवर्णं नातिकठिनं सोष्माणं वेदनादितम् ॥ ३१॥
विदह्यमानं जानीयाच्छ्वयथुं कुशलो भिषक् ॥
सर्वतो मार्दवं शैत्यं पाण्डुता शीर्णरोमता ॥ ३२ ॥
वेदनोपशमश्चैव श्वयथोः पक्वलक्षणम् ॥
दुष्टकृशातिभीरूणां व्रणान्संवृतदेशजान् ॥ ३३ ॥
सूक्ष्मांश्चानतिपक्वांश्च भेदनीयैरूपाचरेत् ॥
वेदनाबहुले दृष्टे शिरामर्मसमाश्रिते ॥ ३४ ॥
संधिजे वाऽपि कर्तव्यं दन्तिनां पीडनं व्रणे ॥
केवलं यस्तु संधानमल्पदोषो न गच्छति ॥ १३५॥
संधानं तस्य कर्तव्यं संधानीयैरुपक्रमैः ॥
अस्थिस्नायुगतं दुष्टं तनु ४स्वल्पमुखं व्रणम् ॥ ३६ ॥
गतिमन्तमजिह्मं च शोधयेद्वर्त्तिशोधनैः ॥
पिच्छिलं विस्तृतं क्लिन्नं ५दुर्गन्धि पूतिवद्व्रणम् ॥ ३७ ॥
१ क. ०त्यचक्षते । २ क. प्रमादनं । ३ क. ०मिधीयते ॥ वि० । ४ ख.
०ल्पसुखं । ५ क. ०न्धं प्रोतव० ।

३६० पालकाप्यमुनिविरचितो— [१ शल्यस्थानम्]
प्रचलं पूतिमांसं च कषायैः शोधयेद्भिषक् ॥
आवृतं पूतिभिर्मांसैः स्नायुजालसमाकुलम् ॥ ३८ ॥
सस्फोटमवदीर्णं च शोधयेत्कल्कशोधनैः ॥
एवमेवातिसंरब्धं गम्भीरमतिवेदनम् ॥ ३९ ॥
संवृतं रुधिराश्रा(स्रा)वं शोधयेद्घृतशोधनैः ॥
सहसा न प्ररोहन्तं तनुदोषमवेदनम् ॥१४०॥
व्रणं मार्दवसंपन्नं शोधयेत्तैलशोधनैः ॥
स्नायुर्वा यत्र मांसं वा प्राग्दुष्टं नापनीयते ॥ ४१ ॥
कषायशोधनैस्तत्र कर्तव्यं चूर्णशोधनम् ॥
सपूतिमांसः सास्रावो यो व्रणो नोपरोहति ॥ ४२ ॥
उर्त्ताना तत्र कर्तव्या शोधनार्थं रसक्रिया ॥
बहुदुष्टपरिश्रा(स्रा)वे कुर्यात्प्रक्षालनक्रियाम् ॥ ४३ ॥
कण्डूमत्यपि कर्तव्यः कण्डूघ्नः स्यादुपक्रमः ॥
गतिमत्कठिनौष्ठं च कण्डूमन्तं प्रभेदिनम् ॥ ४४ ॥
दुष्टमांसाङ्कुरयुतं क्षारेणोपचरेद्व्रणम् ॥
अतिप्रवृत्ते रुधिरे शोणितस्थापनं भवेत् ॥ १४५ ॥
कृमिभिर्भक्ष्यमाणस्य कृमिघ्नः स्यादुपक्रमः ॥
उत्सन्नस्य भवेत्सादः सन्नस्योत्सादनक्रिया ॥ ४६ ॥
स्थिरत्वं मृदुतः कार्यं मार्दवं कठिनस्य च ॥
उष्णदोषातुरे शैत्यं स्वेदः शीतानिलातुरे ॥ ४७ ॥
नाभिरोहति वातार्ते व्रणे धूपनमिष्यते ॥
मेदसा युतमांसानां पवनः परिकुप्यति ॥ ४८ ॥
स्थूलानां व्रणमांसेषु तंस्तस्तानपकर्षयेत् ॥
क्षीणानां न प्ररोहन्ति व्रणा मांसविवर्जिताः ॥ ४९ ॥
तस्मात्तेषां भवेत्कार्यं बृंहणं क्रमयुक्तिः ॥
वातादीनां तु ये लिङ्गा दोषैः पाङ्गुर्विवर्जिताः ॥ १५० ॥
जिह्वातलसमः शुद्धस्तं व्रणं रोपयेद्भिषक् ॥
तत्राल्पदोषप्रस्रावं गतिमन्तमवेदनम् ॥ ५१ ॥
१ क. ॰वेदिनं । २ क. ॰दुष्टमप॰ । ३ क. ॰तिनामा संश्रावो । ४ ख.
