सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 374, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 374

१ द्विव्रणीयाध्यायः ] हस्त्यायुर्वेदः । ३५६
बालार्केन्द्रधनुर्वर्णः शिखिकण्ठनिभोऽपि वा ॥
व्रणो यः सोऽचिकित्स्यः स्यात्क्षमेद्यत्र न च क्रिया ॥ ६८ ॥
व्रणे शल्यं तु विज्ञेयं द्विविधं शास्त्रनिश्चयात् ॥
शारीरं चैव बाह्यं च तस्य वक्ष्यामि लक्षणम् ॥ ६९ ॥
तृणकाष्ठायसादीनि बाह्यं शल्यं व्रणाश्रयम् ॥
शारीरं त्वस्थिपूयासृङ्मांसस्नायुशिराश्रयम् ॥ ७० ॥
दोषो योता भिषकैव यदृच्छा च मतङ्गजः ॥
पञ्चैव पठिता राजन्व्रणोपद्रवयोनयः ॥ ७१ ॥
तत्र तावत्प्रवक्ष्यामि प्रथमं क्रमयुक्तितः ॥
गन्धवर्णस्रावाकारैर्वातादिभिरुपद्रुतान् ॥ ७२ ॥
तत्र विण्मूत्रबस्तीनां सगन्धः परुषः कृशः ॥
प्रभूतकृष्णश्चा(स्रा)वश्च स्याद्व्रणः पवनातुरः ॥ ७३ ॥
शुकहारिद्रकाचाभः शिखिकण्ठप्रभोऽपि वा ।
व्रणस्तद्वर्णनिस्रावः सदोष्णश्चैव यो भवेत् ॥ ७४ ॥
कषायो गैरिकनिभः प्रस्रावो यः सवेदनः ॥
तिक्ताम्लकुणपैर्गन्धैर्युक्तः पित्तातुरो भवेत् ॥ ७५ ॥
सू(शू)नः स्तब्धो गुरुः शीतः सुप्तोऽन्तःपिटकान्वितः ॥
यश्चाम्बुपिच्छिलस्रावी पूयं वा यः परिस्रवेत् ॥ ७६ ॥
दूयते बहलोष्णश्च कण्डूमान्सपरिग्रहः ॥
कपोतपाण्डुवर्णाभो यश्च स्यात्तुल्यगन्धिकः ॥ ७७ ॥
विपन्नमत्स्यमांसानां स कफेनाऽऽतुरो व्रणः ॥
कुलत्थवर्णं रक्तं वा यः स्रवेद्बहुवेदनः ॥ ७८ ॥
दूयते दह्यते चैव प्रस्रवेद्गैरिकोपमम् ॥
रक्ताभं संस्रवेत्क्षिप्तं स्याद्व्रणः शोणितातुरः ॥ ७९ ॥
दोषाणां दोषयोर्वाऽपि यथास्वं दोषलक्षणैः ॥
विज्ञेयः संनिपातेन दन्तिनां दूषितो व्रणः ॥ ८० ॥
शुक्लः शीतो मृदुश्चैव वसामज्जापरिस्रवः ॥
पक्षिनीडसुगन्धिश्च स्याद्व्रणो मेदसाऽऽतुरः ॥ ८१ ॥
१ क. ॰स्यात्क्रमेद्यत्र च विक्रियाम् ॥ त्र° । २ क. याति । ३ ख. ॰पमः ॥
। ४ क. शान्तो ।