सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 375, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 375

इति वातादिभिर्दुष्टः षड्विधः कीर्तितो व्रणः ॥
व्रणदोषान्प्रवक्ष्यामि यातृदोषकृतानथ ॥ ८२ ॥
यदा युनक्ति मातङ्गं याता कर्मण्यमात्रया ॥
तस्य यातुरविज्ञानाद्व्यायामादीर्यते व्रणः ॥ ८३ ॥
व्रणदोषास्तु वक्ष्यन्ते हस्तिवैद्यापराधजाः ॥
अयथावत्प्रयुक्तैश्च शस्त्राग्निक्षारभेषजैः ॥ ८४ ॥
अज्ञानाद्वा प्रमादाद्वा व्रणे वैद्योऽपराध्यति ॥
कामक्रोधभयाद्वाऽपि वारणोऽप्यपराध्यति ॥ ८५ ॥
ततः प्रकुरुते दोषान्व्रणेष्वान्मापराधजान् ॥
अथ दोषान्प्रवक्ष्यामि यातृदोषकृतांस्तथा ॥ ८६ ॥
यदा तुहिम(न)या नौगं पाता कर्मण्यमात्रया ॥
यस्य यातुरविज्ञानाद्व्यायामादीर्यते व्रणम् ॥ ८७ ॥
दोषवैद्यमहामात्रैरातुरेण च वर्जितः ॥
यहच्छयोपपन्नैस्तु दोषैर्यादृच्छिको व्रणः ॥ ८८ ॥
वृत्ता च चतुरस्रा च द्विविधा योनिरकृतेः ॥
व्रणानां शस्त्रनिर्दिष्टा विज्ञेया स्यात्समासतः ॥ ८९ ॥
सा च गात्रप्रदेशानां शस्त्राणां च विभक्तितः ॥
प्रहर्तॄणां च वैशेष्याद्विशेषाल्लभते बहून् ॥ ९० ॥
यथा रोगा न जायन्ते वनेषु वनचारिणाम् ॥
वनानुचरिताध्याये तदस्माभिः प्रकीर्तितम् ॥ ९१ ॥
निसर्गात्सात्म्यतः पीते जले पांथुप्रमोथतः ॥
विना वैद्यैः प्ररोहन्ति द्विरदानां वने व्रणाः ॥ ९२ ॥
शुषिरं मृदु चैतेषां मांसं मेदःसमन्वितम् ॥
तेनैषामीषदृन्मृष्टा व्रणाः सर्पन्ति सेर्वतः ॥ ९३ ॥
कोशवन्तश्च जायन्ते प्रायसो(शो)दन्तिनां व्रणाः ॥
स पुनर्वक्ष्यते हेतुर्दन्तनाडीचिकित्सिते ॥ ९४ ॥
—:o:—
शुद्धश्चैवाऽप्यशुद्धश्च संरूढश्चैव सर्वतः ॥
त्रिविधस्तु व्रणो ज्ञेयो विकृतोद्गमदाहजः ॥ ९५ ॥


१ क. अथ याव० । २ क. नागमापातात्कर्ममा० । ३ ख. व्रणः । ४ क.
०र्गात्सितः पीतज० । ५ क. ०मादतः । ६ क. सर्वशः