॰त्तानस्तत्र । ५ ख. उष्णो दो॰ । ६ क. ॰तुरैः शै॰ । ७ ख. तु यो लिङ्गं दो॰ ।

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६१
वर्त्या संरोपयेद्वैद्यो हस्तिनां व्रणमुत्थितम् ॥
ईषत्तु विषमं निम्नं मृदुमांसमवेदनम् ॥ ५२ ॥
अशीघ्ररोहिणं चैव कषायेणोपरोपयेत् ॥
व्रणं पाकात्प्रसर्पन्तमतिस्नेहादरोहणम् ॥ ५३ ॥
मांसे वा त्वचि वा जातं रोपयेत्कल्करोपणैः ॥
निम्नमीषद्विश्र(स्र)वेण किंचिपित्तसमन्वितम् ॥ ५४ ॥
स्थैर्यादनुपरोहन्तं रोपयेत्सर्पिषा व्रणम् ॥
ईषद्रातातुरं सिद्धं भिषग्व्रणमवेदनम् ॥ ५५ ॥
रोपणीयेन तैलेन शास्त्रदृष्टेन साधयेत् ॥
प्रशान्तोपद्रवं स्निग्धमतिस्नेहाद्विसर्पिणम् ॥ ५६ ॥
रोपयेत्स्थिरमांसं च व्रणं चूर्णेन दन्तिनाम् ॥
मृदुमांसस्त्वतिस्नेहाद्यो व्रणो नोपरोहति ॥ ५७ ॥
स रसक्रियया साध्यो मृदुमांसश्च संधिजः ॥
वातश्लेष्मोच्चयात्कृच्छ्रं रोपयेद्रूप योगतः ॥ ५८ ॥
शुद्धाशुद्धे भवेद्येयो दन्तिनामगदो व्रणे ॥
यथा स्वमष्टवर्गेण सम्यग्वर्त्यादिना भवेत् ॥ ५९ ॥
सिरास्नाव्यस्थिकोष्ठेषु तथा संधिषु च व्रणाः ॥
गम्भीरा विषमस्थूलावस्तवगाढा गुरुक्रमाः ॥ १६० ॥
साध्या बेन्धादिना त्वेते बन्धस्तु व्रणशोधनः ॥
समो गाढोऽथ शिथिलो व्रणबन्धः प्रकीर्तितः ॥ ६१ ॥
कण्ठे मेण्ढ्रे तथा नाभ्यां पार्ष्ण्योर्ग्रीवासु पार्श्वयोः ॥
बस्तिशीर्षे च राजेन्द्र समो बन्धस्तथोदरे ॥ ६२ ॥
गाढः शिरसि कर्तव्यः स्फिकक्षे च सैपिण्डके ॥
हन्वोः पृष्ठे गुदे कण्ठे बाह्वोः स्कन्धे तथा त्रिके ॥ ६३ ॥
व्रणबन्धस्तु कर्तव्यः शिथिलः सर्वसंधिषु ॥
सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये ॥ ६४ ॥
व्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते ॥
यो बन्धमवबन्धं च विचात्सम्पग्विचक्षणः ॥ १६५ ॥
१ क. संगोप० । २ क. ०गदे व्र० । ३ क. ०णाः । यथा । गम्भीरवि० ।
४ क. गुरुक्रमैः । ५ क. बध्यादि० । ६ क. सपिण्डकौ ।
४६

पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
स बध्नीयान्न शिथिलो बन्धः स्तब्धो न वामतः ॥
अपीडया सुखं रोहेन्नापि पित्तहतो भवेत् ॥ ६६ ॥
निवसेदौषधं बन्धाद्वायुः श्लेष्मा च शाम्यति ॥
नाबन्धनाय बन्धं च वातिबन्धं च सारिकम् ॥ ६७ ॥
बद्धाबद्धं ने शिथिलं श्वध्री(?) जानाति मापत्तिम्(?) ॥
न रोपयेन्न पीडेत वस्त्रेण बाध्यते च तत् ॥ ६८ ॥
सायाह्ने चौषधैनैन सम्यक्शुद्धस्य वै गुणाः ॥
अशुद्धं साधयेच्चास्य शुद्धं तु रोपयत्यपि ॥ ६९ ॥
संगृह्णात्यौषधं वाऽपि सम्यग्बद्धस्य लक्षणम् ॥
हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेत् ॥ १७० ॥
