सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 370, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 370

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३५१
व्रणस्य त्रिविधा योनिर्यस्यां वै जायते व्रणः ॥
उद्गमो †वैकृतं दाहस्तस्यापि त्रिविधः स्मृतः ॥ १२ ॥
तत्रास्य उद्गमो ज्ञेयो द्विविधः शास्त्रनिश्चयात् ॥
देहे दोषसमुत्थश्च यश्च यादृच्छिको भवेत् ॥ १३ ॥
तत्र वातात्कफात्पित्तान्मेदसः शोणितादपि ॥
उद्गमः संनिपाताच्च जायते दोषसंभवः ॥ १४ ॥
यादृच्छिकोऽपि विज्ञेयः स्व(श्व)पथुर्विविधात्मकः ॥
विषाणां चापि संसर्गाद्द्रव्यैश्चैवाभिघाततः ॥ १५ ॥
श्वयथोर्वेदना वातात्पित्तात्पाकः कफाद्रुतिः ॥
यस्तत्र बलवान्दोषस्तेन तस्य तदात्मता ॥ १६ ॥
अल्पो वृत्तस्तु कठिनो ग्रन्थिरित्यभिधीयते ॥
पृथुर्यो दीर्घः शोफः स्याद्विद्रधिर्गजकुम्भवत् ॥ १७ ॥
❊विकृतानामियं योनिस्तद्विधानं प्रच(व)क्ष्यते ॥
घृष्टं दष्टं क्षतं चैव तस्या भवति लक्षणम् ॥ १८ ॥
तत्र रज्ज्वादिभिर्घृष्टं दष्टं चाऽऽशीविषादिभिः ॥
गजव्रणकरैर्भावैस्तीक्ष्णैर्वैक्षतमुच्यते ॥ १९ ॥
छेदनं व्यधनं चैव द्रव्यैर्नानाविधात्मकैः ॥
अवकृत्तावसृष्टे च पृथगेतच्चतुर्विधम् ॥ २० ॥
ततस्तस्य भवेच्छिन्नं विभागात्पञ्चलक्षणम् ॥
छिन्नं विच्छिन्नमुत्सृष्टमवकृष्टं स (च) दारितम् ॥ २१ ॥
तत्र च्छिन्नमिति ज्ञेयं सर्वशोऽङ्गापवर्तनम् ॥
प्रहारसंनिपातस्तु विच्छिन्नमिति कीर्त्यते ॥ २२ ॥
कर्णलाङ्गूलहस्तानां द्विधाभावस्तु दारितम् ॥
अवकृष्टं तु विज्ञेयमधः †स्थात्वस्थिमांसगम् ॥ २३ ॥
एतदेव विपर्यस्तमुत्कृष्टमिति कीर्त्यते ॥
इति पञ्चविधं छिन्नं विभागात्संप्रकीर्तितम् ॥ २४ ॥
विद्धस्यापि तु विज्ञेयः प्रविभागश्चतुर्विधः ॥
निविद्धमनिर्विद्धं च विद्धमुत्तुण्डितं च यत् ॥ २५ ॥
† ‘वैक्षतं, विक्षतं वा स्यादग्रिमग्रन्थानुसारात् । * ‘विक्षतानाम्’ इति भवेत्,
अग्रिमपाठानुसारात् । † ‘स्नाव्यस्थिमांसगम्’ इति स्यात् ।