द्व्यहात्त्र्यहाच्छरद्ग्रीष्मे वर्षास्वपि च बुद्धिमान् ॥
पोतैः कार्पासकैः क्षौमैः कौशेयैश्च विचक्षणः ॥ ७१ ॥
पत्रैर्वल्कैश्च ताम्रैश्च तथा स्याल्लोहपट्टकैः ॥
व्रणा बन्ध्या यथालाभमुपनाहैश्च तत्त्वतः ॥ ७२ ॥
येन येन च बन्धेन यो व्रणः सुखबन्धनः ॥
स तेन तेन बन्धेन बन्धितव्यो विजानता ॥ ७३ ॥
इत्येवं बन्धकल्पस्तु व्याख्यातस्ते यथाक्रमम् ॥
व्रणाः शिशिरसात्म्यानां नागानां बन्धनोष्मणा ॥ ७४ ॥
प्रायैः शुषिरमांसत्वाद्विसर्पन्ति समन्ततः ॥
तस्माच्चे स्वेदेनः साध्द्यास्तान्व्रणान्नबन्धयेद्भिषक् ॥ १७५ ॥
बन्धयोगवहां बुद्धिं कृत्वैषां प्रविचक्षणः ॥
उपरूढस्तु वैवर्ण्य यदि वातादिभिर्भवेत् ॥ ७६ ॥
व्रणस्तस्य भवेत्कार्यं वैद्यैर्वर्णप्रसादनम् ॥
सवर्णकरणं कार्यमुपरूढे व्रणे भवेत् ॥ ७७ ॥
इत्येते शास्त्रतः प्रोक्ता व्रणसिद्धावुपक्रमाः ॥
उपक्रमाणामेषां तु यथोक्तानां विभागशः ॥ ७८ ॥
१ क. च । २ क. पिण्डेत । ३ क. ॰धे चैव स॰। ४ क. ख. ॰यः सुशिर॰।
५ क. ॰दनेऽसा॰ ।

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६३
योगान्वक्ष्यामि यो येन सुप्रयुक्तेन सिध्यति ॥
काकादनी शुकनासा तथाऽपामार्गतण्डुलाः ॥ ७९ ॥
रोहिषाहिंस्रवरणं बिल्वं कुष्ठं पुनर्नवा ॥
शार्ङ्गेष्टारग्वधैः काला बृहत्यौ देवदारु च ॥ १८० ॥
कपित्थबाणटिण्डुकतगराइमन्तकाशिका ॥
मेदा च कृष्णगन्धा च हरिद्रा तालपत्रिका ॥ ८१ ॥
त्रिफला नीलपुष्पी च शतपुष्पा त्रिकण्टकम् ॥
कदरः सोमवल्कश्च कुबेराक्ष्यस्थिरोहिणी ॥ ८२ ॥
तालपत्री च कुष्ठं च फलानि निचुलस्य च ॥
एभिः कार्यं यथालानं श्वयथोः प्रविलापनम् ॥ ८३ ॥
—:०:—
सुपिष्टैश्च सुखोष्णैश्च निरूपैर्वाऽपि कारयेत् ॥
कुलत्थयवगोधूममाषकिण्वातसीतिलाः ॥ ८४ ॥
बीजा्न्येरण्डशणयोः कर्पास्य मूलकस्य च ॥
सर्षपाश्चेति पिष्टानि प्रलेपः पाचनो भवेत् ॥ १८५ ॥
श्वयथोरुष्णलवणस्निग्धश्चाम्लश्च दन्तिनाम् ॥
किणिही चित्रकश्चैव निकुम्भः सुरदारु च ॥ ८६ ॥
तगरं मातुलुङ्गं च त्रिवृता च संमांशतः ॥
गोमूत्रपिष्टैर्योगोऽयं स्व(श्व)यथूनां प्रपाचनः ॥ ८७ ॥
करवीरोञ्चटामूलं मूलं धत्तूरकस्य च ॥
लाङ्गली हरितालं च शुकगोमूत्रपेषितम् ॥ ८८ ॥
श्वयथोर्विषयुक्तस्य भवेत्पाचनमुत्तमम् ॥
—:०:—
चित्रकश्चिरबिल्वं च कोशातक्याः फलानि च ॥ ८९ ॥
मुष्ककः शृङ्गवेरं च लाङ्गलक्यक्षपीलुकौ ॥
सुवर्णक्षीरिणी चैव स्नुह्यर्कक्षीरमेव च ॥ १९० ॥
सुधा सुवर्चिका चैव तुरङ्गी कटैशर्करा ॥
कंपोतोन्दुरगृध्राणां विष्ठा पारापतस्य च ॥ ९१ ॥
१ क. ॰धः सारिवावृ॰ । २ क. ॰टिण्टुक॰ । ३ ख. मातुलिङ्गं । ४ क.
समांसतः । ५ क. प्रपाचनम् । ६ क. ॰ङ्गलीकक्षपी॰ । ७ क. ॰टकर्क॰ । ८ क.
कपातोदूर॰ ।

३६४ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
अग्निको गृहधूमश्च भवेद्भेदनमेकशः ॥
काकनासाक्षिविट्क्षारैर्भेदयेच्छस्त्रवर्जितम् ॥ ९२ ॥
—:०:—
शाल्मली शल्लकी गोजी कर्णिकारोधधन्वनः ॥ ९३ ॥
मधूकोश्मन्तकाकोलरोहिषं धातकी तथा ॥
मधुकं मधुपर्णी च जीवकर्षभकावुभौ ॥ ९४ ॥
बला विदारी मञ्जिष्ठा पथ्यालाभं प्रपीड़नम् ॥
सूच्या चैवौषधैश्चैव संधानं द्विविधं स्मृतम् ॥ १९५ ॥
तत्र वक्ष्यामि संधानमौषधैर्यत्प्रकीर्तितम् ॥
प्रपौण्डरीकं मधुकं मञ्जिष्ठा रोध्रमञ्जनम् ॥ ९६ ॥
प्रियङ्गुवोषपत्तङ्गं व्रणसंधानमिष्यते ॥
दन्ती श्यामा यवक्षारः स्वर्जिका चित्रकः सुधा ॥ ९७ ॥
क्षवकः शेल्लुका किण्वं महावृक्षार्कयोः पयः ॥
लाङ्गलिक्याक्षिकौ चैव पिप्पलीमूलमेव च ॥ ९८ ॥
एतन्मधुसमायुक्तं व्रणशोधनमुत्तमम् ॥
कृष्णमुष्ककपत्राणि महावृक्षत्वगेव च ॥ ९९ ॥
दन्त्यर्कमूले लवणं मकट्छमूत्रपेषितम् ॥
हरितस्मर्कयैर्युक्तं व्रणशोधनमुत्तमम् ॥ २०० ॥
शोभाञ्जनकेमूलं च तिलक्षारं तथैव च ॥
भल्लातकं यवक्षारं क्षारमिक्षुरकस्य च ॥ १ ॥
कुष्ठं चातिविषां चैव दन्ती कटुकरोहिणी ॥
तेजोवती हरिद्रे द्वे श्लक्ष्णकल्कं प्रदापयेत् ॥ २ ॥
सैन्धवेन समायुक्तो नाड्याश्च(?) व्रणशोधनम् ॥
विदारी करवीरश्च नक्तमालेऽथ मार्कवः ॥ ३ ॥
सुरसाखदिरौ निम्बो भाण्डी जाती वटस्तथा ॥
तर्कार्यङ्कोलशङ्खिन्यः सप्तपर्णो हरीतकी ॥ ४ ॥
हरिद्रा चाश्वगन्धा च कषायः शोधनं भवेत् ॥
चित्रकस्त्रिवृता दन्ती श्यामा लाङ्गुलकी तथा ॥ २०५ ॥
१ क. शङ्खिनी । २ क. ॰कचूर्णं च । ३ क. भार्ङ्गी ।

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३६५
पटोली काकजङ्घी च द्रवन्ती कृतवेधना ॥
हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी ॥ ६ ॥
अजेगुल्यश्वपत्राणि घृताक्तं कल्कशोधनम् ॥
तृ(त्रि)वृता शृङ्गवेरं च स्नुह्यर्कक्षीरमेव च ॥ ७ ॥
तेजोवती लाङ्गलकी कुष्ठं हिंस्रा च चित्रकः ॥
रजनी सैन्धवं चैव तथा कटुकरोहिणी ॥ ८ ॥
पिप्पलीमूलनिर्यूहैः शुद्धं सर्पिर्विशोधनम् ॥
बृहती कटुका रोधं कोशातक्याः फलानि च ॥ ९ ॥
मदनं त्रपुसी काला सर्षपा रजनी तथा ॥
पिप्पल्यश्वावगन्धा च मूर्वा पोतांऽथ चित्रकः ॥ २१० ॥
दुष्टानामरुजामेतत्तैलं शोधनमिष्यते ॥
त्रिफलातगरोशीरं हरिद्रा तालपत्रिका ॥ ११ ॥
मुस्ता दारुहरिद्रा च (※कर्पासीपत्रमेव